SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम् - २ - २१/-/-/ ५२१ मत्स्यतयोत्पद्यते पण्डकवने पुष्करिणीषु चेति, तिर्यक्पञ्चेन्द्रियस्योत्कर्षतस्तिर्यग्लोकाल्लोकान्तोऽत्रापि भावना द्वीन्द्रियत्कर्त्तव्या, तिर्यक्पञ्चेन्द्रियस्यैकेन्द्रियेषूत्पादसम्भवात् । मनुष्यस्योत्कर्षतः समयक्षेत्रात्, समयप्रधानं क्षेत्रं समयक्षेत्रं मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, यस्मिन् अर्द्धतृतीयद्वीपप्रमाणे सूर्यादिक्रियाव्यङ्गयः समयो नाम कालद्रव्यमस्ति तत्समयक्षेत्रं मानुषक्षेत्रमिति भावस्तस्मात, यावदध ऊर्ध्वं वा लोकान्तस्तावत्प्रमाणा, मनुष्यस्याप्येकेन्द्रिये - षूत्पादसम्भवात्, समयक्षेत्रग्रहणं समय क्षेत्रादन्यत्र मनुष्यजन्मनः संहरणस्य चासम्भवेनातिरिक्ताया अवगाहनाया असम्भवात् । १४२ असुरकुमारादिस्तनितकुमारापर्यवसानभवनपतिव्यन्तरज्योतिष्कसौधर्मे शानदेवानां जघन्यतोऽङ्गुलासङ्घयेयभागः, कथमिति चेत्, उच्यते, एते ह्येकेन्द्रियेषूत्पद्यन्ते ततो यदा ते स्वाभरणेष्वङ्गदादिषु कुण्डलादिषु वा ये मणयः पद्मरागादयस्तेषु गृद्धा मूर्च्छितास्तदध्यवसायिनस्तेष्वेव शरीरस्थेष्वाभरणादिषु पृथिवीकायिकत्वेनोत्पद्यन्ते तदा भवति जघन्यतोऽङ्गुलासह्वयेयभागप्रमाणा तैजशरीरावगाहना, अन्ये त्वन्यथाऽत्र भावनिकां कुर्वन्ति, सा च नातिश्लिष्टेति, न लिखिता न च दूषिता, 'कुमार्ग न हि तित्यक्षुः पुनस्तमनुधावती'ति न्यायानुसरणात्, उत्कर्षतो यावदधस्तृतीयस्याः पृथिव्या अधस्तनश्चरमान्तः तिर्यक् यावत्स्वयम्भूरमणसमुद्रस्य बाह्यो वेदिकान्त ऊर्ध्वं यावत् ईषत्प्राग्भारा पृथिवी तावत् द्रष्टव्या, कथमिति चेत्, उच्यते, यदा भवनपत्यादिको देवस्तृतीयस्याः पृथिव्या अधस्तनं चरमान्तं यावत् कुतश्चित्प्रयोजनवशाद् गतो भवति, तत्र च गतःसन् कथमपि स्वायुःक्षयान्मृत्वा तिर्यक् स्वयम्भूरमणसमुद्रबाह्यवेदिकान्ते यदिवा ईषट्प्राग्भाराभिधपृथिवीपर्यन्ते पृथिवीकायिकतयोत्पद्यते तदा भवत्युत्कर्षतो यथोक्ता तता तैजसशरीरावगाहना, 1 अथवा सनत्कुमारदेवस्यापि जघन्यतोऽङ्गुलासङ्घयेयभागप्रमाणा तैजसशरीरावगाहना, कथमिति चेत्, उच्यते, इह सनत्कुमारादय एकेन्द्रियेषु विकलेन्द्रियेषु वा नोत्पद्यन्ते, तथा भवस्वाभाव्यात्, किन्तु तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु वा, ततो यदा मन्दरादिपुष्करिण्यादिषु जलावगाहं कुर्वतां स्वभवायुः क्षयात् तत्रैव स्वप्रत्यासन्ने देशे मत्स्यतयोत्पद्यन्ते तदा अङ्गुलासङ्घयेयभागप्रमाणा द्रष्टव्या, पूर्वसम्बन्धिनीं मनुष्यस्त्रियं मनुष्येणोपभुक्तामुपलभ्य गाढानुरागादिहागत्य परिष्वजते परिष्वज्य च तदवाच्यप्रदेशे स्वावाच्यं प्रक्षिप्य कालं कृत्वा तस्या एव गर्भे पुरुषबीजे समुत्पद्यते तदा लभ्यते, उत्कर्षतोऽधः पातालकलसानां लक्षयोजनप्रमाणावगाहानां द्वितीयत्रिभागं यावत् तिर्यग् यावत् स्वयम्भूरमणसमुद्रपर्यन्त ऊर्ध्वं यावदच्युतकल्पस्तावदवगन्तव्या, कथमिति चेत्, उच्यते, इह सनत्कुमारादिदेवानामन्यदेवनिश्रया अच्युतकल्पं यावद् गमनं भवति, न च तत्र वाप्यादिषु मत्स्यादयः सन्ति तत इह तिर्यग्मनुष्येषूत्पत्तव्यं, तत्र यदा सनत्कुमारदेवोऽन्यदेवनिश्रया अच्युतकल्पं गतो भवति तत्र च गतः सन् स्वायुः क्षयात्कालं कृत्वा तिर्यक् स्वयंभूरमणपर्यन्ते यदिवाऽधः पातालकलशानां द्वितीयत्रिभागे वायूदकयोरुत्सरणापसरणभाविनि मत्स्यादितयोत्पद्यते तदा भवति तस्य तिर्यगधो वा यथोक्तक्रमेण तैजसशरीरावगाहनेति, 'एवं जाव सहस्सारदेवस्स' त्ति एवं - सनत्कुमारदेवगतेन प्रकारेण जघन्यत उत्कर्षतश्च तैजसशरीरावगाहना तावद्वाच्या यावत्सहस्रार्देवेभ्यः, भावनाऽपिसर्वत्रापि समाना, आनत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy