SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ पद-२, उद्देशकः-, द्वार १४१ अधोलोकान्तादारभ्ययावदूर्ध्वलोकान्तऊर्ध्वलोकान्तादारभ्य यावदधोलोकान्तस्तावप्रमाणइति, इयं च सूक्ष्मस्य बादरस्य वा एकेन्द्रियस्य वेदितव्या, न शेषस्यासम्भवात्, एकेन्द्रिया हि सूक्ष्मा बादराश्च यथायोगसमस्तेऽपिलोकेवर्तन्तेन शेषास्ततोयदा सूक्ष्मो बादरोवाएकेन्द्रियोऽधोलोके वर्तमानऊर्ध्वलोकान्ते सूक्ष्मतया बादरतया वोत्पत्तुमिच्छतिऊर्ध्वलोकान्ते वावर्तमानः सूक्ष्मोबादरोवाअधोलोकान्ते सूक्ष्मतया बादरतया वोत्पत्स्यतेतदातस्य मारणान्तिकसमुद्घातेन समवहतस्य यथोक्तप्रमाणातैजसशरीरावगाहना भवति, एतेनपृथिव्यप्तेजोवायुवनस्पतिसूत्राण्यपि भावितानि द्रष्टव्यानि, तथाहि- सूक्षमपृथिवीकायिकोऽधोलोके ऊर्ध्वलोके वा वर्तमानो यदा सूक्ष्मपृथिवीकायिकादितयाबादरवायुकायिकतया वाऊर्ध्वलोकेअधोलोकेवा समुत्पत्तुमिच्छति तदा भवति तस्य मारणा न्तिकसमुद्घातेन समवहतस्योत्कर्षतो लोकान्तात्त लोकान्तं यावत् तैजसशरीरावगाहना, एवम कायिकादिष्वपि भाव्यं, द्वीन्द्रियसूत्रे आयामेन जघन्यतोऽङ्गलासङ्ग्येयभागप्रमाणा यदा अपर्याप्तो द्वीन्द्रियोऽहुलासङ्खयेयभागप्रमाणौदारिकशरीरः स्वप्रत्यासन्नप्रदेशे एकेन्द्रियादितयोत्पद्यते तदा अवसेया, अथवा यस्मिन् शरीरे स्थितःसन् मारणान्तिकसमुद्घातं करोति तस्मात् शरीरात् मारणान्तिकसमुद्घातवशात्बहिर्विनिर्गततेजशरीरस्यायामविष्कम्भविस्तारैरवगाहना चिन्त्यतेन तत्शरीरसहितस्य, अन्यथा भवनपत्यादेर्यजधन्यतोऽङ्गुलसङ्घयेयभागत्वं वक्ष्यतेतद्विरुध्येत, भवनपत्यादिशरीराणां सप्तादिहस्तप्रमाणत्वात्, ततो महाकायोऽपिद्वीन्द्रियो यदा स्वप्रत्यासन्नदेशे एकेन्द्रियतयोत्पद्यते तदाप्यनुलासङ्खयेयभागप्रमाणा वेदितव्या, उत्कर्षतस्तिर्यग्लोकालोकान्तः, किमुक्तं भवति?-तिर्यग्लोकादधोलोकान्तो ऊर्ध्वलोकान्तो वा यावता भवति तावत्रामाणा इत्यर्थः, कथमेतावप्रमाणेति चेत्, उच्यते, इह द्वीन्द्रिया एकेन्द्रियेष्वयुत्पद्यन्ते, एकेन्द्रियाश्च सकललोकव्यापिनः, ततो यदा तिर्यग्लोकस्थितो द्वीन्द्रिय ऊर्ध्वलोकान्ते अधोलोकान्ते वा एकेन्द्रियतया समत्पद्यते तदा भवति तस्य मारणान्तिकसमुद्घातसमवहतस्य यथोक्तप्रमाणा तैजसशरीरावगाहना, तिर्यग्लोकग्रहणं च प्रायस्तेषां तिर्यग्लोकः स्वस्थानमिति कृतमन्यथा अधोलोकैकदेशेऽप्यधोलौकिकग्रामादौ ऊर्ध्वलोकैकदेशेऽपिपण्डकवनादौ द्वीन्द्रियः सम्भवतीति तदपेक्षयाऽतिरिक्ताऽपि तैजसशरीरावगाहना द्रष्टव्या, एवं त्रिचतुरिन्द्रियसूत्रे अपि भावनीये । नैरयिकसूत्रे आयामेनजघन्यतोयत्सातिरेकंयोजनसहनमुक्तंतदेवंपरिभावनीयम्-इह वलयामुखादयधात्वारः पातालकलशाः लक्षयोजनावगाहा योजनसहस्रबाहल्यविक्करिकाः, तेषामधस्त्रिभागोवायुपरिपूर्णउपरितनस्त्रिभागउदकपरिपूर्णोमध्यम्नभागोवायूदकयोरुत्सरणापसरणधर्मा, तत्रयदा कश्चित्सीमन्तकादिषुनरकेन्द्रकेषुवर्तमानोनैरयिकः पातालकलशप्रत्यासन्नवर्ती चस्वायुःक्षयागदुवृत्य पातालकलशकुड्यंयोजनसहस्रबाहल्यंभित्त्वा पातालकलशमध्ये द्वीतीये तृतीये वा त्रिभागे मत्स्यतयोत्पद्यते तदा भवति सातिरेकयोजनसहनमाना नैरयिकस्य मारणान्तिकसमुद्घातसमवहतस्य जघन्यातैजशरीरावगाहना, उत्कर्षतो यावदधः सप्तमपृथिवी तिर्यक् यावत्स्वयम्भूरमणसमुद्रपर्यन्तऊर्ध्व यावत्पण्डकवने पुष्करिण्यस्तावद् द्रष्टव्या, किमुक्तं भवति अधः सप्तमपृथिव्याआरभ्य तिर्यग्यावत् स्वयम्भूरमणपर्यन्त ऊर्ध्वं यावत् पण्डकवनपुष्करिण्यस्तावत्प्रमाणा, एतावती च तदा लभ्यते यदाऽधः सप्तमपृथिवीनारकःस्वयम्भूरमणसमुद्रपर्यन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy