________________
१८०
प्रज्ञापनाउपासूत्रम्-२-२३/२/-/५४०
शायिनीत्वं, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा उपचारात्, तथा उपविष्ट ऊर्ध्वस्थितो वा प्रचलयति-धूर्णयति यस्यां स्वापावस्थायां सा प्रचला, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला, 'पयलापयला' इति प्रचलातोऽतिशायिनी प्रचलापारचला, पूर्ववत् मध्यमपदलोपी समासः, सा हि चकमणादिकमपि कुर्वत उदयमधिगच्छति, ततःस्थानस्थितस्वप्त प्रभवप्रचलोपक्षया तस्या अतिशायिनीत्वं, थीणद्धीः' इतिस्त्याना-पिण्डीभूता ऋद्धिः आत्मशक्तिरूपायस्यांस्वापावस्थायां सास्त्यानर्द्धिः, तद्भावे हि प्रथमसंहननस्य केशवार्द्धबलसशी शक्तिरूपजायते, तथा च श्रूयते प्रवचने-क्वचित् प्रदेशे कोऽपि प्राप्तः क्षुल्लकः स्त्यानद्धिनिद्रासहितो द्विरदेन दिवा खलीकृतः, ततस्तस्मिन् द्विरदे बद्धाभिनिवेशोरजन्यांस्त्यानध्युदये प्रवर्तमानःसमुत्थाय तद्दन्तमुशलमुत्पाटय स्वोपाश्रयद्वारिच प्रक्षिप्य पुनः प्रसुप्तवानित्यादि,
तथा चक्षुषा दर्सनंचक्षुर्दर्शनंतस्यावरणीयंचक्षुर्दर्शनावरणीयं अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनं तस्यावरणीयमचक्षुर्दर्शनावरणीयं अवधिरेव दर्शनमवधिदर्शनं तस्यावरणीयमधिदर्शनावरणीयं केवलमेव दर्शनं केवलदर्शनंतस्यावरणीयं केवलदर्शनावरणीयं, इह निद्रापञ्चकंप्राप्तायादर्शनलब्धेरुपधातकृद्दर्शनावरणचतुष्टयं तुमूलत एवदर्शनलब्धिमुपहन्ति, आह च गन्धहस्ती-“निद्रादयः समधिगताया दर्सनलब्धेरुपघाते वर्तन्ते, दर्शनावरणचतुष्टयं तदुद्गमोच्छेदित्वात् समूलघातं हन्ति दर्शनलब्धि" मिति,
वेदनीयं द्विधा-सातवेदनीयसातवेदनीयं च, सातरूपेण यद्वेद्यते तत्सातवेदनीयं, तद्विपरीतमसातवेदनीयं, किमुक्तंभवति?-यस्योदयात्शारीरंमानसंच सुखंवेदयतेतत्सावदेनीयं, यस्योदयात्, पुनःशरीरेमनसिचदुःखसमनुभवतितदसातवेनीयं, एकैकमष्टविधं, मनोज्ञामनोज्ञशब्दादिविषयभेदात्, मोहनीयं द्विधादर्शनमोहनीयं चारित्रमोहनीयं च, दर्शनं-सम्यकत्वं तन्मोहयतीति दर्शनमोहनीयं, चारित्रं-सावधेतरयोगनिवृत्तिप्रवृत्तिगम्यं शुभात्मपरिणामपं तन्मोहयतीति चारित्रमोहनीयं, चशब्दौ स्वगतानेकभेदसूचकौ,
दर्शनमोहनीयं त्रिविधं, तद्यथा-सम्यकत्ववेदनीयं मिथ्यात्ववेदनीयं मिश्रवेदनीयं, तत्र जिनप्रणीततत्त्वश्रद्धानात्मकेन सम्यकत्वरूपेणं यद्वेद्यते तत्सम्यकत्ववेदनीयं, यत्पुनर्जिनप्रणीततत्त्वाश्रद्धानात्मकेन मिथ्यात्वरूपेणवेद्यतेतन्मिथ्यात्ववेदनीयं, यत्तुमिश्ररूपेण-जिनप्रणीततत्त्वेषु नश्रद्धानंनापि निन्देत्येवंलक्षणेन वेद्यतेतन्मिश्रवेदनीयं, आह-सम्यकत्ववेदनीयंकथंदर्शनमोहनीयं न हि तदर्शनं मोहयति, तस्य प्रशमादिपरिणामहेतुत्वात्, उच्यते, इह सम्यकत्ववेदनीयं मिथ्यात्वप्रकृतिः, ततोऽतिचारसम्भवात्, औपशमिकक्षायिकदर्शनमोहनाचेदं दर्शनमोहनीयमित्युच्यते, चारित्रमोहनीयं द्विविधं कषायवेदनीय नोकषायवेदनीयं च, तत्र यत्रोधादिकषायरूपेणवेद्यतेतत्कषायवेदनीयं, यत्पुनः स्त्रीवेदादिनोकषायरूपेणवेद्यते तन्नोकषायवेदनीयं, चशब्दौ स्वगतानेकभेदसूचकौ, तत्र कषायवेदनीयं षोडशविधं, क्रोधमानमायालोभानां प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्जवलनरूपत्वात्, तत्रानन्तंसंसारमनुबध्नन्तीत्येवंशीलाअनन्तानुबन्धिनः, उक्तंच॥१॥ "अनन्तान्यनुबनिन्ति, यतो जन्मानि भूतये।
ततोऽनन्तानुबन्धाख्या, क्रोधाद्येषु नियोजिता।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org