________________
प्रज्ञापनाउपाङ्गसूत्रम्- ३६/-// ६०२
भाविसंसारावस्थानभावात्, एवं चतुर्विंशतिदण्डकक्रमेण तावद् वक्तव्यं यावद्वैमानिकानां यथा च वेदनासमुदअघातश्चतुर्विंशतिदण्डकक्रमेण चिन्तितः तथा कषायमरणवैक्रियतजस समुद्घाता अपि चिन्तनीयाः, तथा चाह
'एवं जाव तेयगसमुग्धाए' एवं च सति एतान्यपि बहुत्वाविषयाणि पञ्च चतुर्विंशतिदण्डकसूत्राणि भवन्ति, एतदेवाह- 'एवमेएति य पंच चउव्वीसदंडगा' इति, आहारकसमुद्घातचिन्तां कुर्वन्नाह - 'नेरइयाण' मित्यादि, अत्र प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! असङ्ख्येयाः, इयमत्र भावना - इह नैरयिकाः सर्वदाऽपि प्रश्नसयभाविनः सर्वसङ्घययाऽप्यसङ्ख्येयाः, तेषामपि मध्ये कतिपयाः सङ्ख्यातीताः कृतपूर्वाहारकसमुद्घातास्ततोऽसङ्घयेया एव तेषामतीताहारसमुद्घाता घटन्ते, नानन्ताव नापि सङ्घयेयाः, एवं पुरस्कृता अपि भावनीयाः, एवं चतुर्विंशतिदण्डकक्रमेण तावद्वाच्यं यावद्वैमानिकानां, आह च
२७६
'एवं जाव वेमाणियाणं' अत्रैव यो विशेषस्तं दिदर्शयिषुराह - 'नवर' मित्यादि, नवरं वनस्पतिकायिकचिन्तायां मनुष्यचिन्तायां च नैरयिकापेक्षया नानात्वमवसेयं, तदेव नानात्वमाह'वणष्फइकाइयाण' मित्यादि, अत्र प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! अनन्ताः, अनन्तानामधिगतचतुर्दशपूर्वाणां कृताहारकसमुद्घातानां प्रमादवशतः उपचितसंसाराणां वनस्पतिषु भावात्, पुरस्कृता अनन्ताः, अनन्तानां वनस्पतिकायादुद्धृत्य चतुर्दशपूर्वाधिगमपुरस्सरं कृताहारकसमुद्घातानां भाविसिद्धिगमनभावात्,
'मणुस्साणं भंते!' इत्यादि, अत्रापि प्रश्नसूत्रं प्रतीतं, भगवानाह - गौतम ! स्यादिति निपातोऽनेकान्तद्योती, ततोऽयमर्थः- कदाचित सङ्घयेयाः कदाचिदसङ्घयेयाः, कथमिति चेत्, उच्यते, इह सम्मूर्च्छिमगर्भव्युत्क्रान्तसमुदायचिन्तायां उत्कृतष्टपदे मनुष्या अङ्गुलमात्रक्षेत्रे यावान् प्रदेशराशिस्तस्य यत्प्रथमं वर्गमूलं तत् तृतीयवर्गमूलेन गुणितं सत् यावत्प्रमाणं भवतिएतावत्प्रदेशप्रमाणानि खण्डानि धनीकृतस्य लोकस्य एकपादेशिक्यां श्रेणी यावन्ति भवन्ति एतावप्रमाणा एकहीनाः, ते चातीव शेषनारकादिजीवराश्यपेक्षया स्तोकाः, तत्रापि ये पूर्वमवेषुकृताहारकशरीरास्ते कतिपयाः, ते च कदाचित् विवक्षितप्रश्नसमये सङ्घयेया; कदाचिदसङ्घयेयाः, तत उक्तम्- 'सिय संखेज्जा सिय असंखेज्जा' इति, अनागतेऽपि काले विवक्षितप्रश्नसमयभाविनां मध्ये कतिसङ्ख्या वाहारकशरीरमारप्स्यन्ति तेऽपि कदाचित् सङ्घयेयाः कदाचिदसङ्घयेयाः, तत आह
'एवं पुरेकाडावि' त्ति एवं अतीतगतेन प्रकारेण वनस्पतिकायिकानां मनुष्याणां च पुरस्कृता अपि आहारकसमुद्घाता वेदितव्याः, ते चैवम्- 'वणप्फइकाइयाणं भंते ! केवइया आहारगसमुग्धाया पुरेक्खडा ?, गो० ! अनंता, मणुस्साणं भंते! केवइया आहारगसमुग्धाया पुरेक्खडा ?, गो० ! सिय संखेज्जा सिय असंखेज्जा' इति, केवलिसमुद्घातविषयं प्रश्नसूत्रमाह'नेरइयाणं भंते!' इत्यादि सुगमं, भगवानाह - गौतम ! न सन्ति केचनातीता नैरयिकाणां केवलिसमुद्घाताः कृतकेवलिसमुद्घातानां नारकादिगमनासम्भवात्, कियन्तः पुरस्कृता इति प्रश्नः, भगवानाह - गौतम ! असंख्येयाः, सर्वदा विवक्षितप्रश्नसमयभाविनां मध्येऽसङ्ख्यातानां माविकेवलिसमुद्घातत्वात्, तथा केवलवेदसोपलब्धेः एवं चतुर्विंशतिदण्डकक्रमेण निरन्तरं तावद् वाच्यं यावद् वैमानिकानां सूत्रं, तथा चाह
'एवं जाव वैमाणियाणं' अत्रैव विशेषमाह - 'नवर' मित्यादि, नवरं - वनस्पतिकायिकेषु
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International