________________
पदं-२१, उद्देशकः, द्वार
१४३ देवस्यापिजघन्यतोऽङ्गुलासङ्खयेयबागप्रमाणातैजसशरीरावगाहना, नन्वानतादयोदेवा मनुष्येष्वेवोत्पद्यन्ते मनुष्याश्च मनुष्यक्षेत्र एवेति कथमङ्गुलासङ्ख्येयभागप्रमाणा?, उच्यते, इह पूर्वसम्बन्धिनी मनुष्यस्त्रियमन्येन मनुष्येणोपभुक्तामानतदेवः कश्चनाप्यवधिज्ञानत उपलभ्यासन्नमृत्युतया विपरीतस्वभावत्वात् सत्त्वचरितवैचित्र्यात् कर्मगतेरचिन्त्यत्वात् कामवृत्तेर्मिलिनत्वाच, उक्तं च॥१॥ “सत्त्वानां चरितं चित्रं, विचित्रा कर्मणां गतिः ।..
__ मलिनत्वं च कामानां, वृत्तिः पर्यन्तदारुणा ॥” इति, गाढानुरागादिहागत्य नकुलोपगृहं तां परिष्वज्य तदवाच्यप्रदेशे स्वावाच्यं प्रक्षिप्यातीव मूर्छितः स्वायुःक्षयात्कालं कृत्वा यदा तस्या एव गर्भे मनुष्यबीजे मनुष्यत्वेनोत्पद्यते, मनुष्यबीज च जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वादश मुहूर्तान् यावदवतिष्ठति, उक्तं च
__ "मणुस्सबीए णं भंते ! कालतो केवञ्चिरं होइ?, गो० ! जह० अंतो० उक्कोसेणं बरस मुहुत्ता" इति, ततो द्वादशमुहूत्तभ्यिन्तर उपभुक्तांपरिष्वज्यमृतस्यतत्रैवोत्पत्तिर्मनुष्यत्वेन द्रष्टव्या, उत्कर्षतोऽधो यावदधोलौकिका ग्रामास्तिर्यग् यावन्मनुष्यक्षेत्रं ऊध्र्वयावदच्युतः कल्पस्तावदवसेया, कथमिति चेत्, उच्यते, इह यदाऽऽनतदेवः कस्याप्यन्यस्य देवस्य निश्रया अच्युतकल्पंगतोभवति, सचतत्र गतःसन्कालंकृत्वाऽधोलौकिकग्रामेषुयदिवा मनुष्यक्षेत्रपर्यन्ते मनुष्यत्वेनोत्पद्यते तदा लभ्यते, एवं प्राणतारणाच्युतकल्पदेवानामपि भावनीयं, तथा चाह
___ “एवं जाव आरणदेवस्स, अचुयदेवस्स एवं चेव, नवरं उड़ जाव सयाई विमाणाई' इति, अच्युतदेवस्यापि जघन्यतः उत्कर्षतश्च तैजसशरीरावगाहना एवमेव-एवंप्रमाणैव, परं सूत्रपाठे 'उड़ जाव सयाई विमाणाई' इति वक्तव्यं, नतु 'उडं जाव अच्चुओ कप्पो' थि, अच्युतदेवो हि यदा चिन्त्यते तदा कथमूर्चयावदच्युतः कल्प इति घटते?, तस्य तत्र विद्यमानत्वात्, केवलमच्युतदेवोऽपि कदाचिदूर्ध्वं स्वविमानपर्यन्तं यावद् गच्छति तत्र च गतः सन् कालमपि करोति तत उक्तम्- 'उईजाव सयाईविमाणाई' इति, ग्रैवेयकानुत्तरसुरा भगवद्वन्दनादिकमपितत्रस्था एव कुर्वन्ति तत इहागमनासम्भवात् अङ्गुलासङ्ख्येयभागप्रमाणता न लभ्यते, किन्तु यदा वैताट्यगतासुविद्याधरश्रेणिषूत्पद्यन्तेतदास्वस्थानादारभ्याधोयावद्विद्याधरश्रेणयस्तावप्रमाणा जघन्या तैजसशरीरावगाहना, अतोऽपिमध्येजघन्यतराया असम्भवात्, उत्कृष्टा यावदधोलौकिका ग्रामा-स्ततोऽप्यध उत्पादासम्भवात्, तिर्यग्यावन्मनुष्यक्षेत्रपर्यन्तस्ततः परं तिर्यगप्युत्पादाभावात्, यद्यपि हि विद्याधरा विद्याधर्यश्च नन्दीश्वरं यावद् गच्छन्ति अर्वाक् सम्भोगमपि कुर्वन्ति तथापि मनुष्यक्षेत्रात् परतो गर्भ मनुष्येषु नोत्पद्यन्ते ततस्तिर्यग्यावत् मनुष्यक्षेत्रमित्युक्तं।
तदेवमुक्तानि तैजसशरीरस्य विधिसंस्थानावगाहनामानानि, सम्प्रति कार्मणस्य वक्तव्यानि, कार्मणं च तैजससहाविनाभावि तैजसवच्च जीवप्रदेशानुरोधि संस्थानं ततो यथैव तैजसशरीरस्योक्तानि तथैव कार्मणस्यापि वक्तव्यानि, तथा चाह-‘एवं जहेव तेयगसरीरस्स भेदो संठाणमोगाहणा य भणिता तहेव निरवसेसं भाणितव्वं जाव अनुत्तरोववाइय'ति ।।
उक्तानिपञ्चानामपि शरीराणां विधिसंस्थानवगाहनामानानि, सम्प्रति पुद्गलचयनमाह
मू. (५२२) ओरालियसरीरस्सणंभंते! कतिदिसिं पोग्गला चिजंति?, गो०! निव्वाधएणं छद्दिसिं वाघाये पडुच्च सिय तिदिसिं सिय छउद्दिसिं सिय पंचदिसिं, केउब्वियसरीरस्स णं भंते !
Jain Education International
For Private & Personal Use Only
www.jainėlibrary.org