________________
१७२
प्रज्ञापनाउपाङ्गसूत्रम्-२-२३/9/-/५३९ जं वेदेति पोग्गलं जाव वीससा वा० तेसिं वा उदएणं अंतराइयं कम्मं वेदेति, एस णं गो० ! अंतराइए कम्मेस, एस णं गो० ! जाव पंचविधे अनुभाव पं०
वृ. 'नाणावरणिजस्सणंभंते !' इत्यादि, ज्ञानावरणीयस्स णमिति वाक्यालमारे भदन्त! जीवेन बद्धस्य-रागद्वेषपरिणामवशतः कर्मरूपतया परिणमितस्य स्पृष्टस्य-आत्मप्रदेशैः सह संश्लेषमुपगतस्य ‘बद्धफासपुट्ठस्से ति पुनरपि गाढतरंबद्धस्यातीव स्पर्शेन स्पृष्टस्य च, किमुक्तं भवति? - आवेष्टनपरिवेशष्टनरूपतायऽतीवसोपचयं गाढतरंचबद्धस्येति, सञ्चितस्य' आबाधाकालातिक्रमेणोत्तरकालवेदनयोग्यतया निषिक्तस्य 'चितस्य'उत्तरोत्तरस्थितिषु प्रदेशहान्या रसवृध्याऽवस्थापितस्य ‘उपचितस्य' समानजातीयप्रकृत्यन्तरदलिकसङ्कमेणोपचयं नीतस्य 'आपाकप्राप्तस्य' ईषत्पाकाभिमुखीभूतस्य 'विपाकप्राप्तस्य' विशिष्टपाकमुपगतस्य अत एव 'फलप्राप्तस्य' फलं दातुमभिमुखीभूतस्य ततःसामग्रीवशादुदयप्राप्तस्य, एते चापाकप्राप्तत्वादयःकर्माधर्माः यथा आम्रफलस्य, तथाहि-आम्रफलंप्रथमतईषत्पाकाभिमुखं भवति, ततो विशिष्टं पाकमुपागतं तदनन्तरं तृप्तिप्रमोदादि फलं दातुमुचितंततः सामग्रीवशादुपभोगप्राप्तं भवति, एवं कर्मपीति, तत् पुनर्जीवन कथं बद्धमित्यत आह
'जीवेणकयस्स' जीवेन कर्मबन्धनबद्धेनेतिगम्यते कृतस्य' निष्पादितस्यजीवो झुपयोगस्वभावस्ततोऽसौ रागादिपरिणतो भवति, न शेषो, रागादिपरिणतश्च सन् कर्म करोति, साच रागादिपरिणतिःकर्मबन्धबद्धस्य भवति, नतद्वियोगे, अन्यथा मुक्तानामप्यवीतरागत्वप्रसक्तेः, ततः कर्मबन्धनबद्धेन सता जीवेन कृतस्येति द्रष्टव्यं, उक्तंच॥१॥ “जीवस्तु कर्मबन्धबद्धो वीरस्य भगवतः कर्ता ।
सन्तत्याऽनाधं च तदिष्टं कर्मात्मनः कर्तुः ।।" इति, तथा जीवेन निर्वर्तितस्य, इह बन्धसमयेजीवः प्रथमोऽविशिष्टान् कर्मवर्गणान्तःपातिनः पुद्गलान गृहान अनाभोगिकेन वीर्येण तस्मिन्नेव बन्धसमये ज्ञानावरणीयादितया व्यवस्थापत्याहारमिव रसादिसप्तधातुरूपतया या ज्ञानावरणीयादितयाव्यवस्थापनंतनिर्वर्तनमित्युच्यते, तथा जीवेन परिणामितस्य-विशेषप्रत्ययैः प्रद्वेषनिहवादिभिस्तं तमुत्तरोत्तरंपरिणामंप्रापितस्य, स्वयंवा विपाकप्राप्ततया परनिरपेक्षमुदीर्णस्य-उदयप्राप्तस्यपरेण वाउदीरितस्य-उदयमुपनीतस्य तदुभयेन-स्वपररूपेणोभयेन उदीर्यमाणस्य-उदयमुपनीयमानस्य गतिप्राप्यकिञ्चिद्धि कर्मकाञ्चिद् गतिं प्राप्य तीव्रानुभावं भवति,
यथा नरकगतिं प्राप्यसातवेदनीयं, असातोदयो हि यथा नारकाणां तीव्रो भवति न तथा तिर्यगादीनामिति, तथा स्थितिं प्राप्य सर्वोत्कृष्टामिति शेषः, सर्वोत्कृष्टां हि स्थितिमुपगतमशुभं कर्मतीव्रानुभावं भवति, यथा मिथ्यात्वं भवं प्राप्य, इह किमपिकर्म कञ्चिद्भवमाश्रित्य स्वविपाकदर्शनसमर्थं यथा निद्रा मनुष्यभवं तिर्यग्भवं वा प्राप्य ततो भवं प्राप्येत्युक्तं, एतावता किल स्वत उदयस्य कारणानि दर्शितानि, कर्म हि तां तां गति स्थिति भवं वा प्राप्य स्वयमुदयमागच्छतीति, सम्प्रति परत उदयमाह-पुद्गलं काष्ठलेष्ठुखङ्गादिलक्षणं प्राप्य, तथाहि परेणं क्षिप्तं काष्ठलेष्टुखङ्गादिकमासाद्यभवत्यसातवेदनीयक्रोधादीनामुदयः, तथा पुद्गलपरिणाम प्राप्य-इह किञ्चित्कर्म कमपि पुद्गलमाश्रित्य विपाकमायाति, यथाऽभ्यवहृतस्याहारस्याजीर्णत्वपरिणाममाश्रित्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org