________________
१४५
पदं-२१, उद्देशकः-, द्वारतयोरपि पुद्गलचयो नियमात् षड्भ्यो दिग्भ्यः,
तैजसकार्मणे सर्वसंसारिणां, ततो यथौदारिकस्य निर्व्याधातेन षड्भ्यो दिग्भ्यो व्याघातं प्रतीत्यपुनः स्यात् त्रिदिग्भ्यः स्याम्चतुर्दिगभ्यः स्यात् पञ्चदिग्भ्यः तथा तैजसकार्मणयोरपि द्रष्टव्यः, यथाचयस्तथाउपचयोऽपचयश्चवक्तव्यः,तत्र उपचय:-प्राभूत्येनचयः अपचयो-ड्रासःशरीरेभ्यः पुद्गलानां विचटनमितियावत् । उक्तं पुद्गलचयनमिदानीं शरीरसंयोगमाह
'जस्सणंभंते!' इत्यादि, यस्यौदारिकंतस्य वैक्रिय स्यादस्तिस्यानास्ति, य औदारिकशरीरी सन्वैक्रियलब्धिमान्वैक्रियमारभ्यतत्र वर्तते तस्यास्ति शेषस्य नास्तीतिभावः,यस्य वैक्रियशरीरं तस्यौदारिकशरीरं स्यादस्ति स्यान्नास्ति, देवनारकाणां वैक्रियशरीरवतामौदारिकशरीरं नास्ति तिर्यग्मनुष्याणांतुवैक्रियशरीरक्तामस्तीतिभावार्थः,आहारकशरीरेणापि सहचिन्तायां यस्यौदारिकशरीरं तस्याहारकशरीरं स्यादस्ति स्यान्नास्ति, य औदारिकशरीरी चतुर्दशपूर्वधर आहारकलब्धिमान् आहारकशरीरमारभ्य वर्तते तस्यास्ति शेषस्य नास्तीत्यर्थः, यस्य पुनराहारकशरीरं तस्यौदारिकशरीरं नियमादस्ति, औदारिकशरीरविरहे आहारकलब्धेरप्यसम्मवात, तैजसशरीरेण सह चिन्तायां यस्यौदारिकशरीरं तस्य नियमातैजसशरीरं, तैजसशरीरविरहे औदारिकशरीरासम्भवात्, यस्य पुनस्तैजसशरीरंतस्यौदारिकंस्यादस्तिस्यानास्ति, देवनैरयिकाणांनास्तितिर्यग्मनुष्याणामस्तीतिभावः, एवं कार्मणशरीरेणापिसह चिन्ता कर्तव्या, तैजसकार्मणयोःसहचारित्वात, सम्प्रति वैक्रियशरीरस्याहारकशरीरादिभिः सह संयोगचिन्तां कुर्वनाह
___ जस्स णं भंते!' इत्यादि, यस्य वैक्रियशरीरं न तस्याहारकशरीरं यस्याहारकशरीरं न तस्य वैक्रियशरीरं, समकालमनयोरेकस्यासम्मवात, तैजसकार्मणेयथौदारिकशरीरेण सह चिन्तिते तथा वैक्रियशरीरेणापि सह चिन्तयितव्ये, आहारकशरीरेणापि सह तथैव, तैजसकार्मणयोस्तु परस्परमविनाभावित्वात् यस्य तैजसं तस्य नियमात् कार्मणं यस्य कार्मणं तस्य कार्मणं तस्य नियमात् तैजसम् । गतं संयोगद्वारम्, इदानीं द्रव्यप्रदेशोभयैरल्पबहुत्वभिधित्सुराह
मू. (५२३) एतेसिणंभंते! ओरालियवेउब्बियआहारगतेयगकम्मगसरीराणंदबट्टयाए पदेसट्टयाए दव्वट्ठपएसट्टयाते कयरे२हितो अप्पा बा ४ ?, गो० ! सव्वत्थोवा आहारगसरीरा दवट्ठयाते वेउब्बियसरीरा दवट्ठयाए असंखेजगुणा ओरालियसरीरा दवडयाते असं० तेयाकम्मगसरीरा दोवि तुला दवट्टयाते अनंतगुणा,
पदेसट्टयाए सब्बत्योवा आहारगसरीरा पदे० वेउब्बियसरीरा पदे० असं० ओरालियसरीरा पदे० असं० तेयगसरीरा पदे० अनं० कम्मगसरीरा पदे० अनं०,
दवट्ठपदेसट्टयातेसव्वत्योवा आहारगसरीरादवट्ठयाते वेउब्बियसरीरादब्वट्ठाए असं० ओरालियसरीरादब्वट्ठयाएअसं० ओरालियसरीरेहितोदवट्टयाएहितो आहारगसरीरापदेसट्टयाए अनं० वेउब्बियसरीरा पदे० असं० ओरालियसरीरा० पदे० असंखेजगुणा तेयाकम्मा दोवितुल्ला दवढयाए अनं० तेयगसरीरा पदे० अनंतगुणा कम्मगसरीरा पदे० अनं० ।
वृ.'एएसिणं भंते!' इत्यादि, सर्वस्तोकान्याहारकशरीराणिद्रव्यार्थतया, शरीरमात्रद्रव्यसाझ्ययाइत्यर्थः, उत्कृष्टपदेऽपि तेषांसहपृथकत्वस्यप्राप्यमाणत्वात्, उक्कोसेणउजुगवंपुहुत्तमेत्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org