SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ पद-२८, उद्देशकः-१, द्वारं २१३ यानि भदन्त ! अन्तगुणरूक्षाणि, उपलक्षणमेतत् एकगुणकालादीन्यपि आहारयन्तीति, तानिच भदन्त ! किं स्पृष्टानि-आत्मप्रदेशविषयाण्याहारयन्ति उतास्पृष्टानि?, भगवानाह-स्पृष्टानि नो अस्पृष्टानि जहा भासुद्देसए वाजावनियमा छद्दिसिं'तिअतऊर्ध्वंयथा भाषोद्देशकेप्राकसूत्रमभिहितं तयात्रापि द्रष्टव्यं, तत्र तावत्यावत् 'नियमा छद्दिसिं'ति पदं, तच्चैवम्, __ 'जाइंपुट्ठाई आहा० ! ताई भंते ! किं ओगाढाई आहा० अनेगाढाई आहारेति?, गो० ओगाढाइंआहारेतिनोअणोगाढाईआहारेति, जाईभंत! ओगाढाईआहारेतिताइंकिंअनंतरोगाढाई आ० परंपरोगाढाई आहारेंति ?, गो० ! अनंतरोगाढाई आ० नो परंपरोगाढाई आ०, जाइं भंते अनंतरोगाढाइं आ० ताई भंते ! किं अणूई आहारेति बादराई आ०?, गो० ! अणूइंपि आ० बादराईपि आहा०, जाइं भंते ! अणूइंपि आहारेंति बादराईपि आ० ताई किं उई आ० अहे आहा० तिरियं आहारेंति?, गो०! उहंपि आ० अहेवि आ० तिरियंपि आहारेंति, जाई भंते ! उईपि आ० अहेवि आहा० तिरियपि आहारेति ताई किं आदि आ० मज्झे आ० पजवसाणे आ०?, गो०! आदिपि आहारेति मज्झेवि आ० पञ्जवसाणेविआहारेंति जाई भंते ! आइंपि आहारेति मझेवि आहारेति पज्जवसाणेवि आहारेति ताई भंते ! किं सविसए आहारति अविसए आ०?, गो०! सविसए आ० नो अविसए आ० जाई भंते !सविसए आ० ताई किंआनुपुव्वीएआहारेंतिअनानुपुव्वीए आ०?,गो०! आणुपुब्बीए आ० नोअनानपुव्वीए आ० जाईभंते! आनुपुट्विं आ० ताईकिं तिदिसिं आहारेंतिचउदिसिंआहा० पंचदिसिं आहारेति छद्दिसिं आहारेंति?,गो० ! नियमाछद्दिसिं आ०, 'अस्य व्याख्या-इहात्मप्रदेशैः संस्पर्शनमात्म- . परदेशावगाढक्षेत्राद्वहिरपि सम्भवति ततःप्रश्नयति 'जाई भंते' इत्यादि, यानि भदन्त! स्पृथन्याहारयन्ति तानि किं अवगाढानि-आत्मप्रदेशः सह एकक्षेत्रावस्थायीनि उत अनवगाढानि-आत्मप्रदेशावगाहक्षेत्राद्वहिरवस्थितानि ?, भगवानाह-गौतम!अवगाढान्याहारयन्तिनानावगाढानि, यानि भदन्तावगाढान्याहारयन्तितानि भदन्त ! किमनन्तरावगाढानि, किमुक्तं भवति?-येष्वात्मप्रदेशेषु यान्यव्यवधानेनावगाढानि तैरात्मप्रदेशैस्तान्येवाहारयन्ति उत परम्परावगाढानि-एकद्वित्रयाद्यात्मप्रदेशव्यवहितानि ?, भगवानाह-गौतम ! अनन्तरावगाढानि आहारयन्ति नो परम्परावगाढानि, यानि भदन्तानन्तरावगाढान्याहारयन्ति तानि किमणूनि-रतोकान्याहारयन्ति उत बादराणि-प्रभूतप्रदेशोपचितानि भगवानाह-गौतम! अणून्यप्याहारयन्ति बादराण्यप्याहारयन्ति, इहाणुत्वबादरत्वे तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकत्वबाहुल्यापेक्षया वेदितव्ये इति, यानि भदन्त! अणुन्यप्याहारयन्ति तानि भदन्त ! किमूर्ध्व-ऊर्ध्वप्रदेशस्थितान्याहारयन्ति अधस्तिर्यग्वा, इह ऊध्वाधस्तिर्यकत्वं यावति क्षेत्रे नैरयिकोऽवगाढः तावत्येव क्षेत्रे तदपेक्षया परिभावनीयं, भगवानाह-गौतम ! ऊर्ध्वमप्याहारयन्ति-ऊर्ध्वप्रदेशावगाढन्यप्याहारयन्ति एवमधोऽपितिर्यगपि, यानि भदन्त! उर्ध्वमप्याहारयन्ति अधोऽप्याहारयन्ति तिर्यग्प्याहारयन्ति तानि किमादावाहारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति, अयमत्राभिप्रायः नैरयिका हि अनन्तप्रदेशिकानि द्रव्याण्यन्तर्मुहूर्त कालं यावत् उपभोगोचितानि गृह्णन्ति, ततः संशयः किमुपभोगोचितस्य कालस्यान्तर्मुहूर्तप्रमाणस्यादौ-प्रथमसमये आहारयन्ति उत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy