SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ १९४ प्रज्ञापनाउपासूत्रम्-२-२३/२/-/५४१ सेवार्तसंहननस्येव जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासङ्ख्येयभागहीनी उत्कर्षतो विंशतिसागरोपमकोटीकोटयः कृष्णवर्णनाम्नोऽपि वक्तव्या इति भावः, सुरभिगन्धनाम्नः शुक्लवर्णनाम्न इव, ‘सुक्किलसुरभिमहुराण दस उ'इति वचनात्, दुरभिगन्धनाम्नो यथा सेवार्तसंहननस्य तच्चानन्तरमेवोक्तमिति न पुनरुच्यते, ___'रसाणं महुरादीणंजहा वण्णाणं भणियंतहा परिवाडीएभाणियव्व मिति, रसानांमधुरादीनांपरिपाट्या-क्रमेण तथा वक्तव्यं यथा वर्णानामुक्तं, तचैवं-मधुररसन्नाम्नोजघन्यास्थितिरेकः सागरोपमस्य सप्तभागः पल्योपमासङ्ख्येयभागहीनः, उत्कर्षतो दश सागरोपमकोटीकोटीयोदश वर्षशतान्यबाधा, अबाधारहिता कर्मस्थितिः कर्मदलिकनिषेक;, अम्लरसनाम्नो जघन्यतः पञ्च सागरोपमस्याष्टाविंशतिभागाःपल्योपमासङ्ख्येयभागहीनाः, उत्कर्षतोऽर्द्धत्रयोदशसागरोपमकोटीकोटयोअर्द्धत्रयोदशशतान्यबाधा, कषायरसनाम्नोजघन्यतः षट् अष्टाविंशतिभागाःसागरोपमस्य पल्योपमासद्धयेयभागोनाः, उत्कर्षतः पञ्चदशसागरोपमकोटीकोटयः, पञ्चदशवर्षशतान्यबाधा, कटुकरसनाम्नोजघन्यतः सागरोपमस्य सप्ताष्टाविंशतिभागाः पल्योपमासस्येयभागहीनाः, उत्कर्षतः सार्द्धसप्तदश सागरोपमकोटीकोटयः सार्द्धसप्तदश शतान्यबाधा, तिक्तरसनाम्नो जघन्यतःसागरोपमस्यद्वौसप्तभागौपल्योपमासङ्ख्येयभागहीनौ, उत्कर्षतोविंशतिः सागरोपमकोटीकोटयो विंशतिवर्षशतान्यबाधा अबाधाकालहीना च कर्मस्थितिः कर्मदलिकनिषेक इति, स्पर्शा द्विविधाः, तद्यथा-प्रशस्ता अप्रशस्ताश्च, तत्र प्रशस्ता मृदुलघुस्निग्धोष्णरूपाः अप्रशस्ताः कर्कशगुरुरुश्रशीतरूपाः, प्रशस्तानां जघन्यतः स्थितिरेकः सागरोपमस्य सप्तभागः पल्योपमासस्येयभागहीनः, उत्कर्षतो दश सागरोपमकोटीकोटयो दश वर्षशतान्यबाधा अबाधाकालहीना कर्मस्थितिः कर्मदलिकनिषेकः, अप्रशस्तानांजघन्यतोद्वौसागरोपमस्य सप्तभागी पल्योपमासङ्ख्येयभागहीनौ उत्कर्षतो विंशतिः सागरोपमकोटीकोटयो विंशतिर्षर्षशतान्यबाधा अबाधाकालोना कर्मस्थितिः कर्मदलिकनिषेकः, तथा चाह-'फासा जे अप्पसत्था तेसिंजहा सेवट्ठस्स जे पसत्या तेसिं जहा सुकिल्लवण्णनामस्स' इति, नरकानुपूर्वीनाम्नो जघन्यतः सागरोपमसहस्रस्य द्वौ सप्तभागी, द्वौ सागरोपमस्य सप्तभागी सहस्रगुणिताविति भावः, भावना नरकगतिवद् भावयितव्या, मनुष्यानुपूर्वीनामसूत्रे “जहन्नेणं सागरोवमस्स दिवई सत्तभागं पलिओवमस्स असंखिजाजइभागेणं ऊणगं'ति, तदुत्कृष्टस्थितेः पञ्चदशसागरोपमकोटीकोटीप्रमाणत्वात्, उक्तंचान्यत्रापि॥१॥ “तीसं कोडाकोडी असायआवरणअंतरायाणं । मिच्छे सयरी इत्थीमणुदुगसायाण पन्नरस ॥" देवानुपूर्वीनाम्नोऽपिजघन्यतः एकः सागरोपमस्य सप्तभागः सहस्रगुणितः पल्योपमासंख्येयभागहीनः उत्कर्षतो हि तस्थितेः दशसागरोपमकोटीकोटीप्रमाणत्वात, तथा चोक्तम्॥१॥ "पुंहासरईउच्चे सुभखगतिथिराइछक्कदेवदुगे। दस सेसाणं वीसा एवइयाऽबाह वाससया ॥" बन्धश्चास्य जघन्यतोऽसंज्ञिपञ्चेन्द्रियेषु इति, तथा सूक्ष्मनामसूत्रेजघ्यतोनवसागरोपमस्य पञ्चत्रिंशद्भागाः पल्योपमासङ्खयेयभागहीना द्वीन्द्रियजातिनाम्न इव भावनीया, सूक्ष्मनाम्नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy