SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ १४६ प्रज्ञापनाउपाङ्गसूत्रम्-२-२१/-1-1५२३ सहस्साण मिति वचनात् तेभ्योऽपि वैक्रियशरीराणि द्रव्यार्थतया असङ्खयेयगुणानि, सर्वेषां नैरयिकाणां सर्वेषांच देवानां कतिपयतिर्यक्पञ्चेन्द्रियमनुष्यबादरवायुकायिकानां च वैक्रियशरीरसम्भवात्, तेभ्योऽप्यौदारिकशरीराणि द्रव्यार्थतया असङ्खयेयगुणानि, पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्याणामौदारिकशरीरभावात्, पृथिव्यप्तेजोवायुवनस्पतिशरीराणां च प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्योऽपि तैजसकार्मणशरीराणि द्रव्यार्थतयाऽनन्तगुणानीति, सूक्ष्मबादरनिगोदजीवानामनन्तानान्तानां प्रत्येकं तैजसकार्मणशरीरभावात्, स्वस्थाने तु परस्परं तुल्यानि, परस्पराविनाभावित्वादेकस्याभावेऽन्यस्याप्यभावात्। प्रदेशार्थचिन्तायांसर्वस्तोकान्याहारकशरीराणिसहस्रपृथकत्वमात्रशरीरप्रदेशानामल्पत्वात्, तेभ्योऽपि वैक्रियशरीराणिप्रदेशाथतया असङ्ख्येयगुणानि, इह यद्यपि वैक्रियशरीरयोग्यवर्गणाभ्य आहारकशरीरवर्गणाः परमाण्वपेक्षया अनन्तगुणास्तथापि स्तोकाभिर्वर्गणाभिराहारंकशरीरं निष्पद्यते हस्तमात्रत्वादतिप्रभूताभिक्रियशरीरवर्गणाभिक्रियं उत्कर्षतः सातिरेकलक्षयोजनप्रमाणत्वात् अतिस्तोकानि चाहारकशरीराणि सहस्रपृथक्तवेन प्राप्यमाणत्वात् अतिप्रभूतानि वैक्रियशरीराणिअसङ्खयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्ततउपपद्यन्ते आहारकशरीरेभ्यः प्रदेशार्थतया वैक्रियशरीराण्टयसङ्ग्येयगुणानि,।। तेभ्योऽप्यौदारिकशरीराणि प्रदेशार्थतया असङ्ख्येयगुणानि, असङ्ख्येयलोकाकाशप्रदेशप्रमाणतया तेषां लभ्यमानत्वेन तत्प्रदेशानामतिप्रभूतानां सम्भवात्, तेभ्योऽपि तैजसशरीराणि प्रदेशार्थतयाअनन्तगुणानि, द्रव्यार्थतयाऽपितेभ्यस्तेषामनन्तगुणत्वात्,तेभ्योऽपिकामणशरीराणि प्रदेशार्थतया अनन्तगुणानि, तैजसवर्गणाभ्यः कार्मणवर्गणानां परमाण्वपेक्षयाऽन्तगुणत्वातू, द्रव्यार्थप्रदेशार्थचिन्तायां “सव्वत्थोवा आहारगसरीरा दव्वट्ठयाए वेउब्वियसरीरा दव्वट्ठयाए असंखेजगुणाओरालियसरीरादब्ब० असं०' इत्यत्रभावना प्रागक्ताऽनसर्तव्या, तेभ्यो द्रव्यार्थतयौदारिकशरीरेभ्य आहारकशरीराणि प्रदेशार्थतयाऽनन्तगुणानि, औदारिकशरीराणि सर्वसङ्ख्याऽप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि, आहारकशरीरयोग्यवर्गणायां त्वेकैकस्यामप्यभव्येभ्योऽनन्तगुणाः परमाणव इति, तेभ्योऽपि वैक्रियशरीराणिप्रदेशार्थतयाअसङ्खयेयगुणानि, तेभ्योप्यौदारिकशरीराणि प्रदेशार्थतया असङ्घयेयगुणानि, अत्रभावनाप्रागेव कृता, तेभ्योऽपितैसजकार्मणानिद्रव्यार्थतयाअनन्तगुणानि अतिप्रभूतानन्तसङ्ग्येयोपेतत्वात्, तेभ्योऽपि तैजसशरीराणि प्रदेशार्थतयाऽनन्तगुणानि, अनन्तपरमाण्वात्मिकाभिरननताभि(वर्गणाभि)रेकैकस्यतैजसशरीरस्यनिष्पाद्यत्वात्, तेभ्योऽपि कार्मणशरीरराणि प्रदेशार्थतयाऽनन्तगुणानि, अत्र कारणं प्रागेवोक्तं। तदेवं पञ्चानामपि शरीराणां द्रव्यप्रदेशोभयैरल्पबहुत्वमुक्तम्, इदानीं जघन्योत्कृष्टोभयावगाहनाविषमल्पबहुत्वमाह म. (५२४) एतेसिणंभंते! ओरालियवेउब्वियआहारगतेयगकम्मगसरीराणंजहन्नियाए ओगाहणाए उक्कोसियाए ओगाहणाए जहन्नुकोसियाए ओगाहणाए कतरे२हितो अप्पा वा ४ गो०! सव्वत्योवा ओरालियसरीरस्स जहन्निया ओगाहणा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy