SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ पदं-३६, उद्देशकः, द्वारं २६९ पदं-३६ - "समुद्धातः" वृ. तदेवं व्याख्यातं पञ्चत्रिंशत्तमं पदं, सम्प्रति षट्त्रिंशत्तममारभ्यते, तस्य चायमभिसम्बन्धः-इहानन्तरपदे गतिपरिणामविशेषो वेदना प्रतिपादिता, इहापिगतिपरिणामविशेष एव समुद्घातश्चिन्त्यते, तत्र समुद्घातवक्तव्यताविषयए इयमादौ सङ्ग्रहणिगाथामू. (५९९) वेयणकसायमरणे वेउब्वियतेयए य आहारे। केचलिए चेव भवे जीवमणुस्साण सत्तेव ।। वृ. 'वेयणे' त्यादि, इह समुद्घाताः सप्त भवन्ति, तद्यथा--'वेयणकसायमरणे' इति, वेदनं कषायाश्च मरणं च वेदनकषायमरणं समाहारो द्वन्द्वस्तस्मिन् विषये त्रयः समुद्घाता भवन्ति, तद्यथा-वेदनासमुद्घाताः कषायसमुद्धातोमरणसमुद्घातश्च, वेउब्बिय'त्ति वैक्रियविषयश्चतुर्थः समुद्घातः, तैजसः पञ्चमः समुद्घात;, षष्ठ आहार इति-आहारकशरीरविषयः, -सप्तमः केवलिकः-केवलिषुभवति, जीवमणुस्साण सत्तेवित्तिसामान्यतोजीवचिन्तायां मनुष्यद्वारचिन्तायां सप्तैव-सप्तपरिमाणाः समुद्घाता वक्तव्याः, न न्यूनाः, सप्तानामपि तत्र सम्भवात, 'सत्तेव'त्ति एवकारोऽत्र परिमाणे, वर्तते च परिमाणे एवशब्दः, यदाह शाकटायनन्यासकृत्-‘एवोऽवधारणपृथकत्वपरिमाणेष्विति, शेषद्वारचिन्तायांतुयथासम्भवं वाच्याः,ते चाग्रे स्वयमेव सूत्रकृताऽभिधास्यन्ते इत्येष सङ्ग्रहणिगाथासक्षेपार्थः।। __ अथ समुद्घात इति कः शब्दार्थः ?, उच्यते, समित्येकीभावे उप्राबल्ये, एकीभावेन प्राबल्येन घातः समुद्घातः, केन सह एकीभावगमनमिति चेत्, उच्यते, अर्थाद्वेदनादिभिः तथाहियदाऽऽत्मा वेदनादिसमुद्घात गतो भवति तदा वेदनाद्यनुभवज्ञानपरिणतएव भवति, नान्यज्ञानपरिणतः, प्रावल्येन कथं घात इति चेत्, उच्यते, इह वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदयावलिकायां प्रक्षिप्यानुभूय च निर्जरयति, आत्मप्रदेशैस्सह सलिष्टान् सातयतीति भावः, 'पुवकयकम्मसाडणं तु निज्जरा' इति वचनात्, तथाहि-वेदनासमुद्घातोऽसद्वेधकर्माश्रयः, . ___ कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्घातः अन्तर्मुहूर्तशेषायुःकश्रियः, वैक्रिवकतैजसाहारकसमुद्घाता यथाक्रमंवैक्रियशरीरतैजसशरीराहारकशरीरनामकर्माश्रयाः, केवलिसमुद्घातः सदसद्वेधशुभाशुभनामोच्चनीयचैर्गोत्रकर्माश्रयः, तत्रवेदनासमुद्घातगत आत्मा असातवेदनीयकर्मपुद्गलपरिशातंकरोति, तथाहिवेदनापीडितोजीवः स्वप्रदेशानन्तान्तकर्मस्कन्धवेष्टितान् शरीराद्वहिरपि विक्षिपति, तैश्च प्रदेशैर्वदनजठरादिरन्प्राणि कर्णस्कन्धाद्यपान्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूर्त यावदवतिष्ठते, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातावेदनीयकर्मपुद्गलपरिशातं करोति, __कषायसमुद्घातसमुद्धतः कषायाख्यचारित्रमोहनीयकर्मपुद्गलपरिशातंविधत्ते, तथाहिकषायोदयसमाकुलो जीवः प्रदेशान् बहिर्विक्षिपति, तैः प्रदेशैर्वदनोदरादिरन्ध्राणि कर्णस्कन्धाधन्तरालानि चापूर्यायामतो विस्तरतश्च देहमानं क्षेत्रमभिव्याप्य वर्तते, तथाभूतश्च प्रभूतान् कपायकर्मपुद्गलान् परिशातयति, एवं मरणसमुद्घातगत आयुःकर्मपुद्गलान् परिशातयति, नवरं मरणसमुद्घातगतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy