________________
९८
प्रज्ञापनाउपाङ्गसूत्रम् - २- १८/-/७/४७९
यदा कश्चिदुपशमक उपशमश्रेणिपर्यवसाने उपशान्तवीतरागो भूत्वा श्रेणीतः प्रतिपतन् लोभाणुप्रथमसमयसंवेदनकाल एव कालं कृत्वा देवलोकेषूत्पद्यते, तत्र चोत्पन्नः सन् क्रोधकषायी मानकषायी मायाकषायी वा भवति तदा एकं समयं लोभकषायी लभ्यते, अथैवं क्रोधादिष्वप्येकसमयता कस्मान्न लभ्यते ?, उच्यते, तथास्वाभाव्यात्, तथाहि
श्रेणीतः प्रतिपतन् मायाणुवेदनप्रथमसमये मानाणुवेदनप्रथमसमये क्रोधाणुवेदनप्रथमसमये वा यदि कालं करोति कालं च कृत्वा देवलोकेषूत्पद्यते तथापि तथास्वाभाव्यात् येन कषायोदयेन कालं कृतवान् तमेव कषायोदयं तत्रापि गतः सन्नन्तर्मुहूर्तमनुवर्त्तयति, एतच्चावसीयते अधिकृतसूत्रप्रामाण्यात्, ततोऽनेकसमयता क्रोधादिष्विति । अकषायसूत्रं वेदसूत्रमिव भावनीयं । तं कषायद्वारमधुना लेश्याद्वारं, तत्रेदमादिसूत्रम्
-: पदं - १८, दारं - ८ "लेश्या" :
भू. (४८०) सलेसे णं भंते! सलेसेत्ति पुच्छा, गो० ! सलेसे दुविधे पं०, तं०- अणादीए वा अपजवसिते अणादीए वा सपज्जवसिते, कण्हलेसे णं भंते ! कण्हलेसेत्ति कालतो केवचिरं होइ ?, गो० ! जह० अंतो० उक्को० तेत्तीसं सागरोवमाई अंतोमुहुत्तमब्भहियाई,
नीललेसे णं भंते! नीललेसेत्ति पुच्छा, गो० ! जह० अंतो० उक्को० दस सागरोवमाइं पलितोवमासंखिज्जइभागमब्भहियाई, काउलेसे णं पुच्छा, गो० ! जह- अंतो० उक्को० तिन्नि
सागरोवमाई पलितोवमासंखिज्जतिभागमब्भहियाई,
तेउलेसे णं पुच्छा, गो० ! जह० अंतोमुहुत्तं उक्को० दो सागरोवमाइं पलितोवमासंखिप्रतिभागममहियाई, पहले से णं पुच्छा, गो० ! जह० अंतो० उक्को० दस सागरोवभाई अंतोमुहुत्तमब्भहियाई, सुक्कलेसे णं पुच्छा०, गो० ! जह० अंतो० उक्को० तेत्तीसं सागरीवमाई अंतोमुहुत्तमम्भहियाई, अलेसे णं पुच्छा, गो० ! सादीए अपज्जवसिते ।
वृ. 'सलेसे णं भंते' इत्यादि, सह लेश्या यस्य येन वा स सलेश्यः, स द्विविधः प्रज्ञप्तः, तद्यथा - अनादिरपर्यवसितो यो न जातुचिदपि संसारव्यवच्छेदं कर्त्ता अनादिसपर्यवसितो यः संसारपारगामी,
'कण्हलेसे णं भंते!' इत्यादि, इह तिरश्चां मनुष्याणां च लेश्याद्रव्याण्यन्तर्मुहूर्तिकानि, ततः परमवश्यं लेश्यान्तरपरिणामं भजन्ते, देवनैरयिकाणां तु पूर्वभवचरमान्तर्मुहूर्त्तादारभ्य परभावाद्यमन्तर्मुहूर्त यावत् अवस्थितानि ततः सर्वत्र जघन्यमन्तर्मुहूर्ततं तिर्यग्मनुष्यापेक्षया द्रष्टव्यमुत्कृष्टं देवनैरयिकापेक्षया, तच्च विचित्रमिति भाव्यते, तत्र यदुक्तं त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधिरकानीति तत्सप्तमनरक पृथिव्यपेक्षया द्रष्टवयं, तत्रत्या हि नैरयिकाः कृष्णलेश्याकाः, तेषां च स्थितिरुत्कृष्टा त्रयम्रशत्सागरोपमाणि यत्तु पूर्वोत्तरभवगते यथाक्रमं चरमाद्ये अन्तर्मुहूर्ते ते द्वे अप्येकं, अन्तर्मुहूर्त्तस्यासङ्ख्यातभेदभिन्नत्वात्, तथा चान्यत्राप्युक्तम्"मुहुत्तद्धं तु जहन्ना तित्तीसं सागरा मुहुत्तहिया । उक्कोसा होइ ठिई नायव्वा कण्हलेसाए ।"
119 ||
अत्र 'मुहुत्तहिया' इति चूर्णिकृता व्याख्यातमन्तर्मुहूर्त्ताधिकेति, नीललेश्यासूत्रे यानि दश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org