________________
४४
प्रज्ञापनाउपाङ्गसूत्र-१-१/-1-1१३२
एए अनंतजीवा कंदुक्के होइ भयणा उ॥ वृ. एते कुहनादिवनस्पतिविशेषा लोकतः प्रत्येतव्याः, एते चानन्तजीवात्मकाः, नवरं कंदुक्के भजना, स हि कोऽपि देशविशेषादनन्तः अनन्तजीवात्मको भवति, कोऽप्यसङ्ख्येयजीवास्मक इति।। आह-किं बीजजीव एव मूलादिजीवोभवति उतान्यस्तस्मिन्नपक्रान्ते उत्पद्यते इति परप्रश्नमाशङ्कयाहमू. (१३३) वीए जोणिब्भूए जीवो वक्कमइ सो व अन्नो वा ।
___जोऽवियं मूले जीवो सोऽविय पत्ते पढमयाए। वृ. बीजे योनिभूते-योन्यवस्थांप्राप्ते, योनिपरिणाममजहतीतिभावः, बीजस्य हि द्विविधाऽवस्था, तद्यथा-योन्यवस्था अयोन्यवस्थाच, तत्र यदा वीजं योन्यवस्थांन जहाति अथ च उज्झितं जन्तुना तदा तत् योनिभूतमित्यभिधीयते, उज्झितं च जन्तुना निश्चयतो नावगन्तुं शक्यते ततोऽनतिशायिना सम्प्रति सचेतनमचेतनं वा अविध्वस्तयोनि योनिभूतमिति व्यवह्रियते, विध्वस्तयोनि तु नियमादचेतनत्वादयोनिभूतमिति, अथ योनिरिति किमभिधीयते?,
उच्यते, जन्तोरुत्पत्तिस्थानं अविध्वस्तशक्तिक-तत्रस्थजीवपरिणमनशक्तिसम्पन्नमिति भावः, तस्मिन् बीजेयोनिभूते जीवो 'व्युकामति' उत्पद्यते ‘स एव' पूर्वको बीजजीवः अन्यो वा आगत्यतत्रोत्पद्यते, किमुक्तंभवति? ---यदाबीजजीवनिर्वर्तकेनजीवेन स्वायुषःक्षयात्बीजपरित्यागः कृतो भवति, तस्य च वीजस्य पुनरम्बुकालावनिसंयोगरूपसामग्रीसंभवस्तदा कदाचित्स एव प्राक्तनो बीजजीवो मूलादिनामगोत्रे उपनिबध्य बीजे उत्पद्यते-तत्रागत्य परिणमति, कदाचिदन्यः पृथिवीकायिकादिबीजः,
_ 'योऽपिच मूलेजीव इति' यएव मूलतया परिणमते जीवः सोऽपिचपत्रे प्रथमतयेति-स एव प्रथमपत्रतयाऽपि परिणमते इत्येकजीवकत के मूलप्रथमपत्रे इति । मू. (१३४) सव्वोऽवि किसलओ खलु उग्गममाणो अनंतओ भणिओ।
सो चेव विवडतो होइ परित्तो अनंतो वा ।। वृ. आह-यद्येवं 'सव्वोऽवि किसलओ खलु उग्गममाणो अणंतओ मणिओ' इत्यादि वक्ष्यमाणं कथं न विरुध्यते?, उच्यते, इह वीजजीवोऽन्यो वा बीजमूलत्वेनोत्पद्यतदुत्सूनावस्था करोति, ततस्तदनन्तरभाविनी किसलयावस्थां नियमतोऽनन्ता जीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेषु असावेव मूलजीवोऽनन्तजीवतनुं स्वशरीरतया परिणमय्य तावद्वर्द्धते यावप्रथमपत्रमिति न विरोधः,अन्येतुव्याचक्षते-प्रथमपत्रमिह याऽसौ बीजस्य समुच्छूनावस्था, तेन एकजीवकत के मूलप्रथमपत्रे इति, किमुक्तं भवति?-मूलसमुच्छूनावस्थे एकजीवकर्तृके, एतच्च नियमप्रदर्शनार्थमुक्तं-मूलसमुच्छूनावस्थे एकजीवपरिणामिते एव, शेषं तु किसलयादि नाश्यं मूलजीवपरिणामाविर्भावितमिति, ततः ‘सव्वोऽवि किसलओ खलु उग्गममाणोअणंतओ भणिओ' इत्याद्यपिवक्ष्यमाणमविरुद्धं, मूलस-मुच्छूनावस्थानिर्वर्तनारम्भकाले किसलयत्वाभावादिति, आह-प्रत्येकशरीरवनस्पतिकायिकानांसर्वकालंशरीरावस्थामधिकृत्य किंप्रत्येकशरीरत्वमुत कस्मिंश्चिदवस्थाविशेषे अनन्तजीवत्वमपि सम्भवति?,
तथा साधारणवनस्पतिकायिकानामपि किं सर्वकालमनन्तजीवत्वमुत कदाचित्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org