________________
पदं २०, उद्देशक:-, द्वारं - १
असुरकुमारेसु अंतकिरियं करेजा ?, गोयमा ! नो इणट्टे समझे। एवं जाव वेमाणिएसु । नवरं मणूसेसु अंतकिरियं करेज्जत्ति पुच्छा, गोयमा ! अत्थेगतिए करेज्जा अत्थेगतिए नो करेजा । एवे असुरकुमारा जाव वेमाणिए। एवमेव चउवीसं २ दंडगा भवंति ।
१०९
वृ. 'जीवे णं भंते!' इत्यादि, जीवो 'ण' मिति वाक्यालङ्कृतौ भदन्त ! 'अन्तक्रिया' मिति अन्तः - अवसानं, तच्च प्रस्तावादिह कर्मणामवसातव्यं, अन्यत्रागमेऽन्तक्रियाशब्द (वाच्यतया त) स्य रूढत्वात्, तस्य क्रिया- करणमन्तक्रिया-कर्मान्तकरणं मोक्ष इति भावार्थ:, “कृत्स्नकर्मक्षयान्मोक्षः” इति वचनात्, तां कुर्याद् ?, भगवानाह - गौतम ! अस्त्येकको यः कुर्यात्, अस्त्येकको यो न कुर्यात्, इयमत्र भावना--यस्तथाविध- भव्यत्सपरिपाकवशतो मनुष्यत्वादिकामविकलां सामग्रीमवाप्य तत्सामर्थ्यसमुद्भूतातिप्रबलवी र्योल्लासवशतः क्षपक श्रेणिसमारोहणेन केवलज्ञानमासाद्याधातीन्यपि कर्माणि क्षपयेत् स कुर्यात्, अन्यस्तु न कुर्यात्, विपर्यायादिति ।
एवं नैरयिकादिचतुर्विंशतिदण्डकक्रमेण तावद् भावनीया यावद् वैमानिकाः, सूत्रपाठ - स्त्वेवम्- 'नेरइए णं भंते ! अंतकिरियं करेज्जा ?, गोयमा ! अत्थेगइए करेजा अत्येगइए नो करेज्जा' इत्यादि । इदानीं नैरयिकेषु मध्ये वर्तमानोऽन्तक्रियां करोति किं वा न करोति ? इति पिपृच्छिषुरिदमाह
-: पदं - २०, दारं- २ "अंतक्रिया" :
मू. (४९८) नेरइया णं भंते! किं अनंतरागया अंतकिरियं करेति परंपरागया अंतकिरियं करेति ?, गोयमा ! अनंतरागयावि अंतकिरियं करेति परंपरागयावि अंतकिरियं करेति । एवं रयणप्पभापुढविनेरइयावि जाव पंकप्पभापुढवीनेरइया, धूमप्यभापुढवीनेरइयाणं पुच्छा, गोयमा नो अनंतरागया अंतकिरियं पकरेति, परंपरागया अंतकिरियं पकतेि, एवं जाव अहेसत्तमापुढवीनेरइया ।
असुरकुमारा जाव थणियकुमारा पुढवीआउवणस्सइकाइया य अनंतरागयावि अंतकिरियं पकरेति परंपरागयावि अंतकिरियं पकरेति, तेउवाउबेइंदियतेइंदियचउरिदिया नो अनंतरागया अंतकिरियं पकरेति परंपरागया अंतकिरियं पकरेति ।
सेसा अनंतरागयावि अंतकिरियं पकरेति परंपरागयावि अंतकिरियं पकरेति ।
वृ. 'नेरइए णं भंते' इत्यादि, भगवानाह - गौतम ! नामयर्थः समर्थः नायमर्थो युक्त्युपपन्न इत्यर्थः । कथमिति चेत् ?, उच्यते, इह कृत्स्नकर्मक्षयः प्रकर्षप्राप्तात्सम्यग्दर्शनज्ञानचारित्रसमु दायाद्भवति, न च नैरयिकावस्थायां चारित्रपरिणामः, तथा भवस्वाभाव्यादिति । एवमसुरकुमारादिषु वैमानिकपर्यवसानेषु प्रतिषेधो वक्तव्यः । मनुष्येषु तु मध्ये समागतः सन् कश्चिदन्तक्रियां कुर्यात्, यस्य परिपूर्णा चारित्रादिसामग्री स्यात्, कश्चिन्न कुर्यात्, यस्तद्विकल इति । एवमसुरकुमारादयोऽपि वैमानिकपर्यवसानाः प्रत्येकं नैरयिकादिचतुर्विंशतिदण्डकक्रमेण वक्तव्याः, तत एवमेते चतुर्विंशतिदण्डकाश्चतुर्विंशतयो भवन्ति ॥
अथैतेनैरयिकादयः स्वस्वनैरयिकादिभवेभ्योऽनन्तरं मनुष्यभवे समागताः सन्तोऽन्तक्रियां कुर्वन्ति किंवा तिर्यगादिभवव्यवधानेन परंपरागता इति निरूपयितुकाम आह- 'नेरइया णं भंते इत्यादिप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! अनन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अपि, तत्र रत्नशर्करावालुकापङ्कप्रभाभ्योऽनन्तरागता अपि परम्परागता अपि, धूमप्रभापृथिव्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org