SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ पदं-२१, उद्देशकः-, द्वारं १३१ प्रथमोत्पत्तिकाले वेदितव्या, उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गुलानि पर्याप्तावस्थायां, इदं चोत्कर्षतः शरीरावगाहनामानं त्रयोदशे प्रस्तटे द्रष्टव्यं, शेषेषु त्वक्तिनेषु प्रस्तटेषु स्तोकं स्तोकतरं, तचैवम्-रत्नप्रभायाः प्रथमप्रस्तटे त्रयो हस्ता उत्कर्षतः शरीरप्रमाणं, द्वितीये प्रस्तटे धनुरेकमेको हस्तः सार्धानि चाष्टावङ्गुलानि, तृतीये प्रस्तटे धनुरेकं त्रयो हस्ताः सप्तदशाङ्गुलानि, चतुर्थे द्वे धनुषी द्वौ हस्ती सार्धमेकमङ्गुलं, पञ्चमे त्रीणि धनूंषि दशाङ्गुलानि, षष्टे त्रीणि धनूषिं द्वौ हस्तौ सार्द्धान्यष्टादशाङ्गुलानि सप्तमे चत्वारि धषि एको हस्तः त्रीणि चाकुलानि, अष्टमे चत्वारि धनूंषि त्रयोहस्ताः सार्द्धान्येकादशाङ्गुलानि, नवमे पञ्चधनूंषि एको हस्तो विंशतिरकुलानि, दशमे षट्धनूंषि सार्द्धानि चत्वारि अङ्गुलानि, एकादशे षट् धनूंषि द्वौ हस्तौ त्रयोदशाङ्गुलानि, द्वादशे सप्त धनूंषि सान्येिकविंशतिरकुलानि, त्रयोदशे सप्त धनूंषि त्रयो हस्ताः षट् परिपूर्णान्यजुलानि, अत्र चायं तात्पर्यार्थः प्रथमप्रस्तटे यच्छरीरावगाहनापरिमाणं त्रयो हस्ता इति तस्योपरि प्रस्तटक्रमेण सार्द्धानि षट्पञ्चाशदगुलानि प्रक्षिप्यन्ते, ततो यथोक्तंप्रस्तटेषु शरीरावगाहनापरिमाणं भवति, उक्तंच॥१॥ “रयणाए पढमपयरे हत्थतियं देहउस्सओ भणिओ। छप्पन्चंगुल सवा पयरे २ हवइ बुद्दी॥" 'तत्थ णंजा सा उत्तरवेउब्विया' इत्यादि, जघन्यतोऽङ्गुलसङ्ग्येयभाग, प्रथमसमयेऽपि तस्या अङ्गुलसङ्ग्येयभागप्रमाणाया एव भावात्, नत्वसङ्ख्येयभागप्रमाणायाः,आह च सङ्ग्रहणिमूलटीकाकारो हरिभद्रसूरिः "उत्तरवैक्रिया तु तथाविधप्रयत्लभावादाद्यसमयेऽप्यङ्गुलसङ्ख्येयभागमात्रैव, उत्कर्षतः पञ्चदशधषि अर्धतृतीयाहस्ताः" इदंच उत्तरवैक्रियशरीरावगाहनापरिमाणं त्रयोदशेप्रस्तटेऽवसातव्यं, शेषेषु तु प्रस्तटेषु प्रागुक्तभवधारणीयमानापेक्षया द्विगुणं प्रत्येतव्यं ।। शर्कराप्रभायां भवधारणीया उत्कर्षतः पञ्चदशधषि अर्द्धतृतीयाहस्ताः,इदं चोत्कर्षतो भवधारणीयावगाहनापरिमाणमेकादशेप्रस्तटेऽवसातव्यं, शेषेषुतुप्रस्तटेष्विदं-शर्कराया:प्रथमे प्रस्तटेसप्त धनूंषि त्रयो हस्ताः षट्चाङ्गुलानि, द्वितीये प्रस्तटेअष्टौ धषिद्वौ हस्तौनव चाकुलानि, तृतीये नव धषि एको हस्तो द्वादश चाङ्गुलानि, चतुर्थे दश धषि पञ्चदशाकुलानि, पञ्चमे दश धनूंषि त्रयो हस्ता अष्टादशाङ्गुलानि, षष्ठे एकादश धनूंषि द्वौ हस्तावेकविंशतिरकुलानि, सप्तमे द्वादश धनूंषि द्वौ हस्तौ, अष्टमे त्रयोदशधषि एको हस्तःत्रीणि अकुलानि, नवमे चतुर्दशधषि षट्चाङ्गुलानि, दशमे चतुर्दशधनूंषि त्रयो हस्ता नवचाङ्गुलानि, एकादशे सूत्रोक्तमेव परिमाणं, अत्रापीदंतात्पर्यं-प्रथमेप्रस्तटेयत्परिमाणमुक्तंतस्योपरिप्रस्तटक्रमेण त्रयोहस्तास्त्रिणिचाङ्गुलानि प्रक्षेप्तव्यानि, ततो यथोक्तं प्रस्तटेषु परीमाणं भवति, ॥७॥ “सोचेव य बीयाए पढमे पयरंमि होइ उस्सेहो। हत्थतिय तिन्नि अंगुल पयरे पयरे य वुट्टीए।। ॥२॥ एक्कारसमे पयरे पन्नरस धणूणि दोन्नि रयणीओ। __ बारस य अंगुलाई देहपमाणं तुवित्रेयं ॥" गाथाद्वयस्यापीयमक्षरगमनिका-यएव प्रथमपृथिव्यां त्रयोदशे प्रस्तटे उत्कर्षत उत्सेधो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy