________________
१७५
-
पदं-२३, उद्देशकः-१, द्वारंस्त्रीगतादीनि अमनोज्ञाः स्पर्शाः-कर्कशादयः, 'मणोदुहिया' इतिदुःखितं मन इति वइदुहिया' इति अभव्या वाक् इति भावार्थः, 'कायदुहिया' इति काये दुःखं यस्यासौ कायदुःशस्तभावः कायदुःखिता दुःखितकाय इत्यर्थः, 'जं वेएइ' इत्यादि, यं वेदयते पुद्गलं-विषशस्त्रकण्डकादि 'पुग्गले वा' इति यान् वा पुद्गलान् बहून् विषशस्त्रकण्डकादीन् वेदयते पुद्गलुपरिणाममपथ्याहारलक्षणं, विस्रसयावायंवेदयतेपुद्गलपरिणामअकालेऽभिलषितंशीतोष्णादिपरिणाम, तेन मनसोऽसमाधानसम्पादनात, असातवेदनीयं कर्मानुभवति, असातवेदनीयकर्मफलमसातं वेदयते इति भावः, एतेन परत उदय उक्तः, सम्प्रति स्वत उदयमाह-'तेसिंवा उदएणं'ति तेषां वाअसातवेदनीयकर्मपुद्गलानामुदयेनासातं वेदयते, 'एस णंगोयमा!' इत्याधुपसंहारवाक्यं । _ 'मोहणिजस्सणं भंते!' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनं पञ्चविधोऽनुभावः प्रज्ञप्तः, तदेवपञ्चविधत्वंदर्शयति-'सम्यकत्ववेदनीय'मित्यादि, सम्यकत्वरूपेणयद्वेद्यतत्सम्यकत्ववेदनीयं, एवं शेषपदेष्वपि शब्दार्थो भावनीयः, भावार्थस्त्वयं-यदिह वेद्यमानं प्रशमादिपरिणामं करोति तत्सम्यकत्ववेदनीयं, यत्पुनरदेवादिबुद्धिहेतुस्तन्मिथ्यात्ववेदनीयं, मिश्रपरिणामहेतुः सम्यग्मिथ्यात्ववेदनीयं, क्रोधादिपरिणामकारणं कषायवेदनीयं हास्यादिपरिणामकारणं नोकषायवेदनीयं, 'जं वेएणपुग्गल'मित्यादि, यं वेदयते पुद्गगलविषयं प्रतिमादिकं पुद्गलान् वायान् वेदयते बहून्प्रतिमादीन्यं वापुद्गलपरिणांदेशाधुनुरूपाहारपरिणामकर्मपुद्गलविशेषोपादानसमर्थ भवति, आहारपरिणाम विशेषादपि कदाचित्कर्मपुद्गलविशेषोस यथा ब्राह्मयोषध्याद्याहारपरिणामात् ज्ञानावरणीयकर्मपुद्गलानां प्रतिविशिष्टःक्षयोपशमः, उक्तंच॥१॥ “उदयखयखओवसमोवसमावि यजं च कंमुणो भणिया।
दव्वं खेत्तं कालं भावं च भवंच संपप्प॥" विनसया वा यं पुद्गलानां परिणामं अभ्रविकारादिकं यद्दर्शनादेव विवेक उपजायते, ॥१॥ “आयुः शरज्जलधरप्रतिमं नराणां, सम्पत्तयः कुसुमितद्रुमसारतुल्याः । स्वप्नोपभोगसईशा विषयोपभोगाः, सङ्कल्पमात्ररमणीयमिदं हि सर्वम् ।।" इत्यादि,
अन्यं वा प्रशमादिपरिणामनिबन्धनं वं वेदयते तत्सामथ्यात् मोहनीयं सम्यकत्ववेदनीयादिकं वेदयते, सम्यकत्वेदनीयादिकर्मफलं प्रशमादि वेदयते इति भावः, एतावता परत उदय उक्तः, सम्प्रतिस्वतस्तमाह-'तेसिंवाउदएणं तितेषांचसम्यकत्ववेदनीयादिकर्मपुद्गलानामुदयेन प्रशमादि वेदयते, 'एस णं' इत्याधुपसंहारवाक्यं ।
'आउस्सणंभंते! इत्यादि, प्रश्नसूत्रप्राग्वत्, निर्वचनं चतुर्विधोऽनुभावः प्रज्ञप्तः, तदेव चतुर्विधत्वं दर्शयति-'नेरइयाउए इत्यादि सुगम, जंचेएइपुग्गलं वा' इत्यादि, यं वेदयतेपुद्गलं शस्त्रादिकमायरपवर्तनसमर्थंबहून् पुद्गलान् शस्त्रादिरूपान्यान् वेदयतेयंवापुद्गलपरिणाम विषान्नादिपरिणामरूपं विनसयावायंपुद्गलपरिणामशीतादिकमेवायुरपवर्तनक्षम, तेनोपयुज्यमानमूवायुषोऽवर्तनात्, नारकाद्यायुःकर्मवेदयते, एतानवता परत उदयोऽभिहितः,स्वत उदयस्य सूत्रमिदं-'तेसं वा उदएणं ति तेषां वा नारकाद्यायुःपुद्गलानामुदयेन नारकाद्यायुर्वेदयते ‘एस ण मित्याधुपसंहारवाक्यं।
नामकर्म द्विधा-शुभनामकर्म अशुभनामकर्मच, तत्र शुभनामकर्माधिकृत्य सूत्रमाह--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org