SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ पदं-२३, उद्देशकः-२, द्वार १८१ ___ एषां संयोजना इति द्वितीयमपि नाम, तत्रायमन्वर्थः-संयुज्यन्ते-सम्बध्यन्तेऽनन्तसङ्घर्भवैर्जन्तवो यैस्ते संयोजनाः, उक्तं च॥१॥ “संयोजयन्ति यन्नरमनन्तसङ्घयैयर्भवैः कषायास्ते। संयोजनताऽनन्तानुबन्धिता वाप्यतस्तेषाम्।।" सर्वं प्रत्याख्यानं देशप्रत्याख्यानं च येषामुदये न लभ्यते ते भवन्त्यप्रत्याख्यानाः, सर्वनिषेधवचनोऽयं नञ्, उक्तंच॥१॥ "स्वल्पमपि नोत्सहेद्योषां, पत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ॥" तथा प्रत्याख्यानं सर्वविरतिरूपमाव्रियते यैस्ते प्रत्याख्यानावरणाः, आह च॥१॥ “सर्वसावधविरतिः, प्रत्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥" तथा परीषहोपसर्गनिपाते सति चारित्रिणमपि सम्-ईषत् ज्वलयन्तीति सञ्जवलनाःस उक्तंच॥१॥ "संज्वलयन्ति यतिं यत्संविज्ञं सर्वपापविरतमपि । तस्मात् सञ्जवलना इत्यप्रशमकरा निरुध्यतन्ते ।।" __ अन्यत्रायुक्तम्॥१॥ "शब्दादीन् विषयान् प्राप्य, सञ्जवलयन्ति यतो मुहुः । ततः सञ्जवलनाबानं, चतुर्थानामिहोच्यते ।।" -स्वरूपंच पश्चानुपूव्याऽमीषामिदं॥१॥ "जलरेणुपुढविपव्वयराईसरिसो चउब्विहो कोहो । तिणिसलयाकट्टडियसेलत्थंभोवमो माणो॥ ॥२॥ मायावलेहीगोमुत्तिमिढसिंगधणसमूलसमा। लोहो हलिदखंजणकद्दमकिमिरागसारित्यो । परखचउम्मासवच्छरजावजीवाणुगामि नो कमसो। देवनरतिरियनारयगइसाहणहेयवो भणिया ।" 'इत्थीवेए' इति वेद्यते इतिवेदः स्त्रिया वेदःस्त्रीवेदः, स्त्रियाः पुमांसे प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं कर्मापि स्त्रीवेदः, पुरुषस्य वेदः पुरुषवेदः, पुरुषस्य स्त्रियं प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यंकापिपुरुषवेदः, नपुंसकस्य वेदोनपुंसकवेदः, नपुंसकस्यस्त्रियंपुरुषंचप्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं कर्मापि नपुंसकदेवः, । तथा यदुदयात् सनिमित्तमनिमित्तं वा हसति स्म हासयते वा तत् हास्यमोहनीयं, यदुदयाबाह्याभ्यन्तरेषुवस्तुषु प्रमोदमाधत्तेतत् रतिमोहनीयं, यदुदयवशात् पुनर्बाह्याभ्यन्तरेषुवस्तुषु अग्रीतिं करोति तदरतिमोहनीयं, यदुदयात् प्रियविप्रयोगादौ सोरस्ताडमाक्रन्दति परिदेवतेभूपीठे च लुठति दीर्घ च निःश्वसिति तत् शोकमोहनीयं, यदुदयवशात् सनिमित्तमनिमित्तं वा तथारूपवस्वसङ्कल्पतो बिभेति तद्मयमोहनीयं, यदुदयवशात् पुनः शुभमशुभं वा वस्तु जुगुप्सते तत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy