________________
पदं-१, उद्देशकः-, द्वारंयाहुत्तयावि जोयणसहस्संपि, ते णं थले जाता जलेऽविचरंति थलेऽविचरन्ति, ते नत्थि इहं, बाहिरएसु दीवेसु समुद्दएसु हवंति, जे यावन्ने तहप्पगारा, सेतं महोरगा।
-तेसमासओ दुविहा पं० तं०-संमुच्छिमा य गन्भवतिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्य णं जे ते गब्भवक्कंतिया ते णं तिविहा पं०, तं०-इत्थी पुरिसगा नपुंसगा एएसिणं एवमाइयाणं पज्जत्तापञ्जत्ताणं उरपरिसप्पाणंदसजाइकुलकोडिजोणिप्पमुहसयसहस्सा भवंतीतिमक्खायं, सेत्तं उरपरिसप्पा
से किं तं भुयपरिसप्पा?, भुयपरिसप्पा अणेगविहा पं० तं०-नउला सेहा सरडा सल्ला सरंठा सारा खोरा घरोइला विस्संभरा मूसामंगुसा पयलाइयाछीरविरालिया जहा चउप्पाइया, जे यावने तहप्पगारा, ते समासओ दुविहा पं० २९-संमुच्छिमा य गब्भवक्कंतिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गन्भवतिया ते णं तिविहा पं० तं०-इत्थी पुरिसा नपुंसगा। एएसिणं एवमाइयाणं पजत्तापञ्जत्ताणं भुयपरिसप्पाणं नव जाइकुलकोडिजोणियपमुहसयसहस्सा भवन्तीति मक्खायं, सेत्तं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया, सेतं परिसप्पथलयरपंचिदियतिरिक्खजोणिया।
वृ. अथ के ते परिरर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः ?, सूरिराह-परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिका द्विविधाः-द्विप्रकाराः प्रज्ञप्ताः, तद्यथा-'उरपरिसप्प' इत्यादि, उरसा परिसर्पन्तीति उरःपरिसर्पाः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः उरःपरिसर्पस्थलचलरपञ्चेन्द्रियतैर्यग्योनिकाः, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः तेच ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्चभुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः, चशब्दौ प्रत्येकं स्वगतानेकभेदसूचकौ, तत्रोरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकभेदानुपदिदर्शयिषुरिदमाह- 'सेकिंतं उरपरिसप्प' इत्यादि, अथ के ते उरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः सूरिराह-उरःपरिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ता;-अहयोऽजगरा आसालिगा महोरगाः।
एतेषामेव भेदानामवगमाय प्रश्ननिर्वचनसूत्राण्याह-‘से किंत'इत्यादि, अथ के तेऽहयः गुरुराह-अहयोद्विविधाः प्रज्ञप्ताः, तद्यथा दर्वीकराश्चमुकुलिनश्च, तत्रदींवदर्वी-फणा तत्करणशीला दर्वीकराः, मुकुलं-फणाविरहयोग्या शरीरावयवविशेषाकृतिः सा विद्यते येषां ते मुकुलिनः, फणाकरणशक्तिविकला इत्यर्थः, अत्रापि चशब्दौ स्वगतानेकभेदसूचकौ ।
तत्र दर्वीकरभेदानभिधित्सुराह-‘से किं तं' इत्यादि, आश्यो-दंष्ट्राः तासु विषय येषां ते आशीविषाः, उक्तं च-"आसी दाढा तग्गयविसा य आसीविसा मुणेयव्वा" इति, ६ष्टौ विषं येषां ते दृष्टिविषाः उग्रं विषं येषां ते उग्रविषाः भोगः-शरीरं तत्र विषं येशां ते भोगविषाः त्वचि विषं येषां ते त्वग्विषाः लाला-मुखात् सवः तत्र विषं येषां ते लालाविषाः निःश्वासे विषं येषां ते निःश्वासविषाः कृष्णसर्पादयो जातिभेदा लोकतः प्रतिपत्तव्याः, उपसंहारमाह- सेत्तं दव्वीकरा' मुकुलिनः प्रतिपिपादयिषुरिदमाह-'से किंतं' इत्यादि, एतेऽपि लोकतोऽवसेयाः। ___अजगराणामवान्तरजातिभेदा न विद्यन्ते तत उक्तम्-एकाकार अजगराः प्रज्ञप्ताः । आसालिगामभिधित्सुराह-‘से किं तंआसालिया' अथ का सा आसालिगा?, एवं शिष्येण प्रश्ने कृते सति भगवान् आर्यश्यामोयदेव ग्रन्थान्तरेषुआसालिगाप्रतिपादकंगौतमप्रश्नभगवनिर्वचनरूपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org