________________
१८२
प्रज्ञापनाउपाङ्गसूत्रम्-२-२३/२/-/५४० जुगुप्सामोहनीयं, जुगुप्साजनकं मोहनीयं जुगुप्सामहनीयं, एवं सर्वपदेष्वपि विग्रहो भावनीयः, नोकषायता चामीषां हास्यादीनां कषायसहचारित्वात्, कैः कषायैःसहचारितेति चेत्, उच्यते, आद्यैदिशभिः, तथाहि
नायेषु द्वादशकषायेषु क्षीणेषु हास्यादीनामवस्थानसम्भवस्तदनन्तरमेव तेषामपि क्षपणाय प्रवृत्तिः, अथवाएतेप्रादुर्भवन्तोऽवश्यं कषायादीनुद्दीपयन्ति ततः कषायसहचारिणः,एवं नोशब्दः साहचर्ये द्रष्टव्यः,कषायैः सहचारिणो नोकषाया इति, उक्तंच॥१॥ "कषायसहवर्तित्वात्, कषायप्रेरणादपि ।
हास्यादिनवकस्योक्ता, नोकषायकषायता॥" ___ आयुःकर्मसूत्रं पाठसिद्धं, नामकर्म द्विचत्वारिंशद्विधं, तानेव द्वाचत्वारिंशतं भेदनाह-'गतिनामे त्यादि, गम्यते-तथाविधकर्मचिवैः प्राप्यते इतिगतिः-नारकत्वादिपर्यायपरिणतिः, सा चतुर्धा, तद्यथा- नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देगतिस्तजनकं नाम गतिनाम, तदपि चतुर्द्धा, 'नरकगतिनामे' त्यादि, तथा एकेन्द्रियादीनामेकेन्द्रियत्वादिरूपसमानपरिणामलक्षणमेकेन्द्रियादिशब्दव्यपदेशभाक्यत्सामान्यसाजातिस्तजनकंनामजातिनाम, इदमत्रतात्पर्यं
द्रव्यरूपमिन्द्रियमझोपाङ्गनामेन्द्रियपर्याप्तिनामसामथ्यसिद्धं, भावरूपंतुस्पर्शनादीन्द्रियावरणक्षयोपशमसामथ्यात्, 'क्षायोपशमिकाणीन्द्रियाणी ति वचनात्, यत्पुनरेकेन्द्रियादिशब्दप्रवृत्तिनिबन्धनं तथारूपसमानपरिणतिलक्षणं सामान्यं तदनन्यासाध्यत्वाजातिनिबन्धनमिति,
तच्च जातिनामपञ्चधा, तद्यथा-एकेन्द्रियजातिनाम यावत्पञ्चेन्द्रयजातिनाम, तथा शीर्यते इतिशरीरं, तत्पञ्चधा, तद्यथा-औदारिकंवैक्रियमाहारकंतैजसंकार्मणं, एतानिप्रागेवव्याख्यातानि, तनिबन्धनं नामापि पञ्चधा, तद्यथा-औदारिकनाम वैक्रियनाम इत्यादि, तत्र यदुदयादौदारिकशरीरप्रायोग्यान् पुद्गलानादाय औदारिकशरीररूपतया परिणमयति परिणमय्य च जीवप्रदेशः सह परस्परानुगमरूपतया सम्बन्धयतितदीदारिकशरीरनाम, एवं शेषशरीरनामान्यपि भावनीयानि,
“सरीरोपाङ्गनामेति शरीरस्याङ्गान्यष्टौ शिरःप्रभृतीनि, उक्तं च–'सीममुरोयरपिट्ठी दो बाहूऊलया य अटुंगा इति, उपाङ्गानि अगावयवभूतान्यङ्गुल्यादीनि शेषाणि तत्प्रत्यवयभूतान्यङ्गुलिपवरेखादीनि अङ्गोपाङ्गानि अङ्गानि च उपाङ्गानि च अङ्गोपाङ्गानि च २
__अङ्गोपाङ्गानि “स्यादवसङ्ख्येय" इत्येकशेषः, तन्निमित्तं नामशरीरोपाङ्गनाम, तच्च त्रिधा, तद्यथा-औदारिकाङ्गोपाङ्गनाम वैक्रियानोपानाम आहारकाङ्गोपाङ्गनाम, तत्र यदुदयवशादौदारिकशरीरत्वेनपरिणतानांपुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तदौदारिकाङ्गोपाङ्गनाम, एवं वैक्रियाहारकाङ्गोपाङ्गनाम्नी अपि वाच्ये, तैजसकार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वान्नास्त्यङ्गोपाङ्गसम्भवः, तथा बध्यतेऽनेनेतिबन्धनं, यदौदारिकपुद्गलनानांगृहीतानांगृह्यमाणानां च परस्परं तैजसादिपुद्गलैर्वा सह सम्बन्धजनकं तद्वन्धननाम, आह च मूलटीकाकारः
“विद्यते तत्कर्मयनिमित्ताद्व्यादिसंयोगापत्तिराविर्भवति, यथा काष्ठद्वयभेदैक्यस्य करणे जतुकारण"मिति, तच्च पञ्चधा, तद्यथा-औदारिकबन्धननाम वैक्रियबन्धननाम आहारकबन्धननाम तैजसबन्धननाम कार्मणबन्धननाम, तत्र यदुदयवशात् औदारिकपुद्गलानां गृहीतानां गृह्यमाणानां च परस्वपरं तैजसादिपुद्गलैश्च सह सम्बन्ध उपजायते तदौदारिकबन्धनं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org