________________
पदं-३६, उद्देशकः, द्वार
२७३ असङ्ख्येया वा प्रतिपत्तव्याः केवलं ते कतिपये इति न विवक्षिताः,
_ 'केवइया पुरेक्खड'त्ति इदं सूत्रं पाठसूचामात्रं, सूत्रपाठस्त्वेवम्-'एगमेगस्स णं भंते ! नेरइयस्स केवइया वेयणासमुग्घाया पुरेकखडा' ? ति, सुगमं, नवरंपुरेअग्रे कृताः-तत्परिणामप्राप्तियोग्यतयाव्यवस्थापिताः, सामार्थ्यात् तत्कर्तृजीवेनेति गम्यते, पुरस्कृता-अनागतकालभाविन इति तात्पर्यार्थः, अत्र भगवानाह-कस्यापि सन्तिकस्यापिनसन्ति, यस्यापिसन्ति तस्यापिजधन्यत एको द्वौ वा त्रयो वा, उत्कर्षतः सङ्खयेया वा असङखयेया वा अनन्ता वा, इयमत्र भावना--
योनामविवक्षितप्रश्नसमयानन्तरं वेदनासमुद्घातमन्तरेणैव नरकादुद्वत्त्यानन्तरमुष्यभवे वेदनासमुद्घातमप्राप्त एव सेत्स्यतितस्य पुरतो वेदनासमुद्घात एकोऽपि नास्ति, यस्तुविवक्षितप्रश्नसमयानन्तरमायुः शेषे कितत्कालं नरकभवे स्थित्वा तदनन्तरं मनुष्यभवमागत्य सेत्स्यति तस्य एकादिसम्भवः, सञ्जयातकालसंसारावस्थायिनः सङ्ख्याता असङ्ख्यातकाल संसारावस्थायिनोऽसङ्ख्याताःअनन्तकालसंसारावस्थायिनोऽनन्ताः, एव'मित्यादि, एवंनैरयिकोक्तप्रकारेणासुरकुमारस्यापियावत्स्तनितकुमारस्य वाच्यं, ततश्चतुर्विंशततिदण्डकक्रमेण निरन्तरतावद्वाच्यं यावद्वैमानिकस्य, किमुक्तं भवति ?--
सर्वेष्वपिअसुरकुमारादिषुस्थानेषुअतीतावेदनासमुद्घाताअनन्तावाच्याः, पुरस्कृतास्तु कस्यापि सन्ति कस्यापिन सन्ति, यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ वात्रयो वा उत्कर्षतः सङ्खयेया असङ्खयेया अनन्ता वा इति वाच्याः, भावनापि पूर्वोक्तानुसारेण स्वयं परिभावनीया, एवं चतुर्विंशतिदण्डकक्रमेण कषायसमुद्घातोमारणान्तिकसमुद्घातो वैक्रियसमुद्घातस्तैजससमुद्घातश्च प्रत्येकं, तत एव पढञ्च चतुर्विंशतिदण्डकसूत्राणि भवन्ति, तथा चाह-एवं जाव तेयगसमुग्घाए'इत्यादि, एवं वेदनासमुद्घातप्रकारेण शेषसमुद्घाततेष्वपि प्रत्येकं तावद्वक्तव्यं यावत्तैजससमुद्घात;, शेषं सुगम,
'एगमेगस्सण'मित्यादि, एकैकस्य भदन्त! नैरयिकस्यपाश्चात्यं सकलमतीतकालमपक्ष्य कियन्त आहारकसमुद्घाता अतीताः ?, भगवानाह-गौतम ! कस्यापि अस्थित्ति अस्तीति निपातः सर्वलिङ्गवचनो, यदाह शाकटायनन्यासकृत्-“अस्तीतिनिपातः सर्वलिङ्गवचनेष्वि"ति, ततोऽयमर्थः-कस्यापि अतीता आहारकसमुद्घाताः सन्ति कस्यापि न सन्ति, येन पूर्व मानुष्यं प्राप्य तथाविधसामग्रयभावतश्चतुर्दश पूर्वाणि नाधीतानि, चतुर्दशपूर्वाधिगमे वा आहारकलब्ध्यभावतः तथाविधप्रयोजनाभावतो वा आहारकशरीरं न कृतं तस्य न सन्तीति, यस्यापि सन्तितस्यापिजघन्यतःएकोबा द्वीवाउत्कर्षस्तुत्यो, नतुचत्वारः,चतुः-कृत्वः कृताहारकशरीरस्य नरकगमनाभावात्, आह च मूलटीकाकारः-“आहारसमुग्घाया उक्कोसेणं तिन्नि, तदुवरि नियमा नरगं न गच्छइ जस्स चत्तारि भवन्ति" इति, पुरस्कृता अपि कस्यापि सन्ति कस्यापि न सन्ति, तत्र योमानुष्यं प्राप्यतथाविधसामण्यमावतश्चतुर्दशपूर्वाधिगममाहारकसमुद्घातंचान्तरेण सेत्स्यति तस्यन सन्ति, शेषस्यतुयथासम्भवंजघन्यतएको द्वौवात्रयो वा उत्कर्षतश्चत्वारः, तत ऊर्ध्वमवश्यं गत्यन्तरासंक्रमेणाहारकसमुद्घातमन्तरेण च सिद्धिगमनभावात्,
__ "एवं मित्यादि, एवं नैरयिकोक्तेन प्रकारेण चतुर्विंशतिदण्डकक्रमेण निरन्तरतावद्द्वाच्यं यावद्वैमानिकसयसूत्रं, नवरं मनुष्यस्यातीता अपिपुरस्कृताअपियथा नैरयिकस्य पुरस्कृतास्तथा [11] 18
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org