SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ पदं-२३, उद्देशक:- २, द्वारं - १९१ सागरोपमकोटीकोटीप्रमाणया भागे द्वियमाणे 'शून्यं शून्येन पातये' दिति वचनात् लब्धास्त्रियः सागरोपमस्य सप्तभागाः, ते पल्योपमासङ्घत्येयभागहीनाः क्रियन्ते, ततो भवति यथोक्तं जघन्यस्थितिपरिमाणमिति, सायावेयणिज्जस्स ईरियावहियबंधगं पडुका अजहन्नमणुक्कोसेणं दो समया संपराइयबंधगं पडुच्च जहन्नेणं बारस मुहुत्ता' इति प्रागेव भावितं, असातावेदनीयस्य जघन्यतस्त्रयः सप्तभागाः पल्योपमासङ्घयेयभागेना निद्रापश्ञ्चकवद् भावनीयाः, तस्याप्युत्कर्षतः स्थितेस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणत्वात्, सम्यकत्ववेदनीयस्य यत् जघन्यतः स्थितिपरिणाममन्तर्मुहूर्त उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि तद्वेदनमधिकृत्य वेदितव्यं न बन्धमाश्रित्य सम्यकत्वसम्यग्मिथ्यात्वयोर्बन्धाभावात्, मिध्यात्वपुद्गला एव हि जीवेन सम्यकत्वानुगुणविशोधिबलतस्त्रिधा क्रियन्ते, तद्यथा - सर्वविशुद्धाः अर्धविशुद्धाः अविशुद्धाश्च तत्र ये सर्वविशुद्धास्सेत सम्यकत्ववेदनीयव्यपदेशं लभन्तेयेऽर्द्धविशुद्धास्ते सम्यग्मिथ्यात्ववेदनीयव्यपदेशं अविशुद्धा मिथ्यात्ववेदनीयव्यपदेशभतो न तयोर्बन्धसम्भवः, यदा तु तेषां सम्यकत्वसम्यग्मिथ्यात्वपुद्गलानां स्वरूपतः स्थितिश्चिन्त्यते तदाऽन्तर्मुहूर्तोनसप्ततिसागरोपमकोटीकोटीप्रमाणा वेदितव्या, सा च तावती यथा भवति तथा कर्मप्रकृतिटीकायां सङ्क्रमकरणे भावितेति ततो ऽवधार्य, मिध्यात्ववेदनीयस्य जघन्या स्थितिरेकं सागरोपमं पल्योपमासङ्ख्येयभागोनमुत्कर्षतस्तस्योत्कृष्टस्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वात् सम्यग्मिथ्यात्ववेदनीयस्य जघन्यत उत्कर्षतो वा अन्तर्मुहूर्त्त वेदनापेक्षया, पुद्गलानां त्ववस्थानमुत्कर्षतः प्रागेवोक्तं, कषायद्वादशकस्यानन्तानुबन्धिनचतुष्टयाप्परत्याख्यानचतुष्टयप्रत्याख्यानावरणचतुष्टरूपस्य प्रत्येकं जघन्या स्थितिश्चत्वारः सागरोपमसप्तभागा पल्योपमासङ्घयेयभागोनाः, उत्कर्षतस्तेषां स्थितश्चत्वारिंशत्सागरोपमकोटीकोटीप्रमाणत्वात्, सञ्जवलनानां च जघन्या स्थितिर्मासद्वयादिप्रमाणा क्षपकस्य स्वबन्धचरमसमयेऽवसातव्या, स्त्रीवेदस्य जघन्या स्थितिद्व्यर्द्धसागरोपमस्य सप्तभागाः पल्योपममासङ्घयेयभागोनाः, कथमिति चेत्, उच्यते, त्रैराशिककरणवशात्, तथाहि--यदि दशानां सागरोपमकोटीकोटीनां एकः सागरोपमसप्तभागो लभ्यते ततः पञ्चदशभिः सागरोपमकोटीकोटीभिः किं लभ्यते ?, अत्रान्त्येन राशिना पञ्चदशलक्षणेन मध्यो राशिरेकलक्षणो गुण्यते, जाताः पञ्चदशैव, 'एकस्य गुणने तदेव भवती 'ति वचनात् तेषामाद्येन राशिना दशकलक्षणेन भागहरणं लब्धा सार्द्धाः सप्तभागा इति, 'हासरइअरइभयसोगदुगुंछाणं जहन्नुक्कोसठिई भाणियव्वा' इति हास्यरतिअरतिभयशोकजुगुप्सानां जघन्या उत्कृष्टा च स्थितिर्वक्तव्या, सा च सुप्रसिद्धत्वान्त्रोक्ता, कथं वक्तव्येति चेत्, उच्यते, 'हासरईणं पुच्छा गो० ! जहन्नेणं एगो सागरोवमस्स सत्तभागो पलिओवमस्स असंखेजभागेण ऊणो उक्को० दस सागरोवमकोडीकोडीओ दस वाससयाइं अबाहा जाव निसेगो, अरइ भयसोगदुगंछाणं पुच्छा, गो० ! जहन्नेणं सागरोवमस्स दोन्नि सत्तभागा पलिओवमस्स असंखेजइभागेण ऊगा उक्कोसेणं वीसं सागरोवमकोडाकोडीओ वीससयाई अबाहा जाव निसेगो' इति ज्ञेयं, तिर्यगायुषि मनुष्यायुषि च त्रीणि पल्योपमानि पूर्वकोटित्रिभागाभ्यधिकानि इति यदुक्तं तत् पूर्वकोट्यायुषस्तिर्यग्मनुष्यान् बन्धकानधिकृत्य वेदितव्यं अन्यत्रैतावत्याः स्थितेः Jain Education International For Private & Personal Use Only 2 www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy