________________
१८६
प्रज्ञापनाउपासूत्रम्-२-२३/२/-/५४०
तथा तपःशौर्यत्यागादिना समुपार्जितेन यशसा कीर्तन-संशब्दनं यशःकीर्तितः,यद्वा यशः-सामान्येन ख्यातिः कीर्तिः-गुणोत्कीर्तनरूपाप्रशंसा अथवा सर्वदिग्गामिनी पराक्रमकृता वासर्वजनोत्कीर्तनीयगुणतायशः एकदेशगामिनी पुण्यकृतावाकीर्तिःते यदुदयवशाद्भवतस्तघशःकीर्तिनाम, यदुदयवशात् मध्यस्थस्यापि जनस्याप्रशस्यो भवति तदयशःकीर्तिनाम,
तथा यदुदयवशाजन्तुशरीरेषु स्वस्वजात्यनुसारेणाङ्गप्रत्यङ्गानां प्रतिनियतस्थानवर्त्तिता भवतितन्निर्माणनाम, तच सूत्रधारकल्पं, तदभावे हि तब तककल्पैरङ्गोपाङ्गनामादिभिर्निवर्तितानामपि शिरउरउरदरादीनां स्थानवृत्तेरनियमः स्यात्, तथा यदुदयवशात् अष्टमहाप्रातिहार्यप्रमुखाश्चतुस्त्रिंशदतिशयाः प्रादुष्ष्यन्तितत्तीर्थकरनाम,तदेवमुक्ताः नामकर्मणोद्विचत्वारिंशभेदाः, सम्प्रत्येतेषामेव गत्यादीनामवान्तरभेदप्रति-पादनार्थमाह
गइनामेणंभंते!कम्मेकइविहेपं०' इत्यादि, समस्तमपिनिगदसिद्धम्, उक्तानामकर्मणो भेदाः, सम्प्रति गोत्रकर्मभेदानाह_ 'गोएणंभंते!' इत्यादि, यदुदयवशादुत्तमजातिकुलबलतपोरूपैश्वर्यश्रुतसत्काराभ्युत्थानामसनप्रदानाअलिप्रग्रहादिसम्भवस्तदुच्चैर्गोत्रं, यदुदयवशात्पुनानादिसम्पन्नोऽपि निन्दालभते हीनजात्यादिसम्भवं च तत् नीचैर्गोत्रं, उक्तौ गोत्रभेदी, सम्प्रति तयोरेव भेदानाह-'उच्चगोएणं भंते ! कम्मे कइविहे पं०' इत्यादि सुगम, सम्प्रति अन्तरायभेदानाह___'अंतराए णं भंते ! कम्मे कइविहे' इत्यादि, तत्र यदुदयवशात् सति विभवे समागते च गुणवति पात्रेदत्तमस्मैमहाफलमितिजाननपिदातुंनोत्सहतेतद्दानान्तरायं, तथायदुदयवशाहानगुणेन प्रसिद्धद्वपि दातुहि विद्यमानमपि देयमर्थजातं याञ्चाकुशलोऽपि गुणवानपि याचको न लभतेतल्लाभान्तरायं, तथायुददयवशात्सत्यपि विशिष्टाहारादिसम्भवेऽसतिचप्रत्याख्यानपरिणामे वैराग्येवा केवलकार्पण्यानोत्सहतेभोक्तुंतभोगान्तरायमेवमुपभोगान्तरायमपि भावनीयं, नवरं भोगोपभोगयोरयं विशेषः-सकृद् भुज्यते इति भोगः-आहारमाल्यादि, पुनः पुनर्भुज्यते इत्युपभोगो-वस्त्रालङ्कारादि, उक्तंच॥१॥ सइ भुजइत्ति भोगो सो पुण आहारपुष्फमाईओ।
उवभोगो उ पुणो पुण उवभुजइ वत्थविलयाइ॥" तथा यदुदयात् सत्यपि नीरुजि शरीरे यौवनिकायामपि वर्तमानोऽल्पप्राणो भवति यद्वा बलवत्यपि शरीरे साध्येऽपि प्रयोजने हीनसत्त्वतया न प्रवर्त्तते तद्वीर्यान्तराय, उक्तो मूलोत्तरप्रकृतिविभागः,सम्प्रति उत्तरप्रकृतीनांजघन्योत्कृष्टस्थितिप्रतिपादनंचिकीर्षुः प्रथमतोज्ञानावरणीयस्य पञ्चप्रकारस्यापि विषये प्रश्नसूत्रमाह
मू. (५४१) नाणावरणिज्जस्स णं भंते ! कम्मस्स केवतितं कालं ठिती पं०?, गो० ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तीसं सागरोवमकोडाकोडीतो तिन्नि य वाससहस्साइं अबाहा, अबाहूणिया कम्मठिती कम्मनिसेगो,
निदापंचगस्सणं भंते! कम्मरस केवतितं कालं ठिती पं०?, गो० जह० सागरोवमस्स तिन्नि सत्तभागा पलितोवमस्स असंखेजतिभागेणं ऊणिया, उक्कोसेणं तसं सागरोवमरकोडाकोडीतो, तिन्नि य वाससहस्साइं अबाहा, अबाहूणिया कम्महिती कम्मनिसेगो,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org