________________
११२
प्रज्ञापनाउपाङ्गसूत्रम्-२-२०/-/४/५०० केवलिप्रज्ञप्तधर्मश्रवणश्रद्धानादवश्यंतयोर्भावात्, भूयः प्रश्नयति यो भदन्त! आभिनिधिकश्रुतज्ञाने उत्पादयतिस संचाएज्जा शक्नुयात् 'शीलं ब्रह्मचर्यं व्रतं चित्रंद्रव्यादिविषयनिमरूपं गुणं-उत्तरगुणं भावनादिरूपंविरमणं-विरतिरतीतस्थूलप्राणातिपातादेः प्रत्याख्यानं अनागतस्य स्थूलप्राणातिपातादेरेव, पोष-धर्मपोषं दधाति-करोतीतिपोषधं-अष्टम्यादिपर्वतस्मिन्नुपवासः पोषधोपवासः तं प्रतिपत्तुं शक्नुयात् ? । भगवानाह--'अत्येगइए' इत्यादि,
इह तिरश्चां मनुष्याणां च भवप्रत्ययतोऽवधिर्नोपजायते किन्तु गुणतः, गुणाश्च शीलव्रतादयोऽस्यापि विद्यन्ते ततः किमस्यावधिज्ञानमुत्पद्यते किंवा न? इति प्रश्नयति, जेणं भंते इत्यादि, यस्य शीलव्रतादिविषयविप्रकृष्टपरिणामभावात् अवधिज्ञानावरणकर्मणः क्षयोपशम उपजायते स उत्पादयेत्, शेषस्तु नेत्यर्थः॥
अवधिज्ञानान्तरंचमनःपर्यवज्ञानंद्रष्टव्यं, मनःपर्यवज्ञानं चानगारस्य भवति "तंसंजयस्स सव्वप्पमायरहियस्स विविहरिद्धिमतो" [तत् संयतस्य सर्वप्रमादरहितस्य विविधर्द्धिमतः] इति वचनात्, ततोऽनगारतामेव प्रश्नयति-'जेणं भंते!' इत्यादि, मुण्डो द्विधा--द्रव्यतो भावतश्च, द्रव्यतः केशाद्यपनयनेन भावतःसर्वसङ्गपरित्यागेन, तत्रेहद्रव्यमुण्डत्वासंभवाद् भावमुण्डः परिगृह्यते, मुण्डो भूत्वा अगारात्-स्वाश्रयरूपाद् विनिर्गत्य न विद्यते अगारं-गृहं द्रव्यतो भावतश्च यस्यासी अनगारः तद्भावोऽनगारतातां प्रव्रजितुं शक्नुयात् ? भगवानाह-नायमर्थः समर्थः तिरश्चां भलस्वभावातः तथारूपपरिणामासंभवात्, अनागारतायाअभावेमनःपर्यवज्ञानस्य चाभावः सिद्ध एव । यथा च तिर्यक्पञ्चेन्द्रियविषयं सूत्रकदम्बकमुक्तं तथा मनुष्यविषयमपि वक्तव्यं, नवरं मनुष्येषु सर्वभावसंभवात्मनःपर्यवज्ञानकेवलज्ञानसत्रे अधिके प्रतिपादयति-'जेणं भंते संचाएजा मुंडे भवित्ता' इत्यादि सुगम, नवरं 'सिझेजा' इत्यादि, सिध्येत-समस्ताणिमैश्वलादिसिद्धिभाक्भवेत्बुध्येत लोकालोकस्वरूपमशेषमवगच्छेत् मुच्यते भवोपग्राहिकर्मभिरपि, किमुक्तं भवति सर्वदुःखानामन्तं कुर्यात् ।
वानमन्तरज्योतिष्कवैमानिकेषु प्रतिषेधो वक्तव्यः, नैरयिकस्य भवस्वाभाव्यानरयिकदेवभवयोग्यायुर्बन्धासंभवात् । तदेवं नैरयिका नैरयिकादिचतुर्विंशतिदण्डकक्रमेण चिन्तिताः, साम्प्रतमसुरकुमारान्नैरयिकादिचतुर्विंशतिदण्डकक्रमेण चिन्तयति
मू. (५०१) असुरकुमारेणंभंते! असुरकुमारेहितो अनंतरंउव्वट्टित्ता नेरइएसु उववजेजा गोयमा! नो इणढे समढे । असुरकुमारेणं भंते! असुरकुमारहितो अनंतरंउव्वट्टित्ताअसुरकुमारेसु उववजेज्जा?, गोयमा ! नो इणढे समढे, एवं जाव थणियकुमारेसु ।
असुरकुमारेणं भंते ! असुरकुमारेहितो अनंतरं उव्वट्टित्ता पुढवीकाइएसु उववजेजा?, हंता गोयमा ! अत्थेगइए उववजेजा अत्येगतिए नो उववजेज्जा । जे णं भंते ! उववजेजा से णं केवलियं धम्म लभेजा सवणयाए?, गोयमा! नो इणढे समट्टे । एवं आउवणस्सइसुवि ।
असुरकुमारा णं भंते ! असुरकुमारेहितो अनंतरं उन्वट्टित्ता तेउवाउबेइंदियतेइंदियचउरिदिएसु उववजेज्जा ?, गोयमा ! नो इणढे समझे, अवसेसेसु पंचसु पंचिंदियतिरिक्खजोणिइसु असुरकुमारेसु जहा नेरइओ, एवंजाव थणियकुमारा।
वृ. 'असुरकुमारा णं भंते !' इत्यादि प्राग्वत्, नवरमेते पृथिव्यब्बनस्पतिष्वप्युत्पद्यन्ते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org