________________
४५
पद-१, उद्देशक:-, द्वारप्रत्येकशरीरत्वमपि भवति?,तत आह-'सव्वोऽवी'त्यादि, इह सर्वशब्दोऽपरिशेषवाची, सर्वोऽपि वनस्पतिकायः प्रत्येकशरीरः साधारणोवा किसलयावस्थामुपगतः सन्अनन्तकायस्तीर्थकरणधरैर्भणितः, स एव किसलयरूपोऽनन्तकायिकः प्रवृद्धिं गच्छन् अनन्तो वा भवति परीत्तो वा, कथम् ?, उच्यते, यदि साधारणं शरीरं निर्वत्त्यते तदा साधारण एव भवति, अथ प्रत्येकशरीरं ततः प्रत्येक इति, कियतः कालादूध्वं प्रत्येको भवति इति चेत्, उच्यते अन्तर्मुहूर्तात्, तथाहि-- निगोदानामुत्कर्षतोऽप्यन्तर्मुहूर्तकालं यावस्थितिरुक्ताततोऽन्तर्मुहूर्तात्परतोविवर्द्धमानः प्रत्येको भवतीति । समप्रति साधारणलक्षणमाहमू. (१३५) समयं वक्कंताणं समयं तेसिं सरीरनिव्वत्ती।
समयं आणुग्गहणं समयं ऊसासनीसासो।। वृ. 'समय युगपद्व्युत्क्रान्तानां-उत्पन्नानांसतां तेषां साधारणजीवानांसमकम्-एककालं शरीरनिर्वृत्तिर्भवति, समकं च प्राणापानग्रहणं-प्राणापानयोग्यपुद्गलोपादानम् ततः समकम्-एककालं तदुत्तरकालभाविनावुच्छ्वासनिःश्वासौ । मू. (१३६) इक्कस्स उजं गहणं बहूण साहारणाण तं चेव।
जंबहुयाणं गहणं समासओ तंपि इक्कस्स ।। वृ.तथा एकस्य यत्आहारादिपुद्गलानांग्रहणं तदेवबहूनामपि साधारणजीवानामवसेयं, किमुक्तं भवति ?-यत् आहारादिकमेको गृह्णहति शेषा अपि तच्छरीराश्रिता बहवोऽपि तदेव गृह्णन्तीति, तथा च यद्वहूनां ग्रहणं तत्संक्षेपादेकत्र शरीरे समावेशात् एकस्यापि ग्रहणम् । मू. (१३७) साहारणमाहारो साहारणमानुपानगहणं च ।
साहारणजीवाणं साहारणलक्खणं एवं॥ वृ. सम्प्रत्युरक्तार्थोपसंहारमाह-सर्वेषामध्येकशरीराश्रितानांजीवानामुक्तप्रकारेण यत् साधारणं साधारणः, सूत्रे नपुंसकतानिर्देशः आर्षत्वात्, आहारः आहारयोग्यपुद्गलोपादानम् यच्च साधारणं प्राणापानयोग्यपुद्गलोपादानं उपलक्षणमेतत् यौ साधारणावुच्छ्वासनिःश्वासौ या च साधारणा शरीरनिर्वृत्तिः एतत्साधारणजीवानां लक्षणम् । मू. (१३८) जह अयगोलो धंतो जाओ तत्ततवणिजंसकासो।
सब्बो अगनिपरिणओ नमिगोयजीवे तहा जाण ॥ १.सम्प्रति यथैकस्मिन् निगोदशरीरे अनन्ताजीवाः परिणताः प्रतीतिपथमवतरन्ति तथा प्रतिपादयन्नाह-यथा अयोगोलो मातः सन्तप्ततपनीयसंकाशः सर्वोऽग्निपरिणतो भवति तथा निगोदजीवान् जानीहि, निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीरात्मकतया अनन्तान् जीवान् परिणतान् जानीहि । मू. (१३९) एगस्स दोण्ह तिण्ह व संखिजाण व न पासिउं सका।
दीसंति सरीराइं निगोयजीवाणऽनंताणं ।। वृ.एवं च सति-एकस्यद्वयोस्त्रयाणांयावत्संख्येयानांवाशब्दादसंख्येयानांवा निगोदजीवानांशरीराणि द्रष्टुं न शक्यानि, कुत इति चेत्?, उच्यते-अभावात्, न हि एकरादिजीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डात्मकत्वात्तोषाम्, कथं तर्हि उपलभ्यानि?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org