________________
१७४
प्रज्ञापनाउपाङ्गसूत्रम्-२-२३/9/-/५४०
॥१॥ "सुहपडिवोहा निद्दा दुहपडिबोहाय निद्दनिद्दा य।
पयला होइ ढियस्स उ पयलपयला यचंकमतो॥ ॥२॥ थीणगिद्धी पुण अइसकिलिट्टकम्मणुवेयणे होइ ।
__ महनिद्दा दिनचिंतियवावारपसाहणी पायं ।।" चक्षुर्दर्शनावरणं-चक्षुःसामान्योपयोगावरणं, एवं शेषेष्वपि भावनीयं, 'जंवेयई' इत्यादि, यंवेदयते पुद्गलं मृदुशयनादिकं 'पुग्गले वा इतियान्पुद्गलान् बहून मूदुशयनीयादीन् वेदयते पुद्गपरिणाम माहिषदध्याद्यभ्यवहताहारपरिणाममित्यर्थः, 'वीससा पोग्गलाण परिणाम मिति वर्षास्वभ्रमसम्भृतनभोरूपंधाराम्बुनिपातरूपंवायंवेदयतेतेन निद्राद्युदयापेक्षयादर्शनपरिणत्युपघाते एतावतापरत उक्तःसम्प्रतिस्वत उदयमाह-'तेसिंवाउदएणं तितेषांवादर्शनावरणीयकर्मपुद्गलानामुदयेन परिणतिविधातेन द्रष्टव्यं न पश्यति, तथाकश्चित् दर्शनपरिणामेन परिणन्तुमिच्छन्नपि जात्यन्धत्वादिना दर्शनपरिणत्युपधातान पश्यति, प्राग् दृष्ट्वापि पञ्चान्न पश्यति, दर्शनावरणीयकर्मपुद्गलानामुदयात, किंबहुना?,दर्शनावरणीयस्य कर्मण उदयेनजीवउच्छन्नदर्शन्यपि यावच्छक्तिप्रच्छादितदर्शन्यपि भवति, एसणंगोयमा! दरिसणावरणिज्जे कम्मे' इत्याधुपसंहारवाक्यं ।
'सायावेयणिज्जस्स णं भंते ! कम्मस्स' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-गौतम ! अष्टविधोऽनुभावः प्रज्ञप्तः, अष्टविधत्वमेव दर्शयति-'मणुना सद्दा' इत्यादि, मनोज्ञाः शब्दा आगन्तुका वेणुवीणादिसम्बन्धिनः, अन्ये आत्मीया इत्याहुस्तदयुक्तं, आत्मीयशब्दानांवाक्सुखेनेत्यनेनैवगृहीतत्वात्, मनोज्ञारसा-इक्षुरसप्रभृतयः, मनोज्ञा गन्धाः-कर्पूरादिसम्बन्धिः, मनोज्ञानि रूपाणि-स्वगतस्वस्त्रीगतचित्रादिगतानिमनोज्ञाः स्पर्शा-हंसतूल्यादिगता मनोसुहया' इतिमनसि सुखं यस्यासौमनःसुखस्तस्य भावोमनःसुखता, सुखितंमन इत्यर्थः, वाचि सुखं यस्यासौवाक्सुखस्तस्य भावो वाक्सुखता, सर्वेषां श्रोत्रमनःप्रल्हादकारिणी वागिति तात्पर्यार्थः, काये सुखं यस्यासी कायसुखस्तद्भावः कायसुखता, सुखितःकाय इत्यर्थः,एते चाष्टौ पदार्थाः सातावेदनीयस्योदयेन प्राणिनामुपतिष्ठन्ते तत उक्तोऽष्टविध; सातवेदनीयस्यानुभावः
परतःसातावेदनीयस्योदयमुपदर्शयति-जं वेएइ पुग्गल मित्यादि, यवेदयते पुद्गलं प्रक्चन्दनादि यान् वेदयते पुद्गलान् बहून् स्रक्चन्दनादीन् यं वा वेदयते पुद्गलपरिणाम देशकालवयोऽवस्थानुरूपाहारपरिणामं, 'वीससा वापुग्गलाणपरिणाम विनसयावायंपुद्गलानां परिणामं कालेऽभिलषितं शीतोष्णादिवेदनाप्रतीकाररूपं, तेन मनसः समाधानसम्पादनात् सातवेदनीयं कर्मानुभवति, सातवेदनीयकर्मफलं सातंवेदयते इत्यर्थः, उक्तः परत उदयः, सम्प्रति स्वतउदयमाह-'तेसिंवा उदएणं तितेषांवासातवेदनीयकर्मपुद्गलानामुदयेनमनोज्ञशळब्दादिव्यतिरिकेणापि कदाचित् सुखं वेदयते, यथा नैरयिकास्तीर्थकरजन्मादिकाले 'एस णं गोयमा !' इत्याधुपसंहारवाक्यं, _ 'असायावेयणिज्जस्स णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, निर्वचनं पूर्ववत्, तथा तथा चाह-'तहेवपुच्छा उत्तरंच' नवरमित्यादिना पूर्वसूत्रादस्य विशेषमुपदर्शयति, अमणुण्णा सद्दा' इत्यादि,अमनोज्ञाःशब्दाः-खरोष्ट्राश्वादिसम्बन्धिन आगन्तुकाअमनोज्ञारसाः-स्वस्याप्रतिभासिनो दुःखजनकाः अमनोज्ञा गन्धा-गोमहिषादिमृतकडेवरादिगन्धाअमनोज्ञानिरूपाणि-स्वगतस्व
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org