SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ पदं- २३, उद्देशक :- २, द्वारं रौषधयस्तदुद्योतनाम, तथा विहायसा गतिः -- गमनं विहायोगतिः, ननु सर्वगतत्वात्, विहायसस्ततोऽन्यत्र गतिर्न सम्भवतीति किमर्थं विशेषणं ?, व्यवच्छेद्याभावातच्, सत्यमेतत्, किन्तु यदि गतिरेवोच्यते ततो नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्या शङ्का स्यात्, अतस्तद्वयवच्छेदार्थं विहायसा गतिः, न तु नारकादिपर्यायपरिणतिरूपेति विहायोगतिः, सा द्विविधा - प्रशस्ता अप्रशस्ताच, तत्र प्रशस्ता हंसगजवृषभादीनां अप्रशस्ता खरष्ट्रमहिषादीनां तद्विपाकवेद्यं विहायोगतिनामकर्म द्विधा - प्रशस्तवहायोगतिनाम अप्रशस्तविहायोगतिनाम चेति, तथा सन्ति - उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ते गच्छन्ति च छायाद्यासेवनार्थं स्थानान्तरमिति त्रसा - द्वीन्द्रियादयस्तत्पर्यायपरिणतिवेद्यं नामकर्मापि त्रसनाम, तथा यदुदयादुष्णाद्यभितापेऽपि तत्स्थान परिहारासमर्थाः पृथिव्यप्तेजोवायुवनस्पतयः स्थावरा जायन्ते तत् स्थावरनाम, तथा बादरनाम यदुदयाजीवा बादरा भवन्ति, बादरत्वं परिणामविशेषः, यद्वशात् पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुर्ग्राह्यत्वाभावेऽपि बहूनां समुदाये चक्षुषा ग्रहणं भवति, तद्विपरीतं सूक्ष्मनाम, यदुदयाद्वहूनामपि समुदितानां जन्तुशरीराणां चक्षुर्गाह्यता न भवति, उक्तं च श्रावकप्रज्ञप्तिमूलटीकायां - " सूक्ष्मनाम यदुदयात् सूक्ष्मो भवति, अत्यन्तसूक्ष्मोऽतीन्द्रिय इत्यर्तः" इति, पर्याप्तकनाम यदुदयात् स्वयोग्यपर्याप्तिनिर्वर्तनसमर्थो भवति तत्पर्याप्तिनाम आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, एतच्च प्रागेवोक्तमिति, तद्विपरीतमपर्याप्तकनाम, तथा यदुदयात् जीवं जीवं प्रति भिन्नं शरीरं तठप्रत्येकनाम, यदुदयवशात् पुनरनन्तानां जीवानामेकं शरीरं भवति तत्साधारणनाम, तथा यदुदयवशात् शरीरावयवानां शिरोऽस्थिदन्तानां स्थिरता भवति तत्स्थिरनाम, तद्विपरीतमस्थिरनाम, यदुदयवशाजिह्वादीनामवयवानामस्थिरता भवति तदूस्थिरनाम, तथा यदुदयात्राभेरुपरितना अवयवाः शुभा जायन्ते तत् शुभनाम, यदुदयवशात् नाभेरधस्तना पादादयोऽवयवा अशुभा भवन्ति तदशुमनाम, तथाहि शिरसा स्पृष्टस्तुष्यति पादेन तु रुष्टति, कामिन्या पादेनापि स्पृष्टः तोषमुपयाति ततो व्यभिचार इति चेत्, न तस्य परितोषस्य मोहनीयनिबन्धनत्वात्, वस्तुस्थितिश्चेह चिन्त्यते इत्यदोषः, तथा यदुदयवशादनुपकृदपि सर्वस्य मनः प्रियो भवति तत्सुभगनाम, तद्विपरीतं दुर्भगनाम, यदुदयादुपकारकृदपि जनस्य द्वेष्यो भवति, उक्तं च"अणुवकएवि बहूणं जो हु पिओ तस्स सुभगनामुदओ । उवगारकारगो वि हुन रुच्चए दुब्भगस्सुदए ॥ सुभगुदवि हु कोई किंची आसज्ज दुब्भगो जइवि । जाय तद्दोसाओ जहा अभव्वाण तित्थयरो ||" 119 11 तथा यदुदयवशात् जीवस्य स्वरः श्रोतॄणां प्रीतिहेतुरुपजायते तत्सुस्वरनाम, तद्विपरीतं दुःस्वरनाम यदुदयात् स्वरः श्रोतॄणामप्रीतये भवति, तथा यदुदयवशात् यच्चेष्टे भाषते तत्सर्वं लोकः प्रमाणीकरोति दर्शनसमनन्तरमेव च जनोऽभ्युत्थानादि समाचरति तदादेयनाम, तद्विपरीतमनादेयं, यदुदयवशादुपपन्नमपि ब्रुवाणो नोपादेयवचनो भवति नाप्युपक्रियमाणोऽपि जनस्तस्याभ्युत्थानादि समाचरति, ॥२॥ १८५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy