SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ १९२ प्रज्ञापनाउपाङ्गसूत्रम्-२-२३/२/-/५४१ पूर्वकोटित्रिभागरूपाया अबाधायाश्चालभ्यमानत्वात्, __ 'तिरियगइनामाएजहानपुंसगवेयस्स' इति, जघन्यतोद्वीसागरोपमस्य सप्तभागी पल्योपमासयेयभागहीनी, उत्कर्षतोविंशतिः सागरोपमकोटीकोट्य इत्यर्थः, मनुष्यगतिनाम्मि जहन्नेणं सागरोवमस्स दिवड्सत्तभागंपलिओवमस्सअसंखेज्जइभागेणऊणगं'तिअत्र भावनास्त्रीवेदवद् भावनीया, 'दिवद्धसत्तभाग मित्यादौ तु नपुंसकनिर्देशः प्राकृतत्वात्, नरकगतिनाम्नो जघन्यतः सागरोपमसहस्रस्य द्वौ सप्तभागी, किमुक्तं भवति ?-सागरोपमस्य द्वौ सप्तभागी सहस्रेण गुणिताविति, तदुत्कृष्टस्थितेर्विशतिसागरोपमकोटाकोटीप्रमाणत्वात्, तद्बन्धस्य च सर्वजघन्यस्यासंज्ञिपञ्चेन्द्रियस्य भावात्, __असंज्ञिपञ्चेन्द्रियकर्मबन्धस्य च जघन्येनैकेन्द्रियजघन्यकर्मबन्धापेक्षया सहनगुणत्वात्, भावयिष्यते चायमर्थोवैक्रियचिन्तायां, देवगतिनाम्नोजघन्यतःसागरोपमसहस्रस्यैकः सप्तभागः, एकः सागरोपमस्य सप्तभागः सहस्रगुणित इति भावः तस्य हि उत्कृष्टा स्थितिदर्श सागरोपमकोटीकोट्यः, ततः प्रागुक्तकरणवशादेकः सागरोपमस्य सप्तभागो लब्धः, बन्धोऽपि चास्य जघन्यतोऽसंज्ञिपञ्चेनद्रियस्येति सहस्रगुणितः, देवगतिनामसूत्रे 'उक्कोसेणं जहा पुरिसवेयस्स' इति 'दस सागरोवमकोडीओ दसवाससयाई अबाहा, अबाहूणिया कम्मठिई कम्मनिसेगो' इति वक्तव्यमिति भावः, द्वीन्द्रियजातिनामसूत्रे 'जहन्नेणं नव पणतीसइभागा पलिओवमस्स असंखेनइभागेण ऊणगा' इति, द्वीन्द्रियजातिनाम्नो ह्युत्कृष्टा स्थितिरष्टादश सागरोपमकोटीकोट्यः, 'अट्ठारस सुहुमविगलतिगे'त्ति वचनात्, ततोऽष्टादशानां सागरोपमकोटीकोटीनां मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटाकोटीप्रमाणया भागो हिते, भागश्चन पूर्यते, ततः शून्यं शून्येन पात्यते, जाता उपरि अष्टादश अघस्तात् सप्ततिस्तयोर्द्धनापवर्तनालब्धा नव पञ्चत्रिंशद्भागास्ते पल्योपमासयेयभागोनाः क्रियन्ते, आगतं सूत्रोक्तं परिमाणमिति, एवं त्रिचतुरिन्द्रियजातिनामसूत्रे अपि भावनीये, वैक्रियशरीरनामसूत्रे जहन्नेणं सागरोवमस्सदोसत्तभागापलिओवमस्सअसंखेजइभागेणं ऊणगा' इति, इह वैक्रियशरीरनाम्नउत्कृष्टाविंशतिःसागरोपमकोटीकोट्यःस्थितिस्ततःप्रागुक्तकरणवशेन जघन्यस्थितिचिन्तायां तस्यां द्वौ सागरोपमस्य सप्तभागौ लभ्येते, परं वैक्रियषट्कमेकेन्द्रिया विकलेन्द्रियाश्चनबध्नन्ति, किन्त्वसंज्ञिपञ्चेन्द्रियादयः,असंज्ञिपञ्चेन्द्रियाश्चजघन्यतोऽपि बन्धं कुर्वाणाएकेन्द्रिबन्धापेक्षया सहसगुणं कुर्वन्ति, पणवीसा पन्नासा सयंसहस्संचगुणकारो' इति वचनात्, ततो यौ द्वौ सागरोपमस्य सप्तभागौ प्रागुक्तकरणवशाल्लब्धौ तौ सहस्रेण गुण्येते ततःसूत्रोक्तं परिमाणं भवति, सागरोपमस्य द्वौ सहस्रौ सप्तभागानां सागरोपमसहस्रस्य द्वौ सप्तभागाविति कोऽर्थः,आहारशरीरनाम्नोः जघन्यतोऽप्यन्तःसागरोपमकोटीकोटीउत्कर्षतोऽ. प्यन्तःसागरोपमकोटीकोटी, नवरंजघन्यादुष्कृष्टं सङ्ख्येयगुणां द्रष्टव्यं, अन्ये त्वाहारकचतुष्कस्य जघन्यतोऽप्यन्तर्मुहूर्तमिच्छन्ति, (तथा च) तद्ग्रन्थः ॥१॥ “परंवेयअट्ठवासा, अट्ठमुहुत्ता जसुच्चगोयाणं । साए बारस आहारविग्घावरणाण किंचूणं ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy