________________
प्रज्ञापनाउपाङ्गसूत्रं-१-१/-1-1१६२
सूत्रमस्ति तदेवागमबहुमानतः पठति-'कहिणं भंते!' इत्यादि, क्व 'ण' इति वाक्यालङ्कारे भदन्त!- परमकल्याणयोगिन् ! आसालिगा संमूर्छति?,एषा हि गर्भजा न भवतिकिन्तुसंमूर्छिमैव तत उक्तं संमूर्च्छति, भगवानाह-गौतम ! अन्तः-मध्ये मनुष्य-क्षेत्रे-मनुष्यक्षेत्रस्य न बहिः,
एतावता मनुष्यक्षेत्राद् बहिरस्या उत्पादो न भवतीति प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्त्वर्द्धतृतीयेषु द्वीपेषु अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः, अवयवेन विग्रहः, समुदायःसमासार्थः, तेषु, एतावता लवणसमुद्रे कालोदसमुद्रे वा न भवतीत्यावेदितमित्यर्थः 'निव्बाधाएण' इत्यादि, निर्व्याधातेन-व्याघातस्याभावोनिव्याघातं तेन यदि पञ्चसुभरतेषु पञ्चसु ऐरवतेषु सुषमसुषमादिरूपो दुष्षमदुष्षमादिरूपश्च कालो व्याघाततहेतुत्वाद् व्याघातो न भवति तदा पञ्चदशसु कर्मभूमिषु संमूर्चछति, व्याघातं प्रतीत्य, किमुक्तं भवति ?
यदि पञ्चसु भरतेषु पञ्चस्वैरवतेषु यथोक्तरूपो व्याघातो भवति ततः पञ्चसुमहाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायते इति प्रतिपादितम्, पञ्चदशसु कर्मभूमिषु पञ्चसुवामहाविदेहेषुनसर्वत्रसंमूर्च्छति,किन्तु चक्रवर्तिस्कन्धावारेषु, वाशब्दःसर्वत्रापि विकल्पार्थों द्रष्टव्यः, बलदेवस्कन्धावारेषु वासुदेवस्कन्धावारेषु, माण्डलिकः-सामान्यराजाऽल्पर्द्धिकः, महामाण्डलिकः स एवानेकदेशाधिपतिः तत्स्कन्धावारेषु, 'गामनिवेसेसु' इत्यादि,
ग्रसति बुद्धयादीन् गुणानिति ग्रामः, यदिवा गम्यः शास्त्रप्रसिद्धानामष्टादशकराणामिति ग्रामः, निगमः-प्रभूततरवणिग्वर्गादासः, पांसुप्राकारविबद्धं खेटं, क्षुल्लकप्राकारवेष्टितं कर्बटम्, अर्द्धतृतीयगव्यतान्तामान्तररहितंमडम्बम्, 'पट्टणत्ति' पट्टनं पत्तनं वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात्, तत्र यन्नौभिरेव गम्यं तत् पट्टनं, यत्पुनर्शकटैधौटकैनौभिर्वा गम्यं तत् पत्तनं, यथा भृगुकच्छं, उक्तंच॥१॥ “पत्तनं शकटैगम्यं, घोटकैनौभिरेव च ।
नौभिरेव तु यद् गम्यं, पट्टनं तप्रचक्षते ॥" द्रोणमुखं-बाहुल्येनजलनिर्गमप्रवेशम्, आकरो हिरण्याकरादिः,आश्रमः-तापसावसथोपलक्षित आश्रयः, संबाधोयात्रासमागतप्रभूतजननिवेशः, राजधानी राजाधिष्ठान नगरं ।
__ “एएसिणं' इत्यादि, एतेषां चक्रवर्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु 'एत्थणंति' एतेषु चक्रवर्तिस्कन्धावारादिषु स्थानेषु आसालिका संमूर्च्छति, सा च जघन्यतोऽङ्गुलासंख्येयभागमात्रयाऽवगाहनया समुत्तिष्ठतीतियोगः, एतच्चोत्पादप्रथमसमये वेदितव्यं, उत्कर्षतो द्वादश योजनानि, तदनुरूपं-द्वादशयोजनप्रमाणदैध्यानुरूपं 'विक्खंभबाहल्लेणं' ति विष्कम्भश्च बाहल्यं च विष्कम्भबाहल्यं समाहारो द्वन्द्वः तेन, विष्कम्भो-विस्तारः बाहल्यं--स्थूलता, भूमी 'दालित्ता णं' विदार्य समुपतिष्ठति, चक्रवर्तिस्कन्धावारादीनामधस्ताद् भूमेरन्तरुत्पद्यते इति भावः, सा चासंज्ञिनी-अमनस्का, संमूर्छिमत्वात्, मिथ्यादृष्टिः,सास्वादनसम्यकत्वस्यापितस्या (ओसंभवात्, अत एवाज्ञानिनी अन्तर्मुहूर्तायुरेवकालं करोति, तदेवं ग्रन्थान्तर्गतं सूत्रं पठित्वा सूत्रकृत् सम्प्रति उपसंहारमाह-'सेत्तं आसालिया' ।
लसम्प्रति महोरगानभिधित्सुराह- ‘से किंतं' इत्यादि सुगम, नवरं वितस्तिदिशाङ्गुलप्रमाणा, रलिहस्तः, कुक्षिर्द्धिहस्तमानः,धनुश्चतुर्हस्तं, गव्यतंद्विधनुःसहनप्रमाणं, चत्वारि गव्यतानि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org