________________
५०
प्रज्ञापनाउपाङ्गसूत्रं-१-१/-/-/१५५
चासौ पृथिवी च २ तस्यां नैरयिका रत्नप्रभापृथिवीनैरयिकाः, एवं 'सक्करप्पहापुढविनेरइया' इत्यादि भावनीयम्, उपसंहारमाह- 'सेत्तं नेरइया' ॥
अधुनोद्देशक्रमप्रामाण्यानुसरणतस्तिर्यक्पञ्चेन्द्रियान् प्रतिपिपादयिषुराह
मू. (१५६ ) से किं तं पंचिंदियतिरिक्खजोणिया ?, पंचिंदियतिरिक्खजोणिया तिविहा पन्नत्ता, तं०-१ जलयरपंचिंदियतिरिक्खजोणिया य १ थलयपंचिंदियतिरिक्खजोणिया य २ खहयरपंचदियतिरिक्खजोणिया य ३ ।
वृ. अथ के ते पञ्चेन्द्रियतिर्यग्योनिका ?, सूरिराह - पञ्चेन्द्रियतिर्यग्योनिकास्त्रिविधाः प्रज्ञप्ताः, तद्यथेत्यादि, 'जलयरे -' त्यादि, जले चरन्ति - पर्यटन्तीति जलचराः, 'आधारादिति' टप्रत्ययः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्च जलचरपञ्चेन्द्रियतिर्यग्योनिकाः, स्थले चरन्तीति स्थलचराः, खे - आकाशे चरन्तीति खचराः, प्राकृतत्वादार्षत्वाच्च 'खहचरा' इति सूत्रे पाठः, तत उभयत्रापि पञ्चेन्द्रियतिर्यग्योनिकशब्देन सह विशेषणसमासः ।
मू. (१५७) से किं तंजलयरपंचिंदियतिरिक्खजोणिया ?, जलयर पंचिंदियतिरक्खजोणिया पंचविहा पत्रत्ता, सं०- १ मच्छा २ कच्छभा ३ गाहा ४ मगरा ५ सुसुमारा ।।
सें किं तं मच्छा ?, मच्छा अनेगविहा पत्रत्ता, तं०-सण्हमच्छा खवल्लमच्छा जुंगमच्छा विज्झडियमच्छा हलिमच्छा मगरिमच्छा रोहियमच्छा हलीसागरा गागरा वडा वडगरा गब्भया उसगारा तिमितिमिंगिला नक्का तंदुलमच्छा कणिक्कामच्छा सालिसत अथियामच्छा लंभणमच्छा पडागा पडागाइपडागा जे यावत्रेतहप्पगारा, सेत्तं मच्छा ।।
वृ. अथ के ते जलचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह - जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पञ्चविधाः प्रज्ञाप्तः, तदेव पञ्चविधत्वं तद्यथेत्यादिनोपदर्शयति १ मत्स्याः २ कच्छ्पाः, सूत्रे पकारस्य भकारः प्राकृतत्वात् ३ ग्राहा ४ मकराः ५ शिशुमाराः, प्राकृतत्वात्सूत्रे 'सुसुमारा' इति पाठः । मत्स्यादीनां च विशेषा लोकतो वेदितव्याः,
मू. (१५८) से किं तं कच्छभा ?, कच्छभा दुविहा पन्नत्ता, तं०-अट्ठिकच्छभा य मंसकच्छभा य, से त्तं कच्छभा ॥
वृ. नवरमस्थिकच्छपा मांसकच्छपा इति-ये अस्थिबहुलाः कच्छपास्ते अस्थिकच्छपाः ये मांसबहुलास्ते मांसकच्छपाः ।
मू. (१५९) से किं तं गाहा ?, गाहा पंचविहा पत्रत्ता, तं०-१ दिली २ वेढगा ३ मुद्धया ४ पुलया ५ सीमागारा, से त्तं गाहा ॥
मू. (१६०) से किं तं मगरा ?, मगरा दुविहा पत्रत्ता, तं- 9 सोंडमगरा य २ मट्टमगरा य, से त्तं मगरा ॥ से किं तं सुसुमारा ?, सुसुमारा एगागारा पन्नत्ता, से त्तं सुसुमारा। जे यावन्ने तहप्पगारा । ते समासओ दुविहा प० तं० - संमुच्छिमा य गब्भवक्कंतिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवक्कंतिया ते तिविहा, प०, तं० - इत्थी पुरिसा नपुंसगा ।
एएसिगं एवमाइयाणं जलयरपचिंदियतिरिक्खजोणियाणं पज्जत्तापजत्ताणं अद्धतेरसजाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीति मक्खायं । सेत्तं जलयरपंचिंदियतिरिक्खजोणिया
वृ. 'ते समासओ' इत्यादि, तेजलचरपञ्चेन्द्रियतैर्यग्योनिकाः समासतः - संक्षेपेण द्विविधाः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International