________________
पदं - २१, उद्देशक:-, द्वारं -
१३७
धन्यतमप्रमादयोगतः संयमयोगेषु सीदन्ति स्म प्रमत्ताः पूर्ववत्कर्त्तरि क्तप्रत्ययः, ते च प्रायो गच्छ्वासिनस्तेषां क्वचिदनुपयोगसम्भवात्, तद्विपरीता अप्रमत्ताः, ते च प्रायोजिनकल्पिकपरिहारविशुद्धिकयथालन्दकल्पिकप्रतिमाप्रतिपन्नास्तेषां सततोपयोगसम्भवात्,
इह जिनकल्पिकादयो लब्धि नोपजीवन्ति, तेषां तथाकल्पत्वात्, येऽपि च गच्छ्वासिन आहारकशरीरं कुर्वन्ति तेऽपि तदानीं लब्ध्युपजीवनेनौत्सुक्यभावतः प्रमादवन्तो, मोचनेऽपिच प्रमादवन्त आत्मप्रदेशानामौदारिकशरीरे सर्वात्मनोपसंहरणेन व्याकुलीभावात्, आहारकशरीरे चान्तर्मुहूर्त्तावस्थानं, ततो यद्यपि तन्मध्यभागे कियत्कालं मनाक् विशुद्धिभावतः कार्मग्रन्थिकैरप्रमत्ततोपवण्यते तथापि स लब्ध्युपजीवनेन प्रमत्त एवेत्यप्रमत्तस्य 'नो अपमत्तसंजए' इत्यादिना प्रतिषेधः कृतः, 'इड्डिपत्त' ति ऋद्धी: - आमर्षौषध्यादि लक्षणाः प्राप्त ऋद्धिप्राप्तस्तद्विपरीतोऽनृद्धिप्राप्तः, ऋद्धीश्च प्राप्नोति प्रथमतो विशिष्टमुत्तरोत्तरमपूर्वापूर्वार्थप्रतिपादकं श्रुतमवगाहमान; श्रुतसामर्थ्यतस्तीव्रतीव्रतर शुभभावनामधिरोहन् अप्रमत्तः सन् उक्तं च
119 11
"अवगाहते च स श्रुतजलधिं प्राप्नोति चावधिज्ञानम् । मानसपर्यायं वा ज्ञानं कोष्ठादिबुद्धीर्वा ॥ चारणवैक्रियसर्वौषधिताद्या वाऽपि लब्धयस्तस्य ! प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि ।”
अत्र 'स' इत्यप्रमत्तसंयतः, मानसपर्यायमिति - मानसाः - मनसः सम्बन्धिः पर्याया-विषया यस्य तन्मानसपर्यायं मनःपर्यायज्ञानमित्यर्थः, कोष्ठादिबुद्धीर्वा इत्यत्रादिशब्दात् पदानुसारिबीजपरिग्रहः, तिम्रो हि बुद्धयः परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते, तद्यथा
कोष्ठबुद्धिः १ पदानुसारिबुद्धिः २ बीजबुद्धि ३ च तत्र कोष्ठक इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थानी च सूत्रार्थी धारयति न किमपि तयोः कालान्तरे गलति सा कोष्ठबुद्धिः १, या पुनरेकमपि सूत्रपदमवधार्य शेषमश्रुतमपि तदवस्थमेव श्रुतमवगाहते सा पदानुसारिणी २, या पुनरेकमर्थपदं तथाविधमनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः ३,
साच सर्वोत्तमप्रकर्षप्राप्ता भगवतां गणभृतां, ते हि उत्पादादिपदत्रयमवधार्यं सकलमपि द्वादशाङ्गात्मकं प्रवचनमभिसूत्रयन्ति, तथा चारणाश्च वैक्रियं च सर्वोषध्यश्च तद्भावश्चाचारणवैक्रियसर्वौषधिता, तत्र चरणं - गमनं तद्विद्यते येषां ते चारणाः 'ज्योत्स्नादिभ्योऽणि 'ति मत्वर्थीयोऽणू प्रत्ययः, तत्र गमनमन्येषामपि मुनीनां विद्यते ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टं गमनमभिगृह्यते, अत एव चातिशायने मत्वर्थीयो, यथा रूपवती कन्या इत्यत्र, ततोऽयमर्थःअतिशायिचरणसमर्थाश्चारणाः, आह च भाष्यकृत् स्वकृतमाष्टटीकायां
॥२॥
"अतिशयचरणाच्चारणाः, अतिशयगमनादित्यर्थः " तेच ते द्विविधा- जङ्घाचारणाः विद्याचारणाश्च तत्र ये चारित्रतपोविशेषप्रभावतः समुद्भूतगमनविषयलब्धिविशेषास्ते जङ्घाचारणाः, ये पुनर्विद्यावशतः समुत्पन्नगमनलब्ध्यतिशयास्ते विद्याचारणाः, जङ्घाचारणाश्च रुचकवरद्वीपं यावत् गन्तुं समर्थाः विद्याचारणा नन्दीश्वरं, तत्र जङ्घाचारणा यत्र कुत्रापि गन्तुमिच्छवस्तत्र रविकतानपि निश्रीकृत्य गच्छन्ति, विद्याचारणास्तेववमेव, जङ्घाचारणश्च रुचकवरद्वीपं गच्छन् एकैनैवोत्पातेन गच्छति, प्रतिनिवर्त्तमानस्त्वेकेनोत्पातेन नन्दीश्वरमायाति द्वितीयेन स्वस्थानं, यदि पुनर्मेरुशिखरं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International