________________
प्रज्ञापनाउपाङ्गसूत्रम् - २-२३/१//५३६
"जीवपररिणामहेउं कम्मत्ता पुग्गला परिणमति । पुग्गलकम्मनिमित्तं जीवोवि तहेव परिणमइ ।।" इति उक्तमेवार्थं चतुर्विंशतिदण्डकक्रमेण निरूपयति- 'कहण्णं भंते! नेरइए' इत्यादि सुगमं, तदेवमुक्त एकत्वेन दण्डकः, सम्प्रति बहुत्वेनाह- 'कहण्णं भंते! नेरइया' इत्यादि पाठसिद्धं । उक्तं द्वितीयद्वारमपि अधुना कतिभिः स्थानैर्बध्नातीति तृतीयद्वारमभिधित्सुराह
१६८
119 11
मू. (५३७) जीवे णं भंते! नाणावरणिज्जं कम्मं कतिहि ठाणेहिं बंधति ?, गो० ! दोहिं ठाणेहिं, तं०- रागेण य दोसेण य, रागे दुविहे पं० तं०-माया य लोभे य, दोसे दुविधे पं०, तं० - कोहे यमाणे य, इच्छेतेहिं चउहिं ठाणेहिं विरितोवग्गहिएहिं एवं खलु जीवे नाणावरणिजं कम्मं बंधति, एवं नेरतिते जाव वेमाणिते, जीवा णं भंते! नाणावरणिज्जं कम्मं कतिहिं ठाणेहिं बंधति ?, गो० ! दोहिं ठाणेहिं एवं चेव, एवं नेरइया जाव वेमाणिया, एवं दंसणावरणिजं जाव अंतराइजं, एवं एते एगत्तपोहत्तिया सोलस दंडगा ॥ ३
बृ. 'जीवे णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - द्वाभ्यां स्थानाभ्यां त एव स्थाने नामग्राहमाह-तद्यथा - रागेण द्वेषेण च, अथ कोऽसौ रागः को वा द्वेष इति ?, उच्यते, प्रीतिलक्षणो रागोऽप्रीत्यात्मको द्वेषः, एतौ च प्रीत्यप्रीत्यात्मकौ रागद्वेषी नात्यन्तं क्रोधादिभ्यो व्यतिरिच्येते, किन्तु तेष्वेवान्तर्भवतः स चान्तर्भावो नयभेदाद्विचित्र इति विनयजनानुग्रहाय प्रदर्शयते,
तत्र सङ्ग्रहो मन्यते - क्रोधोऽप्रीत्यात्मकः प्रतीत एव, मानोऽपि परगुणासहनात्मकत्वादप्रीत्यात्मकः, ततोऽप्रीत्यात्मकत्वादेतौ द्वावपि द्वेषः लोभोऽभिष्वङ्गात्मकत्वात् प्रीतिरूपः सुप्रसिद्धी, मायामपि परवञ्चनात्मिकां किञ्चिदभिलषनं प्रयुङ्क्ते अभिलाषश्च प्रतिस्वभाव इति साऽपि प्रीत्यात्मिका, तत एतौ मायालोभौ प्रीत्यात्मकत्वात् रागः उक्तं च
11911
"कोहं माणं चापीइजाइतो बेइ संगहो दोसं ।
माया लोण यस पी सामण्णतो रागं ॥"
अत्र उत्तरार्द्धस्याक्षरयोजन - मायया लोभेन सह प्रीतिजातिसामान्यात् स मानप्रीतिजातिभावात् द्वावपि मायालोभौ स सङ्ग्रहो रागमाचष्टे इति । व्यवहारः पुर्वृते - माया खलु परोपघाताय प्रयुज्यते परोपघातपरिणामश्च द्वेष इति मायाया अपि द्वेषेऽन्तर्भावः, या तु न्यायोपादानेनार्थे मूर्च्छा स परोपधातरहितः शुद्धो लोभ इति रागः, एवं चेदमस्य मतेन वस्तु व्यवस्थितं-क्रोधमानमाया द्वेष लोभो राग इति, आह च
॥१॥
"मायंपि दोसमिच्छइ ववहारो जं परोवघायाय ।
नायोवायाणे चिय मुच्छ मुच्छा लोभेत्ति तो रागो ॥”
ऋजुसूत्रः पुनराह - क्रोधो नियमादप्रीत्यात्मकः, ततः स परोपघातात्मकत्वत् द्वेषः ये तु मानमायालोभास्ते द्विधाऽपि सम्भवन्ति - प्रीत्यात्मका अप्रीत्यात्मकाश्च तथाहि - मानः स्वाहङ्कारोपयोगकाले प्रीत्यात्मकः स्वगुणबहुमानभावात्, परगुणद्वेषोपयोगवेलायामप्रीत्यात्मको मात्सर्यादिभावातू, मायाऽपि परवानोपयोगप्रवृत्तो परोपधातरूपत्वात् अप्रीत्यात्मिका परगतद्रव्योपादानचिन्तायां त्वभिष्वङ्गात्मकत्वात् प्रीतिरूपा, लोभोऽपि क्षत्रियादीनां परिचिन्त्यमानः प्रीत्यप्रीत्यात्मकः सुप्रतीतः, तथाहि क्षत्रिया एवं मन्यन्ते परविषयापहारोऽस्माकं न्यायो 'वीरभोग्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org