________________
१३८
प्रज्ञापनाउपाङ्गसूत्रम्-२-२१/-/-/५१९
जिगमिषुस्तर्हि प्रथमेनैवोत्पातेन पण्डकवनमधिरोहति प्रतिनिवर्तमानस्तु प्रथमोनोत्पातेन नन्दनवनमागच्छति द्वितीयेन स्वस्थानमिति,
जवाचारिणो हि चारित्रातिशयप्रभावतो भवन्ति, ततो लब्ध्युपजीवने औत्सुक्यभावतः प्रमादसम्भवाचारित्रातिशयनिबन्धना लब्धिः परिहीयते, ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वभुवमायाति, विद्याचारणःपुनःप्रथमेनोत्पातेन मानुषोत्तरं पर्वतं गच्छति द्वितीयेनतुनन्दीश्वरं, प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेनस्वस्थानमायातीति, तथासएवोर्ध्वं गच्छन्प्रथमोत्पातेन नन्दनवनं गच्छति द्वितीयेनोत्पातेन पण्डकवनं, प्रतिनिवर्तमानस्त्वेकैनैवोत्पातेन स्वस्थानमायातीति, विद्याचारणो विद्यावशतो भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, अतः प्रतिनिवर्तमानस्य शक्यत्यतिशयसम्भवादेकेनोत्पातेन स्वस्थानगमनमिति उक्तंच॥१॥ “अइसयचरणसमत्था जंघाविजाहि चारणा मुणओ।
जंघाहि जाइ पढमो नीसं काउं रविकरेवि। ॥२॥ एगुप्पाएण गओ रुयगवरंमि उतओ पडिनियत्तो।
बिइएणं नंदिस्सरमिहं तओ एइ तइएणं ।। ॥३॥ पढमेणं पंडगवन बिइउप्पाएण नंदनं एइ।
तइउप्पारण तओ इह जंघाचारणो एइ । ॥४॥ पढमेण माणुसोत्तरनगंस नंदिस्सरंतु बिइएण।
एइ तओ तइएणं कयचेइयवंदणो इहइं॥ पढमेणं नंदनवने बिअप्पाएण पंडगवनंमि।
एइ इहं तइएणं जो विनाचारणो होइ॥" तथा सर्वं-विड्मूत्रादिकमौषधं यस्य स सर्वोषधः, किमुक्तं भवति?- यस्य मूत्रं विट श्लेष्मा शरीरमलो वा रोगोपशमसमर्थोभवतिससर्वोषधः, आदिशब्दादामर्षोषध्यादिलब्धिपरिग्रहः, एताश्च ऋद्धीरप्रमत्तः सन्प्राप्य पश्चात् प्रमत्तो भवति, तेनैवेह प्रयोजनं तत उक्तम्-'इड्डिपत्तपमत्तसंजयेत्यादि, आह-मनुष्यस्याहारकशरीरमित्युक्ते सामथ्यादमनुष्यस्य नाहारकशरीरमित्यवसीयते ततः कस्मादुच्यते-'नो अमणुस्साहारगसरीरे' इत्यादि ?,निरर्थकत्वात्, उच्यते,
इह त्रिविधाविनेयाः, तद्यथा-उद्घटितज्ञामध्यमबुद्धयः प्रपञ्चितज्ञाच, तत्रये उद्घटितज्ञा मध्यमबुद्धयोवातेयथोक्तंसामर्थ्यमवबुध्यन्ते, ये पुनरघाप्यव्युत्पन्नत्वात्न यथोक्तसामथ्यावगमकुशलास्ते प्रपञ्चितमेवावगन्तुमीशते नान्यथा, ततस्तेषामनुग्रहाय सामर्थ्यलब्धस्यापि विपक्षनिषेधस्याभिधानं, महीयांसोहि परमकरुणापरीतत्वात् अविशेषेण सर्वेषामनुग्रहाय प्रवर्त्तन्ते, ततो न कश्चिद्दोषः,
'जहन्नेणं देसूणा रयणी' इतिआहारकशरीरस्य जघन्यतोऽवगाहना देशोना-किञ्चिदूना रलिः-हस्तः तथाविधप्रयत्नभावतःप्रारम्भसमयेऽपितस्या एतावत्या एव भावात्।तदेवमुक्तान्याहारकशरीरस्य विधिसंस्थानावगाहनामानानि, सम्प्रति तैजसस्य तान्यभिधित्सुराह
मू. (५२०) तेयगसरीरेणंभंते ! कतिविधे पं०?, गो० ! पंचविहे पं०, तं---एगिदियतेयगसरीरे जाव पंचिंदियतेयगसरीरे, एगिदियतेयगसरीरे णं भंते ! कइविधे पं०?, गो०!
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org