SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ पर्द-२३, उद्देशकः-२, द्वारं - १९३ अत्र 'किंचूण'मिति अन्तर्मुहूर्त्तमित्यर्थः, तदत्रतत्वं केवलिनो विदन्ति, यथाशरीरपञ्चकस्य जघन्यत उत्कर्षतश्चस्थितिपरिमाणमुक्तं तेनैवक्रमेण शरीरबन्धपञ्चकस्य शरीरसंघातपञ्चकस्य चवक्तव्यं, तथा चाह-'सरीरबन्धननामाएविपंचण्हविएवंचेव, सरीरसंघायणनामाएपंचण्हवि' इति 'वइरोसभनारायसंघयणनामाए जहा रइनामाए' इति, वज्रर्षभनाराचसंहनननाम्नो यथा प्राक् रतिनाम्नो मोहनीयस्योक्तं तथा वक्तव्यं, तद्यथा- 'वइरोसभनारायसंघयणनामाए भंते ! कम्मस्स केवइयं कालं ठिती पं०?,गो०! जह० एवं सत्तभागंपलिओवमस्सअसंखेज्जइभागेणऊणं, उदो० दस सागरोवमकोडाकोडीओ' इति, ऋषभनाराचसूत्रे ‘सागरोवमस्सछप्पन्नतीसभागा पलिओवमस्स असंखिज्जइभागेणऊणगा' इति, ऋषभनाराचसंहननस्य ह्युत्कृष्टा स्थितिादश सागरोपमकोटीकोट्यः, तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागो हिते, तत्रभागहारासम्भवात्, शून्यं शून्येन पातयित्वा छेधच्छेदकराश्योरद्दधेनापवर्तनाल्लब्धाः सागरोपमस्य षट् पञ्चत्रिंशद्भागाः, ते पल्योपमासज्येयभागहीना; क्रियन्ते, एवं नाराचसंहननाम्नो जघन्यस्थितिचिन्तायां सप्त पञ्चत्रिंशद्भागाः पल्योपमासङ्ख्येयभागहीनाः, उत्कृष्टस्थितेश्चतुर्दशसागरोपमकोटीकोटीप्रमाणत्वात्, अर्द्धनाराचसंहननाम्नः अष्टौ पञ्चत्रिंशद्भागाः पल्योपमासङ्ख्येयभागोनाः, उत्कृष्टस्थितेः षोडशसागरोपमकोटीकोटीप्रमाणत्वात्, कीलिकासंहननाम्नो नवपञ्चत्रिंशद्भागाः पल्यो मासस्येयभागहीनाः, उत्कृष्टस्थितेरष्टादशसागरोपमकोटीकोटीप्रमाणत्वात, परिभावनीयाः,सेवार्तसंहननसूत्रंतुसुगम, यया संहननषट्कस्य स्थितिपरिमाणमुक्तं तेनैव क्रमेण संस्थानषट्कस्यापि वक्तव्यं, . तथा चाह-‘एवं जहा संघयणनामा छब्मणिया एवं संठाणा छब्माणियव्वा' उक्तश्चायमर्थोऽन्यत्रापि 'संघयणे संठाणे पढमे दस उवरिसेसुदुगवुद्दी' इति हारिद्रवर्णनामसूत्रे जहन्नेणं सागरोवमस्सपंच अठ्ठावीसइभागा पलिओवमस्सअसंखेजइभागेण ऊणगा' इति, हारिद्रवर्णनाम्नो हि सार्द्धाद्वादशसागरोपमकोटीकोटयः, तथा चोक्तमन्यत्रापि॥१॥ "सुकिल्लसुरभिमहुराण दस उ तहा सुभगउण्हफासाणं । ___ अड्वाइजपवुड्डी अंबिलहालिद्दपुव्वाणं ।।" तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागो ड्रियते, तत्र शून्येन शून्यस्य पातनात्तेन उपरितनो राशिः सांशइति सामस्त्येन चतुर्भागकरणार्थं चतुर्भिर्गुण्यते जाताः पञ्चाशत्, अधस्तनोऽपि सप्ततिलक्षणच्छेदराशिश्चतुर्मिर्गुण्यते जाते द्वे शते अशीत्यधिके, ततो भूयोऽपिशून्यं शून्येन पातनाल्लब्धाः पञ्च अष्टाविंशतिभागाः"तैपलस्योपमासस्येयभागहीनाः क्रियन्ते, आगतं सूत्रोक्तं परिमाणं, अनेनैव गणितक्रमेणं लोहितवर्णनाम्नो जघन्यस्थिती षट् अष्टाविंशतिभागाः पल्योपमासङ्घयेयभाहीनाः, उत्कर्षतस्तस्य स्थितेः पञ्चदशसागरोपमकोटीकोटीप्रमाणत्वात्, नीलवर्णनाम्नः सप्ताष्टाविंशतिभागाः पल्योपमसामयेयभागहीनाः, उत्कर्षतस्तस्य स्थितेः सार्द्धसप्तदशसागरोपमकोटीकोटीप्रमाणत्वात्, 'कालवण्णनामाएजहा सेवट्टसंघयणस्से'ति [11[13] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy