SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ पद-२३, उद्देशकः-२, द्वार १८३ यदुदयाद्वैक्रियापुद्गलानांगृहीतानांगृह्यमाणानांचपरस्परंतैजसकार्मणपुद्गलैश्च सह सम्बन्धः तद्वैक्रियबन्धनं, यदुदयादाहारकशरीरपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तैजसकार्मणपुद्गलैश्च सह सम्बनधस्तदाहारकबन्धनं, यदुदयात्तैजसपुद्गलानांगृहीतानांगृह्यमाणानां च परस्परं कार्मणपुद्गलैश्च सह सम्बन्धस्तत्तैजसमबन्धननाम, यदुदयात् कार्मणपुद्गलानां गृ हीतानां गृह्यमाणानां च परस्परं सम्बन्धस्तत्कार्मणबन्धननमा, तथा सङ्घात्यन्ते-पिण्डीक्रियन्ते औदारिकादिपुद्गला येन तत्सद्भातं तच्च तनाम च सङ्गातनाम, तदपि पञ्चधा, तद्यथा-- औदारिकसवातनाम वैक्रियसनातनाम आहारकसबातनाम तैजससवातनाम कार्मणसवातनाम, तत्र यदुदयवशादौदारिकशरीरररचनाऽनुकारिसकातरूपा जायतेतदीदारिकसवातनाम, एवं वैक्रियादिशरीरसवातनामस्वपि भावनीयं, 'संधयणनामें इति संहनननाम, संहननं अस्थिरचनाविशेषः, आह चमूलटीकाकारः"संहननमस्थिरचनाविशेषः" इति, तेन यः प्राह सूत्रे शक्तिविशेष एव संहननमिति, तथा च तद्ग्रन्थः-सुत्ते सत्तिविसेसो संघयण'मिति स भ्रान्तः, मूलटीकाकारेणापि सूत्रानुयायिना संहननस्यास्थिरचनाविशेषात्मकस्य प्रतिपादितत्वात्, यत्त्वेकेन्द्रियाणां सेवार्त्तसंहननमन्यत्रोक्तं तत् टीकाकारेणसमाहितं, औदारिकशरीरत्वादुपचारत इदमुक्तं द्रष्टव्यं न तु तत्त्वृत्त्येति, यदि पुनः शक्तिविशेषः, स्यात्ततो देवानां नैरयिकाणंचसंहननमुच्यतेअथचतेसूत्रेसाक्षादसंहननिन उक्ता इत्यलं उत्सूत्रप्ररूपकविस्पन्दितेषु स चास्थिरचनाविशेष औदारिकशरीर एव नान्येषु तेषामस्थिरहितत्वात्, तच्च षोढा, तद्यथा वज्रर्षभनाराचंऋषभनाराचं नाराचं अर्द्धनाराचंकीलिका सेवातच, तत्र वज्र-कीलिका ऋषभः-परिवेष्टनपट्टः नाराचं-उभयतो मर्कटबन्धः, उक्तंच॥१॥ "रिसहो य होइ पट्टो वजं पुण कीलिया मुणेयव्वा । उभओ मक्कडबंधो नारायं तं वियाणाहि ॥" ततश्चद्वयोरस्थ्नोरुभयतोमर्कटबन्धनबद्धयोः पट्टाकृतिना तृतीयेनास्थापरिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद्वर्षभनाराचसंहननं, यत्पुनः कीलिकारहितं संहननं तत् ऋषभनाराचं, यत्र त्वस्थ्नां मर्कटबन्ध एव केवलो भवति तत्संहननं नाराचं, यत्रत्वेकपाइँन मर्कटबन्धो द्वितीयपार्वेचकीलिका तदर्द्धनाराचसंहनन, यत्रास्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत्संहननं कीलिकाख्यं, यत्रपुनः परस्परर्यन्तमात्रसंस्पर्शलक्षणां सेवामागतानि अस्थीनि नित्यमेव स्नेहाभ्यङ्गादिरूपां परिशीलनामाकासन्ति तत्सेवार्तसंहननं, एतन्निबन्धनं संहनननामापिषोढा, तद्यथा-वज्रर्षभनाराचसंहननाम ऋषभनाराचनाम नाराचनामअर्धनाराचनाम कीलिकानाम सेवार्तनाम, तत्र यदुदयात् वज्रर्षभनाराचसंहननं भवति तत्वज्रर्षभनाराचसंहननाम, एवं शेषसंहननामस्वपिभावनीय,तथा संस्थानं-आकारविशेषस्तेष्वेव गृहीतसङ्घातितबद्धेषुऔदारिकादिषुपुद्गलेषुसंस्थानविशेषोयस्य कर्मण उदयाद्भवति तत्संस्थानं, एतच्च षोढा, तद्यथा समचतुरस्रसंस्थानाम न्यग्रोधपरिमण्डलसंस्थाननाम सादिसंस्थानाम वामनसंस्थाननाम . कुब्जसंस्थाननामहुण्डसंस्थान नामच, तत्र यदुदयादसुमतांसमचतुरनसंस्थानमुपजायतेतत्सम For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy