________________
पद - २१, उद्देशकः, द्वारं
॥२॥
१३३
जो सत्तमए पयरे नेरइयाणं तु होइ उस्सेहो । बासट्ठी धनुयाणं दोन्निरयणी य बोद्धव्वा ।।"
अस्यापि गाथाद्वयस्याक्षरगमनिका प्राग्वत् भावनीया, उत्तरवैक्रियोत्कर्षपरिमाणं पञ्चविंशं धनुः शतं तच्च सप्तमे प्रस्तटे, शेषेषु तु प्रस्तटेषु स्वस्वभवधारणीयापेक्षया द्विगुणमिति ४ ।
,
पञ्चम्यां धूमप्रभायां पृथिव्यां भवधारणीयोत्कर्षतः पञ्चविंशं धनुःशतं तच पञ्चमं प्रस्तटमधिकृत्योक्तमवसेयं, शेषेषु प्रस्तटेष्विदं-- प्रथमप्रस्तटे द्वाषष्टिर्धनूंषि द्वौ हस्ती, द्वितीयेऽटसप्ततिर्धनूंषि एका वितस्तिः, तृतीये त्रिनवतिर्धनूंषि त्रयो हस्ताश्चतुर्थे नवोत्तरं धनुः शतं एको हस्तः एकाच वितस्तिः, पञ्चमे सूत्रोक्तं परिमाणं, अत्रापि चायं तात्पर्यार्थः यत्प्रथमे प्रस्तटे परिमाणमुक्तं तदुपरि प्रस्तटे २ क्रमेण पञ्चदश धनूंषि सार्द्धहस्तद्वयाधिकानि प्रक्षेप्तव्यानि, तथा च सति यथोक्तं पञ्चमे प्रस्तटे परिणामं भवति, उक्तं च-
11911
" सो चेव य पंचमीए पढमे पथरमि होइ उस्सोहो । पनरस धणि दो हत्थ सह पयरेसु वुड्डी य ॥
तह पंचमए पयरे उस्सेहो धनुस्सयं तु पणवीसं ।।"
अस्याः सार्द्धगाथाया अक्षरगमनिका प्राग्वत् वक्तव्या, उत्तरवैक्रियोत्कर्षपरिमाणं अर्धतृतीयानि धनुःशतानि, एतानि च पञ्चमे प्रस्तटे वेदितव्यानि शेषेषु प्रस्तटेषु स्वस्वभवधारणीयापेक्षया द्विगुणमिति । षठ्यां तमः प्रभायां पृथिव्यामुत्कर्षतो भवधारणीया अर्द्धतृतीयानि धनुःशतानि, तानि च तृतीये प्रस्तटे प्रत्येतव्यानि, प्रथमे तु प्रस्तटे पञ्चविंशं धनुः शतं, द्वितीये सार्द्धसप्ताशीत्यधिकं धनुः शतंतृतीये तु सूत्रोक्तमेव परिमाणं, अत्राप्ययं तात्पर्यार्थः-प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रस्तटे प्रस्तटे सार्द्धानि द्वाषष्टिर्धनूंषि प्रक्षेप्तव्यानि, तथा च सति तृतीये प्रस्तटे यथोक्तं परिमाणं भवति, उक्तं च
॥१॥
“सो चेव य छट्टीए पढमे पयरंमि होइ उस्सेहो । बाधियं सड्डा पयरे पयरे य वुडीओ ।।
छट्टीए तइयपयरे दोसय पन्नासया होंति ।।"
अस्याप्युत्तरार्द्धपूर्विकाया गाथाया अक्षरगमनिका प्राग्वत् कर्तव्या, उत्तरवैक्रियोत्कर्षपरिमाणं पञ्चधनुः शतानि तानि च तृतीयप्रस्तटे वेदितव्यानि, आद्ययोस्तु द्वयोः प्रस्तटयोः स्वस्वभवधारणीयापेक्षया द्विगुणं द्विगुणमवबोद्धव्यं ६ ।
अथ सप्तम्यां तु पृथिव्यां भवधारणीया उत्कर्षतः पञ्च धनुःशतानि, उत्तरवैक्रिया धनुः सहस्रं, सर्वत्र भवधारणीया जघन्यतोऽङ्गुलासङ्घयेयभागप्रमाणा उत्तरवैक्रिया सङ्घयेयभागप्रमाणेति । तिर्यक्पञ्चेन्द्रियस्य वैक्रिय शरीरावगाहना उत्कर्षती योजनशतपृथकत्वं तत ऊर्ध्व करणशक्तेरभावात्, मनुष्याणां सातिरेकं योजनशतसहस्रं, विष्णुकुमारप्रभृतीनां तथाश्रवणात्, जघन्या तूभयेषामप्यङ्गुलसङ्ख्येयभागप्रमाणा, न त्वसङ्घयेयभागमाना, तथारूपप्रयत्नासम्भवात् ।
असुरकुमारादीनां स्तनितकुमारपर्यवसानानां व्यन्तराणां ज्योतिष्काणां सौधर्मेशानदेवानां प्रत्येकं जघन्या भवधारणीया वैक्रियशरीरावगाहना अङ्गुलासङ्घयेयभागप्रमाणा, सा चोत्पत्तिसमये द्रष्टव्या, उत्कृष्टा सप्त रत्नयः, उत्तरवैक्रिया जघन्या अङ्गुलसङ्ख्येयभागमात्रा, उत्कृष्टा योजनशतसहस्र,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org