SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ १७३ पर्द-२३, उद्देशकः-१, द्वारअसातवेदनीयं ज्ञानावरणीयं सुरापानमति, ततः पुद्गलपरिणामं प्राप्येत्युक्तं, कतिविधोऽनुभावःप्रज्ञप्तइत्येष प्रश्नः,अत्रनिर्वचनं-दशविधोऽनुभावःप्रज्ञप्तः कतदेव दशविधमनुभावं दर्शयति-सोयावरणे' इत्यादि, इह श्रोत्रशब्देन श्रोत्रेन्द्रियविषयः क्षयोपशमः परिगृह्यते 'सोयविन्नाणावरणे' इति श्रोत्रविज्ञानशब्देन श्रोत्रेन्द्रियोपयोगो, यत्तु निवृत्त्युपकरणलक्षणंद्रव्येन्द्रियं तदङ्गोपाङ्गनामकर्मनिर्वत्यंन ज्ञानावरणविषय इतिन श्रोत्रशब्देन गृह्यत्ते, एवं नेत्रावरणे इत्याद्यपिभावनीयं, तच्चैकेन्द्रियाणां रसनघ्राणचक्षुःश्रोत्रविषयाणं लब्ध्युपयोगानां प्रायआवरणं, प्रायोग्रहणंच बकुलादिव्यवच्छेदार्थ, बकुलादीनांहि यथायोगंपञ्चानामपीन्द्रियाणां लब्ध्युपयोगाः फलतोऽस्पष्टा उपलक्ष्यन्ते, आगमेऽपि च प्रोच्यन्ते॥१॥ "पंचिंदियोविबउलो नरोव्व पंचिंदिओवओगाओ। तहवि न भण्णइपंचिंदिओत्ति दबिंदियाभावा ।।" -तथा ॥२॥ “जह सुहुमं भाविंदयनाणं दबिंदियावरोहेवि । दव्वसुयाभावंमिवि भावसुयं पत्थिवाईणं ॥" इति ततःप्राय इत्युक्तं, द्वीन्द्रियाणांघ्राणचक्षुःश्रोत्रेन्द्रियविषयाणां लब्ध्युपयोगानांत्रीन्द्रियाणांचक्षुःश्रोत्रविषयाणां चतुरिन्द्रियाणां श्रोत्रेन्द्रियलब्ध्युपयोगावरणं सर्वेषामपि स्पर्शनेन्द्रियलब्ध्युपोगावरणं कुष्ठादिव्याधिभिरुपहतदेहस्य द्रष्टव्यं, पञ्चेन्द्रियाणामपि जात्यन्धादीनां पञ्चाद्वा अन्यबधिरीभूतानां चक्षुरादीन्द्रियलब्ध्युपयोगावरणंभावनीयं, कथमेवमिन्द्रियाणांलब्ध्युपयोगावरणमिति चेत्, उच्यते, स्वयमुदीर्णस्य परेण वा उदीरितस्य ज्ञानावरणीयकर्मण उदयेन, तथा चाह-'जंवेएई' इति,यद्वेदयतेपरेणक्षिप्तंकाष्ठलेष्टुखङ्गादिलक्षणंपुद्गलंतेनाभिधातजननसमर्थन 'पुग्गले वा' इति यावद्बहून् पुद्गलान् काष्ठादिलक्षणान् परेण क्षिप्तान् वेदयते, तैरभिघातजननसमर्थैः, 'पुद्गलपरिणामवा' इतियंवापुद्गलपरिणाममभ्यवहताहारपरिणामरूपंपानीयरसादिकमति- दुःखजनकं वेदयते तेन वा ज्ञानपरिणत्युपहननात् तथा-'वीससा वा पोग्गलाणं परिणाम मिति विस्रसया यःपुद्गलानां परिणामः शीतोष्णातपादिरूपस्तं वेदयते यदा तदा तेनेन्द्रियोपघातजननद्वारेण ज्ञानपरिणतावुपहतायां ज्ञातव्यमेवैन्द्रियकमपि सद्वस्तु न जानाति, ज्ञानपरिणतेरुपहतत्वात्, अयं सापेक्ष उदय उक्तो, निरपेक्षस्य तु विषये सूत्रमिदम् 'तेसिंवा उदएणं तितेषां वा ज्ञानावरणीयकर्मपुद्गलानां विपाकप्राप्तानामुदयेन ज्ञातव्यं नजानाति जाणिउकामेविनयाणइ' इतिज्ञानपरिणामेन परिणंतुमिच्छन्नपिज्ञानपरिणत्युपघातान जानाति, 'जाणित्ताविन याणई' इति, प्राक् ज्ञात्वाऽपि पञ्चान्न जानीते, तेषामेव ज्ञानावरणीयकर्मपुद्गलानामुदयात्, ‘उच्छन्ननाणी याविभवई' इत्यादि, ज्ञानावरणीयस्य कर्मणउदयेन जीव उच्छत्रज्ञान्यपि भवति, उच्छन्नं च तद् ज्ञानं च उच्छन्नज्ञानं तस्यास्तीति उच्छन्नज्ञानी, सर्वधनादिपाठाभ्युपगमादिन, यावरशक्तिप्रच्छादितज्ञान्यपि भवतीत्यर्थः, “एसणं गोयमा ! नाणावरणिजे कम्मे' इत्याधुपसंहारवाक्यं कण्ठ्यं, 'दसणावरणिज्जस्सणं भंते!' इत्यादिप्रश्नसूत्रंपूर्ववत्, निर्वचनमाह-गौतम! नवविधः प्रज्ञप्तः, तदेव नवविधत्वं दर्शयति–'निद्रा' इत्यादि, निद्राशब्दार्थमग्ने वक्ष्यामो, भावार्थस्त्वयम्Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy