________________
प्रज्ञापनाउपाङ्गसूत्रम्-२-२२///५२६
एवं कोहेणं माणेणं मायाए लोभेणं पेज्रेण दोसेणं कलहेणं अब्भक्खाणेणं पेसुत्रेणं परपरिवाएणं अरतिरतीते मायामोसेणं मिच्छादंसणसल्लेणं, सब्वेसु जीवा नेरइयभेदेणं भाणितव्वा, निरंतरं जाव वेमाणियाणंति, एवं अट्ठारस एते दंडगा १८ ।
-
बृ. 'जीवाणं भंते!' इत्यादि सुगमं, नवरं 'संसारसमावण्णगा' इति संसारं चतुर्गतिभ्रमणरूपं सम्यग्-एकीभावेनापन्नाः संसारसमापन्नाः संसारसमापन्ना एव संसारसमापन्नकाः, प्राकृतत्वात् स्वार्थे कप्रत्ययः, तद्विपरीता असंसासमापत्रकाः, चशब्दौ स्वगतानेकभेदसूचकौ, तत्र ये असंसारसमापनकास्ते सिद्धाः सिद्धाश्च देहमनोवृत्त्यभावतोऽक्रियाः, ये तु संसारसमापनकास्ते द्विविधाःशैलेशीप्रतिपत्रका अशैलेशीप्रतिपन्नकाश्च, शैलेशी नामायोग्यवस्था तां प्रतिपन्नाः शलेशी प्रतिपन्नाः, ततः पूर्ववत् स्वार्थिकः कप्रत्यतः, शैलेशीप्रतिपन्नकाः, तद्वयतिरिक्ताः अशैलेशीप्रतिपन्नकाः, तत्र ये शैलेशीप्रतिपन्नकास्ते सूक्ष्मबादरकायवाङ्मनोयोगनिरोधादक्रियाः, ये त्वशैलेशी प्रतिपन्नकास्ते सयोगित्वात् सक्रियाः, 'से एएणट्टेण'मित्याद्युपसंहारवाक्यं ।
1
तदेवं ये सक्रिया ये चाक्रियास्ते उक्ताः सम्प्रति यथा प्राणातिपातक्रिया न भवति तथा दर्शयति- 'अत्थि णं भंते!' इत्यादि, अस्त्येतत्, णमिति वाक्यालङ्कारे, भदन्त ! जीवानां प्राणातिपातेन प्राणातिपाताध्यवसायेन क्रिया सामर्थ्यात् प्राणातिपातक्रिया क्रियते ?, कर्मकर्त्तर्ययं प्रयोगो भवतीत्यर्थः, अनतीतनयाभिप्रायात्मकोऽयं प्रश्नः कतमोऽत्र नयो यमध्यवसायपृष्टमिति चेत्, उच्यते, ऋजुसूत्रस्तथाहि ऋजुसूत्रस्य हिंसापरिणतिकाल एव प्राणातिपातक्रियोच्यते, पुण्यपापकर्मोपादानानुपादानयोरध्यवसायानुरोधित्वात्, न अन्यथा परिणताविति, भगवानपि तं ऋजुसूत्रनयमधिकृत्य प्रत्युत्तरमाह - 'हंता ! अस्थि' हन्तेति प्रेषणप्रत्यवधारणविषादेषु, अत्र प्रत्यवधारणे, अस्त्येतप्रमाणातिपाताध्यवसायेन प्राणातिपातक्रिया भवति, 'परिणामियं पमाणं निच्छयमवलंबमाणाण' मित्याद्यागमवचनस्य स्थितत्वाद्, अमुमेव वनचनमधिकृत्याऽऽवश्यकेऽपीदं सूत्रं प्रावर्तिष्ट- 'आया चेव अहिंसा आया हिंसत्ति निच्छओ एस' तदेवं यथा प्राणातिपातक्रिया भवति तथोक्तम्, सम्प्रति कस्मिन् विषये सा प्राणातिपातक्रिया भवतीत्येतन्निरूपयति
'कम्हि णं भंते' इत्यादि, सुगमम्, नवरं मारणाध्यवसायो जीवविषयो भवति नाजीविषयो, योऽपि रज्वाद सर्पादिबुध्या मारणाध्यवसायः सोऽपि सर्पोऽयमिति बुध्या प्रवर्त्तमानत्वात् जीवविषये एव, न खलु रज्चादौ रज्वादितया परिच्छिन्ने कश्चित्तद्विषयं मारणाध्यवसायं विदधाति, ततः प्राणातिपातक्रिया षट्सु जीवनिकायेषूक्ताएतामेव प्राणातिपातक्रियामुक्तप्रकारेण नैयरिकादिकं चतुर्विंशतिदण्डकमधिकृत्य चिन्तयति-'अत्थि णं भंते' इत्यादि, नवरमेवंसूत्रपाठः 'अत्थि णं भंते! नेरइयाणं पाणाइवाएणं किरिया कज्जइ ?, हंता अत्थि, कम्हि णं भंते ! पाणाइवाएणं किरिया कज्जइ ?, गोयमा ! छसु जीवनिकाएसु', एवं तावद् वाच्यं यावद्वैमानिकविषयं सूत्रं । तदेवं यथा प्राणातिपातक्रिया भवति यद्विषया च तव्प्रतिपादितं सम्प्रति एवमेव मृषावादादिविषयाण्यपि सूत्राण्याह
१५०
1
'अत्थि णं भंते! मुसावाएण' मित्यादि सुगमं, नवरं 'किरिया कज्जइ' इति यथायोगं प्राणातिपातादिक्रिया भवतीत्यर्थः, तथा सतोऽपलापोऽसतश्च प्ररूपणं मृषावादः, स च लोकालोकगतसमस्तवस्तुविषयोऽपि घटते, तत उक्तं मृषावादसूत्रम्- 'सव्वदव्वेसु' इति, द्रव्यग्रहणमुपलक्षणं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International