SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ९९ पदं-१८, उद्देशकः-, द्वार ०८ सागरोपमाणिपल्योपमासङ्ख्येयभागाभ्यधिकान्युक्तानि तानि पञ्चमपृथिव्यपेक्षया वेदितव्यानि, तत्र हि प्रथमप्रस्तटेनीललेश्या पंचमियाएमीसा इति वचनात्, तस्मिंश्च प्रथमलप्रस्तटेस्थितिरुकर्षत एतावती, ये तु पूर्वोत्तरभगवते अन्तर्मुहूर्ते त पल्योपमासङ्घयेयभागे एवान्तर्गत इति न पृथग्विवक्षिते, एवमुत्तरत्रापि द्रष्टव्यं, कापोतलेश्यासूत्रे त्रीणि सागरोपमाणि पल्योपमासङ्घयेयभागाभ्यधिकानि तृतीयनरकपृथिव्यपेक्षयाऽवसातव्यानि, तृतीयपृथिव्यामपि प्रथमप्रस्तटे कापोतलेश्याया भावात्, 'तईयाए मीसिया' इति वचनात् तत्रचोत्कृष्टस्थितेरेतावत्याः सम्भवात, तेजोलेश्यासूत्रे द्वे सागरोपमे पल्योपमासङ्खयेयमागाभ्यधिके ईशानदेवलोकदेवापेक्षया वेदितव्ये, ते हि तेजोलेश्याका उत्कर्षत एतावस्थितिकाः, पद्मलेश्यासूत्रे दश सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि ब्रह्मलोकापेक्षया भावनीयानि, तत्र हि देवानां स्थितिरुत्कृष्टा दश सागरोपमाणि लेश्या च पद्मलेश्या, ये च पूर्वोत्तरभगवते अन्तर्मुहूर्ते ते किलैकमन्तर्मुहूर्त्तमिति अन्तर्मुहूर्ताभ्यधिकानीत्युक्तं, शुक्ललेश्यासूत्रे त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि अनुत्तरसुरापेक्षया, तेषामुत्कर्षतः स्थितेः त्रयस्त्रिंशत्सागरोपमप्रमाणत्वात्, अन्तर्मुहूर्ताभ्यधिकत्वभावनाच प्राग्वत्, अलेश्य:-अयोगिकेवली सिद्धश्च, ततो न तस्यामप्यवस्थायामलेश्यत्वव्या घात इति साद्यपरेयवसितः । गतं लेश्याद्वारम्, इदानीं सम्यकत्वद्वारं तत्रेदमादिसूत्रम् -पदं- १८, दार-९- “सम्यकत्व":मू(४८१) सम्मद्दिट्ठीणंभंते! सम्मदि० काल?, गो०! सम्मदिट्टीदुविहे पं०, तं०-सादीए वा अपञ्जवसिते सादीए वा सपज्जवसिते से जह० अंतो० उक्को० छावद्धिं सागरोवमाइंसाइरेगाई, मिच्छादिट्ठीणंभंते! पुच्छा०, गो०! मिच्छादिट्ठीतिविधेपं०, तं०-अणाइए अपञ्जवसिए वाअणादीएवा सपञ्जवसिए सादीए वा सपज्जवसिए, तत्थ णंजे से सादीए सपज्जवसिते से जह० अंतो० उक्को० अनंतं कालं अनंताओ उइस्सप्पिणिओसप्पिणीओ कालतो खेत्ततो अवई पोग्गलपरियट्ट देसूणं, सम्मामिछादिट्टी णं पुच्छा, गो० ! जह० अंतो० उक्को० अंतो०। वृ. सम्मद्दिवीणंभंते!' इत्यादि, सम्यग-अविपर्यस्ताष्टिः-जिनप्रणीतवस्तुतत्त्वप्रतिपत्तियस्य स सम्यग्दृष्टिः, स चान्तरकरणकालभाविना औपशमिकसम्यकत्वेन सासादनसम्यकत्वेन विशुद्धदर्शनमोहपुओदयसम्भविक्षायोपशमिकसम्यकत्वेन सकलदर्शनमोहनीयक्षयसमुत्थक्षायिकसम्यकत्वेन वा द्रष्टव्यो, निर्वचनं सम्यग्दृष्टिद्धिविधः प्रज्ञप्तः, तद्यथा-“साद्यपर्यवसितः एष क्षायिके सम्यकत्वे उत्पादिते सतिवेदितव्यः, तस्य प्रतिपाताभावात, 'सादिसपर्यवसितः एषक्षायोपशमिकादिसम्यकत्वापेक्षया, तत्र योऽसौ सादिसपर्यवसितः सम्यग्दृष्टिः सजघन्येनान्तर्मुहूर्त, परतो मिथ्यात्वगमनात्, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, तत्र यदि वारद्वयं विजयादिषु चतुर्ध्वप्रतिपतितसम्यकत्व उत्कृष्टस्थितिको देव उत्पद्यते वेलात्रयं वाऽच्युतदेवलोके ततो देवभवैरेवषट्षष्टिः सागरोपमाणि परिपूर्णानि भवन्ति, ये तु मनुष्यभवाः सम्यकत्वसहितालस्तेऽधिका इति तैः सातिरेकाणीति, उक्तंच-"दो वारे विजयाइसु गयस्स तिन्निऽच्चए अहव ताई। अहरेगं नरभवियं" इति 'मिच्छादिट्ठीणंभंते!' इत्यादि,मिथ्या विपर्यस्ता घष्टिः-जीवाश्दिवस्तुतत्त्वप्रतिपत्तिर्यस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy