SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ २७२ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-1-1६०० भयविनाशकत्वात्, समुद्घाताः-उक्तशब्दार्थाः प्रज्ञप्ताः, भगवानाह-'गोयमे'त्यादि, गौतम ! सप्तसमुद्घाताः प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घात इत्यादि, वदनायाः समुद्घातो वेदनासमुद्घातः, एवं यावदाहारकसमुद्घात इति, केवलिसमुद्घात' इति केवलिनः समुद्घातः केवलिसमुद्घातः सम्प्रति कः समुद्घातः कियन्तं कालं यावद्भवतीत्येतन्निरूपणार्थमाह वेयणे'त्यादि, सुगम, नवरं जावे' त्यादि, एवमुक्तप्रकारेणाभिलापेनान्तर्मुहूर्तप्रमाणतया च समुद्घाताःक्रमेण तावद्वाच्याः यावदाहारकसमुद्घातः, एतेषडप्याद्याआन्तर्मुहूर्तिका केवलिसमुद्घातस्त्वष्टसायमयिकः, सचानन्तरमेवभावित;, एतानेवसमुद्घातान् चतुर्विंशतिदण्डकक्रमेण चिन्तियिषुराह _ 'नेरइयाण"मित्यादि, नैरयिकाणामाद्याश्चत्वारः, तेषां तेजोलब्ध्याहारकलब्धिकेवलित्वाभावतःशेषसमुद्घातत्रयासम्भवात्,असुरकुमारादीनां दशानामपि भवनपतीनां तेजोलेश्यालब्धिभावात् आधाः पञ्चसमुद्घाताः, पृथिवीकायिकाकायिकतैजस्कायिकवनस्पतिकायिकद्वित्रिचतुरिन्द्रियाणामाद्यास्त्रयः, तेषां वैक्रियादिलब्ध्यभावतः उत्तरेषांचतुर्णामपि समुद्घातनानामसम्भवात्, वायुकायिकानामाद्याश्चत्वारस्तेषां वैक्रियलब्धिसम्भवेन वैक्रियसमुद्घातस्यापि सम्भवात्, पञ्चेन्द्रियतिर्यग्योनिकानामाद्याः पञ्च, केषांचित्तेषां तेजोलब्धेरपि भावात्, मनुष्याणां सप्त, मनुष्येषु सर्वसम्भवात्, व्यन्तरज्योतिष्कवैमानिकानामाद्याः पञ्च, वैक्रियतेजोलब्धिभावाद्, उत्तरौ तु द्वौ न सम्भवतः, आहारकलब्धिकेवलित्वायोगात्॥ सम्प्रतिचतुर्विंशतिदण्डकमधिकृत्य एकैकस्यजीवस्यकतिवेदनादयः समुद्घाताअतीताः कति भाविन इति चिचिन्तयिषुराह मू. (६०१) एगमेगस्स णं भंते ! नेरइयस्स केवइया वेदनासमुग्धाया अतीत ?, गो० ! अनंता, केवइया पुरेक्खडा?, गो०! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि तस्स जहन्नेणं एको वा दो वा तिन्विा उक्कोसेणं संखेशा वा असखेजा वा अनंता वा, एवमसुरकुमारस्सवि निरंतरं जाव वेमाणियस्स, एवं जावतेयगसमुग्घाते, एवमेते पंच चउवीसा दंडगा। एगमेगस्सणं भंते! नेरइयस्स केवइया आहारसमुग्घायाअतीता?, कस्सइ अस्थि कस्सइ नस्थि, जस्स अस्थि तस्स जह० एको वा दो वा उक्को० तिन्नि, केवइया पुरेक्खडा ?, कस्सइ अस्थि कस्सइ नस्थि, जस्सत्थि जह० एको वा दो वा तिन्नि वा उक्को० चत्तारि, एवं निरंतरं जाव वेमाणियस्स, नवरं मणूसस्स अतीतावि पुरेक्खडावि जहा नेरइयस्स पुरेक्खडा, एगमेगस्स णं भंते ! नेरइयस्स केवतिया केवलिसमुग्घाया अतीता?, गो० ! नस्थि, केवइयापुरेक्खडा?, गो०! कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थि एको, एवंजाव वेमाणियस्स, नवरंमणूसस्स अतीता कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि एक्को, एवं पुरेक्खडावि वृ. 'एगमेगस्सणंभंते!' इत्यादि, एकैकस्य सूत्रेमकारोऽलाक्षणिकः, भदन्त १ नैरयिकस्य सकलमतीतं कालमधिकृत्य केवइय'त्ति कियन्तो वेदनासमुद्घाता अतीता--अतिक्रान्ताः?, भगवानाह-गौतम! अनन्ताः नारकादिस्थानानामनन्तशःप्राप्तत्वादेकैकस्मिंश्च नारकादिस्थानप्राप्तिकाले प्रायोऽनेकशो वेदनासमुद्घातानां भावात्, एतच्च बाहुल्यापेक्षयोच्यते, बहवो हि जीवा अनन्कालसमसंव्यवहारराशेरुद्वत्ता वर्तन्ते, ततस्तदपेक्षया एकैकस्य नैरयिकस्यानन्ता अतीता वेदनासमुद्घाता उपपद्यन्ते, येतुस्तोककालमसंव्यवहारराशेरुद्वृत्तास्तेषां यथासम्भवंसद्धयेया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy