SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ २७० प्रज्ञापनाउपाङ्गसूत्रम्-२-३६/-1-1५९९ विक्षिप्तस्वप्रदेशो वदनोदरादिरन्प्राणि स्कन्धाद्यपान्तरालानि चापूर्य विष्कम्भबाहल्याभ्यां स्वशरीरप्रमाणमायामत्; स्वशरीरातिरेकतोजघन्यतोऽङ्खलासङ्ख्येयभार्ग उत्कर्षतोयसङ्ख्येयानि योजनान्येकदिशि क्षेत्रमभिव्याप्य वर्तत इति वक्तव्यं, वैक्रियसमुद्घातगतःपुनर्जीवः स्वप्रदेशान् शरीराबहिनिष्काश्य शरीरविष्कम्भबाहल्यमानमायामतः सङ्घयेययोजनप्रमाणंदण्डनिसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्ग-ान्प्राग्वत्शातयति, तथाचोक्तम्-'वेउब्बियसमुग्घाएणंसमोहणइ संमोहणित्ता संखिजाई जोयणाई दंडं निसिरइ, निसिरित्ता अहाबायरे पुग्गले परिसाडेइ'इति, एवं तैससाहारसमुद्घातावपि भावनीयौ, नवरं तैजसमुद्घातस्तेजोलेश्याविनिर्गमकाले तैजसनामकर्मपुद्गलपरिशातहेतुः, आहारकसमुद्घातगतस्त्वाहारशरीरनामकर्मपुद्गलान् परिशातयतीति, केवलिसमुद्घातगतः केवली सदसवेद्यादिकर्मपुद्गलपरिशातं करोति, सच यथा कुरुते तथा विनेयजनानुग्रहाय भाव्यते इति, केवलिसमुद्घातोऽष्टसामयिकः, तं च कुर्वन् केवली प्रथमसमयेबाहल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तंआत्मप्रदेशानांदण्डमारचयति, द्वितीयसमये पूर्वापरं दक्षिणोत्तरंवा कपाटंतृतीयेमन्थानंचतुर्थेऽवकाशान्तराणांपूरणं पञ्चमेऽवकाशान्तराणां संहारं षष्ठेः मथः सप्तमे कपाटस्य अष्टमे स्वशरीरस्थो भवति, वक्ष्यतिच-“पढमे समये दंडंकरेई,बीए कवाडं करेइ' इत्यादि, तत्र दण्डसमयात्प्राक्या पल्योपमासस्येयभागमात्रा वेदनीयनामगोत्राणां स्थितिरासीत तस्या बुद्धया असङ्खयेयभागाः, क्रियन्ते,ततोदण्डसमये दण्डं कुर्वन् असझयेयान् भागान् हन्ति, एकोऽसङ्खयेयो भागोऽवतिष्ठते, यश्च प्राकर्मत्रयस्यापि रसस्तस्याप्यनन्ता भागाः क्रियन्ते, ततस्तस्मिन् दण्डसमये असातवेदनीय १ प्रथमवर्जससंस्थान ६ संहननपञ्चका ११ प्रशस्तंवर्णादिचतुष्टयो १५ पघाता १६ प्रशस्तविहायोगति १७ दुःस्वर १८ दुर्भगा १९ स्थिरा २० पर्याप्तका २१ शुभा २२ नादेया २३ यशः कीर्ति २४ नीचैर्गोत्ररूपाणां २५ पञ्चविंशतिप्रकृतीनामनन्तान् भागान् हन्ति, एकोऽनन्तभागोऽवशिष्यते, तस्मिनेवच समये सातवेदनीय १ देवगति २ मनुष्यगति ३ देवानुपूर्वी ४ मनुष्यापूर्वी ५ पञ्चेन्द्रियजाति ६शरीरपञ्चको ११ पाङ्गत्रय १४ प्रथमसंस्थान १५संहनन१६प्रशस्तवर्णादिचतुष्टया २० गुरुलघु २१ पराघातो २२ च्छ्वास १३ प्रशस्तविहायोगति २४ स २५ बादर २६ पर्याप्त २७ प्रत्येकातपो २९ द्योत ३० स्थिर ३१ शुभ ३२ सुभग ३३ सुस्वरा ३४ देय ३५ यशःकीर्ति ३६ निर्माण ३७ तीर्थकरो३७ चैर्गोत्ररूपाणा ३९ मेकोनचत्वारिंशतः प्रकृतीनामनुभागोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनोनोपहन्यते, समुद्घातमाहात्म्यमेतत् तस्य चोद्धरितस्यस्थितेरसङ्घयेयभागस्यानुभागस्य चानन्तभागस्य पुनर्यथाक्रमं असङ्खयेयाअनन्ताश्चभागाः क्रियन्ते, द्वितीयेकपाटसमये स्थितेरससङ्खयेयान् भागान हन्ति, एकोऽवशिष्यते, अनुभागस्य चानन्तान् भागान् हन्ति एकंमुञ्चति, अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनप्रशस्तप्रकृत्यनुभागघातोद्रष्टव्यः,पुनरप्येतत्समयेऽवशिष्टस्यस्थितेरसङ्खयेयभागस्यानुभागस्य चानन्ततमभागस्य पुनर्बुध्या यथाक्रममसङ्ख्येया अनन्ताश्च भागाः क्रियन्ते ततस्तृतीये समये स्थितेरसङ्खयेयान् भागान् हन्ति, एकं मुञ्चति, अनुभागस्य चानन्तान् भागान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy