SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४८ प्रज्ञापनाउपाङ्गसूत्रं-१-१/-/-/१४९ पर्याप्तकाश्च अपर्याप्तकाश्च, चशब्दौ योनिकुलभेदेन स्वगतानेकभेदसूचकौ, एतेषां द्वीन्द्रियाणामेवमादीनां पुलाकृम्यादीनां द्वीन्द्रियाणां पर्याप्तपर्याप्तादीनां सर्वसङ्ख्यया सर्वजातिकुलकोटीनां योनिप्रमुखाणि योनिप्रहाणि योनिशतसहस्राणि भवन्ति, सप्त जातिकुलकोटिलक्षा भवन्तिति भावः, इत्याख्यातं तीर्थकृद्भिः, मकारोऽलाक्षणिकः, इयमत्र भावना-इह जातिकुलयोनीनां परिज्ञानार्थमिदं परिस्थूरमुदाहरणं पूर्वाचर्यैरुपदर्शितम्, तद्यथा-जातिरिति किल तिर्यग्गतिः तस्याः कुलानि - कृमिकीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि तथाहि- एकस्यामेव योनी अनेकानि कुलानि भवन्ति, यथा छगणयोनौ कृमिकुलं कीटकुलं वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येकं पदम्, जातिकुलयोन्योश्च परस्परं विशेषः, एकस्यामपि योनौ अनेकजातिकुलसम्भवात्, यथा एकस्यामेव योनौ कृमिजातिकुलं कीटकजातिकुलं वृश्चिकजातिकुलमित्यादि, एवं च एकसल्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवहाणि जातिकुलानि सम्भवन्तीत्युपपद्यन्ते, द्वीन्द्रियाणां सप्त जातिकुलकोटीनां शतसहस्राणाम्, उपसंहारमाह- 'सेत्त' मित्यादि, सैषा द्वीन्द्रियसंसारसमापन्नजीवप्रज्ञापना ॥ सम्प्रति त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापनार्थमाह मू. (१५०) से किं तं तेइंदियसंसारसमावन्नजीवपन्नवणा ?, तेइंदियसंसारसमावन्नजीवपन्नवणा अनेगविहा पन्नत्ता, तं- ओवइया रोहिणिया कुंथू पिपीलिया उददंसगा उद्देहिया उक्कलिया उप्पाया उप्पडा तणहारा कट्टहारा मालुया पत्ताहारा तणबेटिया पत्तबेटिया पुप्फबेटिया फलबेटिया बीयबेटिया तेवुरणमिंजिया त ओसिमिंजिया कप्पासट्ठिमिंजिया हिल्लिया झिल्लिया झिंगिरा किंगिरिडा बाहुया लहुया सुभगा सोवत्थिया सुयबेंटा इंदकाइया इंदगोवया तुरुतुंबगा कुच्छलवाहगा जूया हालाहला पिसुया सयवाइया गोम्ही हत्थिसोंडा, जे यावने तहपगारा, सव्वे ते संमुच्छिमा नपुंसगा ते समासओ दुविहा पन्नत्ता, तं०-पजत्तगा य अपजत्तगाय, एएसिणं एवमाइयाणं तेइंदियाणं पञ्जत्तापज्रत्ताणं अड्ड जाइकुललोडिजोणिप्पमुहसयसहस्सा भवतीतिमक्खायं, सेत्तं तेइंदियसंसारसमावन्नजीवपन्नवणा । 'अथ का सा त्रीन्द्रियसंसारसमापत्रजीवप्रज्ञाना ?, भगवानाह - त्रीन्द्रियसंसारसमापत्रजीवप्रज्ञाना अनेकविधा प्रज्ञप्ता, तामेव तद्यथेत्यादिनोपदर्शयति, एते च औपयिकप्रभृतयस्त्रीन्द्रिया देशविशेषतो लोकतश्चावगन्तव्याः, नवरं गोम्ही - कर्णसियालिया 'जे यावन्ने तहप्पगारा' येऽपि चान्ये तथाप्रकारास्ते सर्वे त्रीन्द्रिया ज्ञातव्या इति शेषः, सव्वे 'ते संमुच्छिमानपुंसका' इत्यादि पूर्ववत्, 'एतेसिण 'मित्यादि, एतेषां त्रीन्द्रियाणामेवमादिकानाम्-औपयिकप्रभृतीनां पर्याप्तापर्याप्तानां सर्वसङ्ख्यया अष्टौ जातिकुलकोटीनां योनिप्रमुखाणि योनिप्रवाहाणि शतसहस्राणि भवन्ति, अष्टौ कुलकोटिलक्षा भवन्तीति भावः, इत्याख्यातं तीर्थकृभिः, उपसंहारमाह- 'सेत्त' मित्यादि । तदेवमुक्ता त्रीन्द्रिय संसारसमापन्नजीवप्रज्ञापना, सम्प्रति चतुरिन्द्रियसंसारसमापत्र - जीवप्रज्ञापनामाह पू. (१५१) से किं तं चउरिदियसंसारसमा वनजीवपत्रवणा ?, २ अनेगविहा पं० तं०पू. (१५२) अंधिय पत्तिय मच्छिय मसगा कीडे तहा पयंगे य । ढंकुण कुक्कड कुक्कुह नंदावते य सिंगिरडे ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy