SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ १८४ प्रज्ञापनाउपाङ्गसूत्रम्-२-२३/२/-/५४० चतुरनसंस्थानाम, यदुदयात्तु न्यग्रोधपरिमण्डलं संस्थानं तन्यग्रोधपरिमण्डलसंस्थानाम, एवं शेषाण्यपि वाच्यानि, तथा वर्ण्यते-अलकियते शरीरमनेनेति वर्गः, सच पञ्चप्रकारः श्वेतपीतरक्तनीलकृष्णभेदात्तन्निबन्धनंनामापिपञ्चधा, तद्यथा-श्वेतवर्णनामपीतवर्णनामरक्तवर्णनाम नीलवर्णनामकृष्णवर्णनाम, तत्र यदुदयाजन्तुशरीरेषुश्वेतवर्णाप्रादुर्भावो यथा बिशकण्ठिकानां तत् श्वेतवर्णनाम, एवं शेषवर्णनामान्यपि भावनीयानि, तथा 'गन्ध अईने' गन्ध्यते-आघ्रायते इतिगन्धः, सद्विधा-सुरभिगन्धो दुरभिगन्धश्च, तनिबन्धनंगन्धनामापिद्विधा, तद्यथा-सुरभिगन्धनामदुरभिगन्धनामच, तत्र यदुदयाजन्तुशरीरेषु सुरभिगन्ध उपजायते यथा शतपत्रमालतीकुसुमादीनांतत्सुरभिगन्धानाम, यदुदयाद्दुरभिगन्धः शरीररेषूपजायते यथा लशुनादीनां तत् दुरभिगन्धनाम, तथा रसास्वादनस्नेहनयोः' रस्यतेआस्वाधते इति रसः,सपञ्चधा तिक्तकटुकषायाम्ललमधुरभेदात्, तग्निबन्धनं रसनामापि पञ्चधा, तद्यथा-तिक्तनाम कटुनाम कषायनाम अम्लनाम अधुरनाम, तत्र यदुदयात् जन्तुशररेषु तिक्तोरसो भवति यथा मरिचादीनां तत्तिक्तरसनाम्, एवं शेषाण्यपि रसनामानि भावनीयानि, तथा स्पृश संस्पर्शे स्पृश्यते इति स्पर्शः, अकर्तरी तिधप्रत्ययः, सच कर्कशमृदुलघुगुरुस्निग्धरूक्षशीतोष्णभेदादटप्रकारःस, तन्निबन्धनं स्पर्शनामाप्यष्टप्रकारं, तत्र यदुदयाजन्तुशरीरेषु कर्कशः स्पर्शो भवति यथा पाषाणविशेषादीनां तत्कर्कशस्पर्शनाम, एवं शेषाण्यपि स्पर्शनामानि मावनीयानि, तथा यदुदयात् प्राणिनां शरीराणि न गुरूणि नापि लघूनि किन्त्वगुरुलघुरूपाणि भवन्ति तदगुरुलघुनाम, तथा यदुदयात् स्वशरीरावयवैरेव शरीरान्तः परिवर्द्धमानैः प्रतिजितागलवृन्दलम्बकचोरदन्तादिमिरुपहन्यते यद्वा स्वयंकृतोद्बन्धनभैरवप्रपातादिभिस्तदुपघातनाम, यदुदयात् पुनरोजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा महानृपसभामपिगतःसभ्यानामपित्रासमापादयति प्रतिवादिनश्चप्रतिभाविघातंकरोति तत्पराघातनाम, तथाकूर्परलागलगोमूत्रिकाकारेणयथाक्रमंद्वित्रिचतुःसमयप्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता गमनपरिपाटी आनुपूर्वी, तद्विपाकवेद्यं नामकर्मापि कारणेकार्योपचारात्, आनुपूर्वी नाम, तच्च चतुर्दा, तद्यथा-नैरयिकानुपूर्वीनामतिर्यगानुपूर्वीनाम मनुष्यानुपूर्वीनाम देवानुपूर्वीना, -तथायदुदयवशादात्मन उच्छ्वासनि:-श्वासलब्धिरूपजायते तदुच्छ्वासनाम, आहयद्येवमुच्छावसपर्याप्तिनाम्नः कत्रोपयोगः ?, उच्यते, उच्छ्वासनाम्न उच्छावसनिःश्वासयोग्यपुद्गलग्रहणमोक्षविषया लब्धिरुपजायते, साचलब्धिनोच्छ्वासपर्याप्तिमन्तरेणस्वफलं साधयति, न खलु इषुक्षेपणशक्तिमानपि धनुर्ग्रहणशक्तिमन्तरेण क्षेप्तुमलं, तत् उच्छ्वासपर्याप्तिनिष्पादनार्थमुच्छ्वासपर्याप्तिनाम्न उपयोगः,एवम्यत्रापि यथायोगंभिन्नविषयता सूक्ष्मधिया भावनीया, तथा यदुदयात् जन्तुशरीराणि स्वरूपेणानुष्णान्यपि उष्णप्रकाशलक्षणमतपं कुर्वन्ति तदातपनाम, तद्विपाकश्चभानुमण्डलगतेषुपृथिवीकायिकेष्वेववनवह्नौ, प्रवचनेऽपि निषेधात्, तत्रोष्णत्वमुष्णस्पर्शनामोदयात् उत्कटलोहितवर्णनामोदयाच्च प्रकाशकत्वमिति, तथा यदुदयाजन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतंकुर्वन्तियथायतिदेवोत्तरवैक्रियचन्द्रनक्षत्रातारविमान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy