________________
पदं-१, उद्देशक:-, द्वारं
प्रज्ञप्ताः, तद्यथा-संमूर्च्छिमाश्च गर्भव्युत्क्रान्तिकाश्च, “मूर्च्छा मोहसमुच्छ्राययोः” अस्मात् संपूर्वात् संमूर्च्छनं संमूर्च्छः, "अकर्तरि' इति भावे धञ्प्रत्ययः, गर्भोपपातव्यतिरेकेण एवमेव प्राणिनामुपाद इति भावः तेन निर्वृत्ताः संमूर्च्छिमाः “भावादिम" इति इमप्रत्ययः ।
गर्भे व्युत्क्रान्तिः - उत्पत्तिर्येषां ते, व्युत्क्रान्तिशब्दोऽत्रोत्पत्तिवाची, तथा पूर्वाचार्यप्रसिद्धेः, यदिवा 'गर्भात्' गर्भावासाद् व्युत्क्रान्तिः - निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः 'शेषाद् वा " इति कचसमासान्तः । चशब्दौ प्रत्येकं स्वगतानेकभेदसूचकौ ।
तत्र ये ते संमूर्च्छिमास्ते सर्वे नपुंसकाः संमूर्च्छिमभावस्य नपुंसकत्वाविनाभावित्वात् । ये तु गर्भव्युत्क्रान्तिकास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाः । एतेषां चोभयेषामपि शरीरावगाहनादिषु द्वारेषु यच्चन्तनं यच्च गर्भव्युकानतिकानां स्त्रीपुंसनपुंसकानां परस्परमल्पबहुत्वतचिन्तनं तज्जीवाभिगमटीकायां कृतमिति ततोऽवधार्यम् ।
५१
'एएसिणं' इत्यादि, एतेषामेवमादिकानामुपदर्शितप्रकारादीनां जलचरपञ्चेन्द्रियतैर्यग्योनिकानां पर्याप्तापर्याप्तानां सर्वसंख्ययाऽर्धत्रयोदशजातिकुलकोटीनां योनिप्रमुखानियोनिप्रवहाणि शतसहस्राणि भवन्तीत्याख्यातं भगवद्भिस्तीर्थकरैः ।
उपसंहारमाह- 'सेत्तं' इत्यादि, तदेवमुक्ता जलधरपञ्चेन्द्रियतैर्यग्योनिकाः ॥ सम्प्रति स्थलचरपञ्चेन्द्रिय तैर्यग्योनिकानभिधित्सुराह
मू. (१६१) से किं तं थलयरपंचिंदियतिरिक्खजोणिया ?, धलयरपंचिं० दुविहा पं०, तं० - चउप्पयथलयरपंचिं दियतिरिक्खजोया य परिसप्पथलयरपंचिंदियतिरिक्खजोणिया य ।
"
से किं तं चउप्पयथलयरपंचिंदियतिरिक्खजोणिया ?, चउप्पयथलयरपंचिंदियतिरिक्खजोणिया चउव्विहा पं० तं०- एगखुरा बिखुरा गंडीपदा सणप्फदा। से किं तं एगखुरा ?, एगखुरा अनेगविहा पं०, तं०-अस्सा अस्सतरा घोडगा गद्दभा गोरक्खरा कंदलगा सिरिकंदलगा आवत्तगा जे यावत्रे तहप्पगारा, सेत्तं एगखुरा। से किं तं दुखुरा ?, दुखुरा अणेगविहा पं०, तं०- उट्टा गोणा गवया रोज्झा पसुया महिसा मिया संबरा बराहा आया एलगरुरुसरभचमरकुरंगगोकन्नमादि जे यावत्रे तहप्पगारा, सेत्तं दुखुरा ।
से किं तं गंडीपया ?, गंडीपया अनेगविहा पं०, तं०- इत्थी हत्थीपूयणया मंकुणहत्थी खगा (ग्गा) गंडा जे यावन्त्रे०, सेत्तं गंडीपया! से किं तं सणप्फया ?, अनेगविहा पं०, तं०-सीहा वग्घा दीविया अच्छा मरच्छा परस्सरा सियाला बिडाला सुणगा कोलसुणगा कोकंतिया ससगा चित्तगा चिल्लागा जे यावन्ने०, सेत्तं सणप्फया ।
,
"
ते समासओ दुविहा पं० तं० - संमुच्छिमा य गब्भवक्कन्तिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवक्कतिया ते तिविहा पं० तं० - इत्थी पुरिसगा नपुंसगा । एएसिणं एवमाइयाणं थलयर पंचिंदियतिरिक्खजोणियाणं पञ्जत्तापञ्जत्ताणं दस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीतिमक्खायं । सेत्तं चउप्पयथलयरपंचिंदियतिरिक्खजोणिया ।
वृ. चत्वारि पदानि येषां ते चतुष्पदाः - अश्वादयः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्च चतुष्पदस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः, उरसा भुजाभ्यां वा परिसर्प्यन्तीति परिसर्पाः अहिनकुलादयः, ततः पूर्ववत् स्थलचरपञ्चेन्द्रियतैर्यग्योनिकपदेन सह विशेषणसमासः, चशब्दौ प्रत्येकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org