________________
१३२
प्रज्ञापनाउपाङ्गसूत्रम्-२-२१/-1-1५१८ भणितः-सप्त धनूंषि त्रयो हस्ताः षट्चाङ्गुलानि इति, स एव द्वितीयस्यां-शर्कराप्रभायां पृथिव्यां प्रथमे प्रस्तटे उत्सेधो भवति ज्ञातव्यः, ततः प्रतरे प्रतरे वृद्धिरवसेया त्रयो हस्तास्त्रीणिचाङ्गुलानि, तथाच सत्येकादशे प्रस्तटे उत्कर्षतो भवधारणीयशरीरपरिमाणमायाति पञ्चदशधनूंषि द्वौ हस्ती द्वादश चाङ्गुलानि इति, उत्तरवैक्रियोत्कर्षपरिमाणमाह-एकत्रिंशद्धनूंषि एके हस्तः, इदंच एकादशे प्रस्तटे वेदितव्यं, शेषेषुतु प्रस्तटेषु स्वस्वभवधारणीयापेक्षया द्विगुणमवसेयं २ ।
तथा तृतीयस्यां वालुकाप्रभायां पृथिव्यामुत्कर्षतो भवधारणीया एकत्रिंशद्धनूंषि एको हस्तः, एतच नवमंप्रस्तटमधिकृत्योक्तमवसेयं, शेषेषुप्रस्तटेष्वेवं-तत्र प्रथमप्रस्तटे भवधारणीया पञ्चदशधषिद्वी हस्तौ द्वादशाङ्गुलानि, द्वितीयेप्रस्तटेसप्तदशधषि द्वौ हस्तौ सानि सप्ताङ्गुलानि, तृतीये एकोनविंशतिर्धनूंषिद्वी हस्तौत्रीण्यङ्गुलानि, चतुर्थे एकविंशतिःधनूंषिएको हस्तः सार्धानि द्वाविंशतिरकुलानि, पञ्चमे त्रयोविंशतिर्धनूंषिएको हस्तोऽष्टादशचाङ्गुलानि, षष्ठे पञ्चविंशतिधषि एको हस्तः सार्धानित्रयोदशाङ्गुलानि, सप्तमे सप्तविंशतिर्धषिएको हस्तो नव चाङ्गुलानि, अष्टमे एकोनत्रिंशद्धनूंषिएको हस्तः सार्धानि चत्वार्यकुलानि, नवमेयथोक्तरूपंपरिमाणंभवति, अत्रापि चायं भावार्थः-प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रस्तटे प्रस्तटे सप्त हस्ताः सार्धानि च एकोनविंशतिरकुलानि क्रमेण प्रक्षेप्तव्यानि, ततो यथोक्तं प्रस्तटेषु परिमाणं भवति, उक्तं च
“सो चेव य तइयाए पढमे पयंरमि होइ उस्सेहो।
सत्त रयणीउ अंगुल उणवीसं सहबुद्दी य॥ ॥२॥ पयरे पयरे य तहा नवमे पयरंमी होइ उस्सेहो ।
धणुयाणि एगतीसं एका रयणी य नायव्वा ॥" अस्यापि गाथाद्वयस्येयमक्षरगमनिका-यएव द्वितीयस्याः शर्करप्रभाया एकादशेप्रस्तटे भवधारणीयाया उत्कर्षत उत्सेध उक्तः-पञ्चदश धनूंषि द्वौ हस्तौ द्वादश चाङ्गुलानि, स एव तृतीयस्याः वालुकाप्रभायाः पृथिव्याःप्रथमे प्रस्तटे उत्सेधो भवति, ततः प्रतरे २ वृद्धिरसवसेया सप्त हस्ताः सार्द्धानिचैकोनविंशतिरकुलानि, तथा च सति नवमे प्रस्तटेयथोक्तं भवधारणीयावगाहनामानं भवति-एकत्रिंशद्धनूंषिएकोहस्तइति, उत्तरवैक्रियोत्कृष्टपरिमाणमाह-द्वाषष्टिर्धनूंषि द्वौ हस्तौ, एतच नवमप्रस्तटाप्रेक्षमवसेयं, शेषेषुतुप्रस्तटेषु निजनिजभवधारणीयप्रमाणापेक्षया द्विगुणद्विगुणमिति ३।
चतुर्थ्यां पक्षप्रभायां पृथिव्यामुत्कर्षतो भवधारणीया द्वाषष्टिर्धनूंषि द्वौ हस्ती, इदं च सप्तमे प्रस्तटे प्रत्येयं, शेषेषु प्रस्तटेष्वेवं-पङ्कप्रभायाःप्रथमे प्रस्तटे एकत्रिंशद्धनूंषि एको हस्तः, द्वितीये षट्त्रिंशद्धनूंषि एकोहस्तो विंशतिरकुलानि, तृतीये एकचत्वारिंशद्धनूंषि द्वौहस्तौ षोडशअङ्गुलानि, चतुर्थे षट्चत्वारिंशद्धनूंषि त्रयो हस्ता द्वादशाङ्गुलानि, पञ्चमे द्विपञ्चाशद्धनूंषि अष्टावमुलानि, षष्ठे सप्तपञ्चाशद्धनूंषि एको हस्तः चत्वार्यकुलानि, सप्तमे यथोक्तरूपं परिमाणं, अत्रापि चैष भावार्थः-प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रस्तटे प्रस्तटे क्रमेण पञ्च धनूंषि विंशतिरकुलानीत्येवंरूपा वृद्धिरवगन्तव्या, ततः प्रथमे प्रस्तटे सूत्रोक्तं परिमाणं भवति, उक्तंच॥१॥ “सोचेव चउत्थीए पढमे पयरमि होइ उस्सेहो ।
पंच धनु वीस अंगुल पयरे पयरे य वुट्टी य॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org