SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम् - २-२८/१//५५२ आहारयामीतीच्छापूर्वं निर्मापित इतियावत्, तद्विपरीतोऽनाभोगनिर्वर्त्तितः, आहारयामीति विशिष्टेच्छामन्तरेण यो निष्पाद्यते प्रावृट्काले प्रचुरतरमूत्राद्यभिव्यङ्गयशीतपुद्गलाद्याङहारवत् सोऽनाभोगनिर्वर्त्तित इति भाव;, 'तत्थण 'मित्यादि, तत्र - अनाभोगाभोगनिवर्त्तितयोर्मध्ये योऽसावनाभोगनिवर्त्तित आहारः 'सेण' मिति पूर्ववत् 'अनुसमयं प्रतिसमयं समये २ इत्यर्थः, इह च दीर्घकालोपभोग्यस्याहारस्यैकवारमपि ग्रहणे तावन्तं कालमनुसमयं भवति, तत आभवपर्यन्तं सातत्यग्रहणप्रतिपादनार्थमाहअविरहित आहारार्थः, समुत्पद्यते, अथवा सततप्रवृत्ते आहारार्थेऽपान्तराले चुक्कस्खलितन्यायेन येन कथञ्चित् विरहभावेऽपि लोके तदगणनया अनुसमयमिति व्यवहारः प्रवर्त्तते ततोऽपान्तराले विरहाभावप्रतिपादनार्थमविरहित इत्युक्तं, अनुसमयमविरहितोऽनाभोगनिर्वर्त्तित आहारार्थः समुत्पद्यमानः ओजआहारादिना प्रकारेणावसेयः, 'तत्थ ण' मित्यादि, तत्र - आभोगानाभोगनिर्वर्त्तितयोर्मध्ये योऽसावाभोगनिर्वर्त्तितः आहारार्थः सोऽसङ्घयेयसामयिकः असंख्येयैः समयैर्निर्विर्तितः, सच्चासङ्घयेयसमनिर्वर्त्तितं तज्जधन्यपदेऽप्यन्तर्मुहूर्त्तिकं भवति न हीनमत आन्तर्मुहूर्तिक आहारार्थः समुत्पद्यते, किमुक्तं भवति ?, - अन्तर्मुहूर्त कालं यावत् प्रवर्त्तते न परतो, नैरयिकाणां हि योऽसावाहारयामीत्यभिलाषः स परिगृहीताहारद्रव्यपरिणामेन यजनितमतितीव्रतरं दुःखं तद्मावादन्तर्मुहूर्तान्निवर्त्तते तत आन्तर्मुहूर्तिको नैरयिकाणामाहारार्थः, २१२ 'नेरइया ण 'मित्यादि, नैरयिका णमिति पूर्ववत् किंस्वरूपमाहारमाहारयन्ति ?, भगवान् द्रव्यादिभेदतस्तमाहारयन्तीति निरूपयितुकाम आह- 'गोयमे' त्यादि, गौतम ! द्रव्यतो- द्रव्यस्वरूपपर्यालोचनायां अनन्तप्रादेशिकानि द्रव्याणि, अन्यथा ग्रहणासम्भवात्, न हि सङ्ख्यातप्रदेशात्मका असङ्ख्यातप्रदेशात्मका वा स्कनधा जीवस्य ग्रहणयोग्या भवन्ति, क्षेत्रतोऽसङ्घयेयप्ररदेशागाढानि कालतोऽन्यतरस्थितिकानि, जघन्यस्थितिकानि मध्यमस्थितिकानि उत्कृष्टस्थितिकानि चति भावार्थः, स्थितिरिति चाहारयोग्यस्कन्धपरिणामत्वेनावस्थानमवसेयं, भावतो वर्णवन्ति गंधवन्ति रसवन्ति स्पर्शवन्ति च प्रतिपरमाण्वेकैकवर्णगन्धरसस्पर्शभावात्, 'जाई भावतो वण्णमंताई' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाहा-'गो० ! ठाणमग्गणं पडुच्चे' त्यादि, तिष्ठन्ति विशेषा अस्मिन्निति स्थानं - सामान्यमेकवर्णं द्विवर्णं त्रिवर्णमित्यादिरूपं तस्य मार्गणं- अन्वेषणं तठप्रतीत्य सामान्यचिन्तामाश्रित्येति भावार्थः, एकवर्णान्यपि द्विवर्णादीन्यपि इत्यादि सूगमं, नवरं तेषामनन्तप्रादेशिकनां स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि व्यवहारनयमतापेक्षया, निश्चयनयमतापेक्षया त्वनन्तप्रादेशिकस्कन्धोऽणीयानपि पञ्चवर्ण एव प्रतिपत्तव्यः, 'विहाणमग्गणं पडुच्चे' त्यादि, विविक्तम् - इतरव्यवच्छिन्नं धानं पोषणं स्वरूपस्य यत् तद्विधानं-विशेषः कृष्णो नील इत्यादिप्रतिनियतो वर्णादिविशेष इतियावत् तस्य मार्गणं प्रतीत्य तानि कालवर्णान्यपि आहारयन्तीत्यादि सुगमं, नवरमेतदपि व्यवहारतः प्रतिपत्तव्यं, निश्चयतः पुनरवश्यं तानि पञ्चवर्णान्येव, ww 'जाई वण्णओ कालवण्णाइंपी' त्यादि सुगमं, यावद् 'अनन्तगुणसुक्किल्लाइंपि आहारेति' एवं गंधरसस्पर्शविषयाण्यपि सूत्राणि भावनीयानि, 'जाई भंते! अनंतगुणलुक्खाई' इत्यादि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy