SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ पदं-२३, उद्देशकः-१, द्वारवसुन्धरा' इति न्यायात्, ततोयदापरविषयापहारायतेषामत्यर्थमभियोगस्तदाऽसौ अप्रीत्यात्मकः, परोपधातहेतुत्वात्, यदा तु परविषयजिघृक्षोपयोगस्तदा सोऽभिष्वङ्गात्मकत्वात प्रीत्यात्मकः, तत एवं मानमायालोमा उभयरूपा अपि संवेद्यन्ते, यदा च श्रीत्युपयोगो न तदाऽप्रीत्युपयोगः, यदा चाप्रीत्युपयोगो न तदा प्रीत्युपयोगः, एकस्मिन् समये उपयोगद्वयाभावात्, ततो मानमायालोभाःप्रीत्युपयोगकाले रागोऽप्रीत्युपयोगकाले द्वेषः, उक्तंच॥१॥ "उज्जुसुवमयं कोहो दोसो सेसाणमयमनेगंतो। रागोत्ति य दोसोत्तिय परिणाम वसेण उ विसेसो॥ ॥२॥ मानो रागोत्तिमओ साहंकारोवओगकालंमि। सो चेव होइ दोसो परगुणदोसोवयोगंमि ।। ॥३॥ मायालोमा चेवं परोवघाओवओगतो दोसो। मुच्छोवओगकाले रागोऽभिस्संगलंगोत्ति ॥" शब्दादयस्त्रयः पुनरेवमाहुः-इह द्वावेवकषायो-क्रोधो लोभश्च,येतुमानमायेतेक्रोधलोभयोरन्तर्भवतः, तथाहि-मानेमायायांचये परोपधातहेतवोऽव्यवसायास्ते क्रोधोऽप्रीत्यात्मकत्वात् ये तु स्वगुणोत्कर्षरद्रव्यमूत्मिकास्ते लोभोऽभिष्वङ्गरूपत्वात्, लोभोऽपि च लोकप्रसिद्धो द्विधा--परोपघातात्मको मूर्छात्मकञ्च, तत्र पोरपघातात्मको यथा क्षत्रियाणां परराष्ट्रापहारे, मूछत्मिको नायायोपात्तेनिजद्रव्ये, तत्र यः परोपघातात्मकः स क्रोधो भवति, क्रोधश्च सर्वोऽपि यथोक्तस्वरूपो द्वेषोऽप्रीत्यात्मकत्वात्, केवलस्तु मूत्मिकोऽध्यवसायो लोभः सचरागः तथा चोक्तम्॥१॥ “सद्दाइमयं माने मायाए य सगुणोवरागाय। उवओगो लोहोच्चिय जतोस तत्थेव उवरद्धो॥ ॥२॥ सेसंसा कोहोसियसपरोवधायमइओत्ति तो दोसो। तल्लकखणो य लोभो अह मुच्छा केवलो रागो ।।" इति, तत्र सङ्ग्रहनयमतेनाह-रागेदुविहे पन्नत्ते' इत्यादिसुगम, भावितत्वात्, उपसंहारमाह'इचतेहिं चउहिं ठाणेहिं' इत्यादि, एवं खलु इत्येनैरयन्तरोक्तैश्चतुर्भिःस्थानैः, कथंभूतैरित्याह-- वीर्योपगृहीतैर्जीववीर्योपस्थातितैरित्यर्थः, ज्ञानावरणीयं कर्म जीवो बध्नाति, अमुमेवार्थ चतुर्विंशतिदण्डकक्रमेण चिन्तयति-‘एवं नेरइए जाव वेमाणिए सुगम, नवरमेवं सूत्रपाठः 'नेरइएणंभंते! नाणावरणिज्जं कम्मंकइहिं ठाणेहिं बंधई इत्यादि । तदेवमेकत्वेन चिन्ता कृता, सम्प्रति बहुत्वेन तांकुर्वनाह-'जीवाणं भंते!' इत्यादि सुगम, यथा च ज्ञानावरणीयमेकत्वबहुत्वाभ्यांदण्डकद्वयेन चिन्तितं तथा दर्शनावरणीयादीन्यपिचिन्तनीयानि, सर्वसङ्ख्यया षोडश दण्डकाः । तदेवमुक्तं तृतीयं द्वारम्, सम्प्रति कति प्रकृतिर्वेदयते इति चतुर्थ द्वारमभिधित्सुराह मू (५३८)जीवेणंभंते! नाणावरणिजं कम्मं वेदेति?, गो०! अत्थेगइए वेदेति अत्थेगइए नो वेएइ, नेरइएणं भंते! नाणावरणिज्जं कम्मं वेदेति?, गो० नियमा वेदेति, एवंजाव वेमाणिते, नवरं मणूसे जहा जीवे। जीवाणभंते! नाणावरणिजं कम्मं वेदेति?, गो०! वेदेति एवं चेव, एवंजाव वेमाणिया, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy