________________
पदं - २३, उद्देशक :- १, द्वारं -
तदावारकंच ज्ञानावरणीयं कर्मतत्स्तठप्रथममुक्तं, ततस्तदनन्तरं दर्शनावरणीयं ज्ञानोपयोगाच्युतस्य दर्शनोपयोगेऽवस्थानात्, एते च ज्ञानदर्शनावरणीये स्वविपाकमुपदर्शयतो यथायोगमवश्यं सुखदुःखरूपवेदनीयकर्मविपाकोदयनिमित्ते भवतः
१६७
तथाहि - ज्ञानावरणमुपचयोत्कर्षमधिरूढं विपाकतोऽनुभवन् सूक्ष्म २ तरवस्तुविचारासमर्थमात्मानं जानानः खिद्यते भूरिलोकः, ज्ञानावरणकर्मक्षयोपशमपाटवोपेतश्च सूक्ष्मसूक्ष्मतराणि वस्तूनि निजप्रज्ञया भिन्दानो बहुजनातिशायिनमात्मानं पश्यन् सुखं वेदयते, तथाऽतिनिबिड - दर्शनावरणविपाकोदये जात्यन्धादिरनुभवति दुःखमनुतं, दर्शनावरणकर्मक्षयोपशमपटिष्टतापरिकरितश्च स्पष्टचक्षुराद्युपेतो यथावद् वस्तूनि पश्यन् वेदयते प्रमोदम्, तत एतदर्शप्रतिपत्त्यर्थ दर्शनावरणीयानन्तरं वेदनीयग्रहणं, वेदनीयं च सुखदुःखे जनयत्यभीष्टानभीष्टविषयसम्बन्धात्,
अभीष्टानभीष्टविषयसम्बन्धे चावश्यं संसारिणां रागद्वेषी ती च मोहनीयहेतुकौ तत एतदर्थप्रतिपत्त्यर्थं वेदनीयानन्तरं मोहनीयग्रहणं, मोहनीयमूढाश्च जन्तवो बह्वारम्भपरिग्रहाद्यासक्ता नरकाद्यायुष्कमाबध्नन्ति ततो मोहनीयानन्तरमायुष्कग्रहणं, नरकाद्यायुष्कोदये चावश्यं नरकगत्यादीनि नामान्युदयमायान्ति तत आयुष्कानन्तरं नामग्रहणं, नामकर्मोदये च नियमादुच्चनीयचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यमतो नामग्रहणा- नन्तरंगोत्रग्रहणं,
गोत्रोदये चोच्चैः कुलोत्पन्नस्यप्रायो दानलाभान्तरायादिक्षयोपशमो भवति, राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात्, नीचैः कुलोत्पन्नस्य तु दानलाभान्तरायाद्युदयोऽन्त्यजातीनां तथादर्शनातात्, तत एतदर्थप्रतिपत्त्यर्थं गोत्रानन्तरमन्तरायग्रहणं । तदेवमुक्तं प्रथमं द्वारम्,
मू. (५३६) कहन्नं भंते! जीवे अट्ठ कम्मपगडीतो बंधति ?, गो० ! नाणावरणिज्जस्स कम्मस्स उदरणं दरिसणावरणिज्जं कम्पं नियच्छति, दंसणावरणिजस्स कम्मस्स उदएणं दंसणमोहणिज्जं कम्मं नियच्छति, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छतं नियच्छति, मिच्छत्तेणं उदिएणं गो० ! एवं खलु जीवो अट्ठ कम्मपगडीतो बंधति,
कण्णं भंते! नेरइए अट्ठ कम्मपगडीओ बंधति ?, गो० ! एवं चेव, एवं जाब वेमाणिते कहण्णं भंते! जीवा अड्ड कम्मपगडीतो बंधति, गो० ! एवं चैव जाव वेमाणिया ॥
वृ. अधुना कथं बध्नातीति द्वितीयद्वारप्रतिपादनार्थमाह- कहन्नं भंते!' इत्यादि, कथं केन प्रकारेण णमिति वाक्यालङ्कारे जीवोऽष्टौ प्रकृतीर्बध्नाति ?, भगवानाह--गौतम! ज्ञानावरणीयमुत्कर्षप्राप्तमुदयेन अनुभवन् दर्शनावरणीयमुदयेन वेदयते, दृश्यन्ते हि खलु शून्यवादिप्रभृतयः कुवादिनः कुज्ञानवासितान्तःकरणा विपरीतं पश्यन्त इति,
दर्शनावरणीयस्य च कर्मण उदयेन दर्शनमोहनीयं कर्म निर्गच्छति, विपाकावस्थोदयेन प्रतिपद्यते इति भावः, तस्य दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं निर्गच्छति, अतत्त्वं तत्त्वमध्यवस्यति तत्त्वं चातत्त्वमिति भावः, तत एवं मिध्यात्वोदयेन जीवोऽष्टौ प्रकृतीर्बध्नाति, खलुशब्दः प्रायोवृत्तिदर्शनार्थः प्रायस्तावदेवमन्यथा सम्यग्धष्टिरपि कश्चिदष्टी प्रकृतीर्बध्नाति, केवलं कंश्चित् न बध्नत्यपि यथा सूक्ष्मसम्परायादिरिति स प्रकारो नोक्तः, एष चात्र तात्पर्यार्थः- पूर्वकर्म्मपरिणामसामध्यात् उत्तरकर्मणः सम्भवो, यथा बीजादङ्गुकपत्रनालादीनां, उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org