SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पदं-१, उद्देशक:-, द्वारं नन्ताः, प्रत्येकतरवः सङ्खयेया असङ्घयेया वा, साधारणास्तु नियमादनन्ता इति भावः । 'एतेषां ' साधारणप्रत्येकत रुरूपाणां वनस्पतिविशेषाणां वक्ष्यमाणानामिमाः - विशेषप्रतिपादिका वक्ष्यमाणा गाथा अनुगन्तव्याः - प्रतिपत्तव्याः, ता एवाह - 'तंजहा' तद्यथापू. (१४५) कंदा य कंदमूला य, रुक्खमूला इयावरे । गुच्छा य गुम्मवल्ली य, वेणुयाणि तणाणि य ॥ वृ. 'कंदा ये' त्यादि गाथात्रयं 'कन्दाः' सूरणकन्दादयः कन्दमूलानि वृक्षमूलानि च साधारणवनस्पतिविशेषाः 'गुच्छा' गुल्मा, वल्लयश्च प्रतीताः 'वेणुका' वंशास्तृणानिअर्जुनादीनि । यू. (१४६) पउमुप्पल संघाडे हढे य सेवाल किन्नए पनए । अवए य कच्छभाणी कंदुक्के गूणवीसइमे ॥ वृ. पद्ममोत्पलश्रृङ्गाटकानि प्रतीतानि 'हढो' जलजवनस्पतिविशेषः सेवाल:- प्रसिद्धः कृष्णकपनकावककच्छभाणिकन्दुकाः - साधारणवनस्पतिविशेषाः । मू. (१४७) तय छल्लि पवालेसु य पत्तपुप्फफलेसु य । मूलग्गमज्झबीएस, जोणी करसवि कित्तिया ॥ ४७ वृ. एतेषामेकोनविंशतिसभङ्क्षयानां त्वगादिषु मध्ये कस्यापि कापि योनिः किमुक्तं भवति कस्यापि त्वक् योनिः कस्यापि छल्ली यावत्कस्यापि मूलं कस्याप्यग्रं कस्यापि मध्यं कस्यापि बीजमिति मू. (१४८) से तं साहरणसरीरवणस्सइकाइया से तं बायरवणरसइकाइया, से तं वणसइकाइया, से तं एगिंदिया || वृ. 'सेत्त' मित्यादि निगमनचतुष्टयं सुगमं । तदेनमुक्ता एकेन्द्रिययाः, सम्प्रति द्वीन्द्रियप्रतिपादनार्थमाह मू. (१४९) से किं तं बेइंदिया ?, बेइंदिया अनेगविहा पन्नता, तंजहा- पुलाकिमिया कुच्छिकिमिया गंडूयलगा गोलोमा णेउरा सोमंगलगा वंसीमुहा सूइमुहा गोजलोया जलोया जालाउया संखा संखणगा धुल्ला खुल्ला गुलया खंधा वराडा सोत्तिया मुत्तिया कलुयावासा एगओवत्ता दुहओवत्ता नंदियावत्ता संबुक्का माइवाहा सिप्पिसंपुडा चंदना समुद्दलिक्खा, Jain Education International - जे यावन्ने तहम्पगारा, सव्वे ते संमुच्छिमा नपुंसगा, ते समासओ दुविहा पन्नत्ता, तंजा - पत्तगा य अपजत्तगा य, एएसिणं एवमाइयाणं बेइंदियाणं पत्तापजत्ताणं सत्त जाइकुलकोडिजोणीपमुहसयसहस्सा भवंतीति मक्खायं । से त्तं बेइंदियसंसारसभावनजीवप० । वृ. अथ केते द्विन्द्रियाः ?, सूरिराह - द्विन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा - 'पुलाकिमिया' इत्यादि, पुलाकिमिया नाम पायुप्रदेशोत्पन्नाः कृमयः कुक्षिकृमयः कुक्षिप्रदेशोत्पन्नाः शङ्खाःसमुद्रोद्भवाः प्रतीताः शङ्खनकाः त एव लघवः धुल्लाः- धुल्लिकाः खुल्ला - लघवः शङ्खाः- सामुद्रशवाकाराः बराटा:- कपर्दकाः 'सिप्पिसंपुड' ति संपुटरूपाः शुक्तयः चन्दनका - अक्षाः, शेषास्तु यथासम्प्रदायं वाच्याः, 'जे यावन्ने तहप्पगारा' इति येऽपिचान्ये तथाप्रकारा- एवंप्रकारा मृतककडेवर- सम्भूतकृम्यादयस्ते सर्वे द्वीन्द्रिया ज्ञातव्याः, ते संमुर्छिमत्वादेव च नपुंसकाः, संमुर्छिमानामवश्यं नपुंसकत्वात् 'नारकसंमुर्च्छिमा नपुंसका' इतिवचनात्, 'ते समासओ' इत्यादि, ते द्वीन्द्रियाः समासतः - संक्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy