________________
९७
पदं-१८, उद्देशकः-, द्वारं -६ जधन्यतोऽन्तर्मुहूर्तमवस्थानं लभ्यते, उत्कृष्टमानं कण्ठयं
नपुंसकवेदसूत्रे जघन्यतः एकः समयः स्त्रीवेदस्येव भावनीयः, उत्कर्षतो वनस्पतिकालः, स च प्रागेवोक्तः, एतच्च सांव्यवहारिकजीवानधिकृत्य यदा चिन्ता क्रियते यदा त्वसांव्यवहारिकजीवानधिकृत्य चिन्ता क्रियते तदा द्विविधानपुंसकवेदाद्धा, कांश्चिदधिकृत्यानाद्यपर्यवसाना, ये न जातुचिदपि सांव्यवहारिकराशौ निपतिष्यन्ति, कांश्चिदधिकृत्य पुनरनादिसपर्यवसाना, ये असांव्यवहारिकराशेरुवृत्य सांव्यवहारिककराशावागमिष्यन्ति, ____ अथ किमसांव्यवहारिकराशेरपि विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति येनैवंप्ररूपणा क्रियते ?, उच्यते, आगच्छन्ति, कथमेतदवसेयमिति चेत् ?, उच्यते, पूर्वाचार्योपदेशात्, तथा चाह दुष्षमान्धकारनिमग्नजिनप्रवचनप्रदीपो भगवान् जिनभद्रगणिक्षमाश्रमणः-- ॥१॥ “सिझंति जत्तिया किर इह संववहारजीवरासीओ।
एंति अणाइवणस्सइरासीओ तत्तिया तंमि ॥" अवेदको द्विधा-साद्यपर्यवसितः सादिसपर्यवसितश्च, तत्र यः क्षपक श्रेणि प्रतिपद्यावेदको भवतिस साधपर्यवसितः, क्षपक श्रेणेः प्रतिपातासम्भवात्, यस्तूपशमश्रेणिं प्रतिपद्यावेदकोजायते स सादिसपर्यवसितः, स च जघन्येनैकं समयं, कथमेकं समयमिति चेत् ?, उच्यते, यदा एकसमयमवेदको भूत्वा द्वितीयसमये पञ्चत्वमुपागच्छति तदा तस्मिन्नेव पञ्चत्वसमये देवेषूत्पन्नः पुरुषवेदेदयेन सवेदको भवति, तत एवं जघन्यत एवं समयमवेदकः, उत्कर्षतोऽन्तर्मुहूर्त, परतोऽवश्यं श्रेणीतःप्रतिपाते वेदोदयसद्भावात् इति । गतं वेदद्वारमिदानीं कषायद्वारं, तत्रेदमादिसूत्रम्
-पदं-१८-दार-७:- "कषाय" :मू. (१७९) सकसाई णं भंते ! सकसादित्ति काल०?, गो० ! सकसाती तिविधे पं०, तं०-अणादीए वा अपञ्जवसिते अणादीए वा सपज्जवसिते सादीए वा सपज्जवसिते जाव अवर्ल्ड पोग्गलपरियट्ट देसूणं,
कोहकसाई णं भंते ! पुच्छा, गो०! जह० उक्को० अंतोमुहत्तं, एवंजाव मानमायकसाती, लोभकसाई णं भंते! लोभ० पुच्छा, गो०! जह० एक्कं समयं उक्को० अंतोमु०,
अकसाईगंभंते ! अकसादित्तिकाल०?, गो० अकसादी दुविहे पं०, तं०-सादीए वा अपजवसिते सादीए वा सपञ्जवसिते, तत्थ णं जे से सादीए सपज्जवसिते से जह० एगं समयं उक्को० अंतो०।
वृ.सकसाईगंभंते!' इत्यादि, सह कषायोयेषांयैर्वातेसकषाया-जीवपरिणामविशेषास्ते विद्यन्ते यस्य स सकषायी, इदं सकलमपि सूत्रं सवेदसूत्रवदविशेषेण भावनीयं, समानभावेनोक्तत्वात्, ‘कोहकसाई णं भंते !' इत्यादि, जघन्यतोऽप्यन्तर्मुहूर्त इति उल्कतर्षतोऽप्यन्तर्मुहूर्त्तमिति- क्रोधकषायोपयोगस्य जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्तप्रमाणत्वात्, तथाजीवस्वाभाव्यात्, इदं च सूत्रचतुष्टयमपि विशिष्टोपयोगापेक्षमिति, लोभकषायी जघन्येनैकं समयमिति, 117
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org