________________
प्रज्ञापनाउपाङ्गसूत्रम्-२-१८/-/६/४७८
तस्याः पुंस्त्वमेव न स्त्रीत्वंतत एवंजघन्यतः समयमात्रं स्त्रीवेदः, उत्कर्षचिन्तायामियं प्रथमादेशभावना-कश्चिजन्तु रीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये पञ्चान् भवान् अनुभूय ईशाने कल्पे पञ्चपञ्चाशत्प्रमाणपल्योपमोत्कृष्टस्थितिष्वपरिगृहीतासु देवीषु मध्ये देवीत्वेनोत्पन्नस्ततः स्वायु:-क्षये च्युत्वा भूयोऽपि नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये स्त्रीत्वेनोत्पन्नस्ततो भूयोऽपिद्वितीयं वारंईशाने देवलोके पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीत्वेनोत्पन्नस्ततः परमवश्यं वेदनान्तरमेव गच्छति, एवं दशोत्तरंपल्योपमशतं पूर्वकोटिपृथकत्वाभ्यधिकं प्राप्यते, अत्र पर आह
ननु यदि देवकुरुत्तरकुर्वादिषुपल्योपमत्रयस्थितिकासुस्त्रीषुमध्ये समुपपद्यते ततोऽधिकाऽपिस्त्रीवेदस्य स्थितिरवाप्यते, ततः किमित्येतावत्येवोपदिष्टा?, तदयुक्तमभिप्रायापरिज्ञानात, तथाहि-इह तावद्देवीभ्यश्युत्वा असङ्ख्येयवर्षायुष्कासु स्त्रीषु मध्ये नोत्पद्यते, देवयोनेश्युतानां असङ्ख्येयवर्षायुष्केषु मध्ये उत्पादप्रतिषेधात्, नाप्यसवयेयवर्षायुष्का सती योषित् उत्कृष्टासु देवीषुजायते, यत उक्तं मूलटीकाकृता-“जत्तोअसंखेञ्जवासाउया उक्कोसहिई न पावेइ" इति, ततो यथोक्तप्रमाणैवोत्कृष्टा स्थिति; स्त्रीवेदस्यावाप्यते, द्वीतायदेशवादिनः पुनरेवमाहु:
नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये पश्चान् भवान् अनुभूय पूर्वप्रकारेणेशानदेवलोकेषु वारद्वयमुत्कृष्टस्थितिकासु देवीषु मध्ये उत्पद्यमाना नियमतः परिगृहीतास्वेवोत्पद्यते नापरिगृहीतासुततस्तन्मतेनोत्कृष्टमवस्थानं स्त्रीवेदस्याष्टादश पल्योपमानिपूर्वकोटिपृथकत्वंच, तृतीयादेशवादिनां तु सौधर्मदेवलोके परिगृहीतासु सप्तपल्योपमप्रमाणोत्कृष्टायुष्कासु वारद्वयं समुत्पद्यते, ततस्तन्मतेन चतुर्दशपल्योपमानिपूर्वकोटिपृथकत्वाभ्यधिकानिस्त्रीवेदस्य स्थितिः, चतुथदिशवादिनांतुमतेन सौधर्मदेवलोकेपञ्चाशत्पल्योपमप्रमाणोत्कतृष्टास्वपरिगृहीतदेवीष्वपि पूर्वप्रकारेणवारद्वयं देवीत्वेनोत्पद्यते, ततस्तन्मतेनपल्योपमशतंपूर्वकोटिपृथकत्वाभ्यधिकमवाप्यते, पञ्चमादेशवादिनः पुनरिदमाहुः
नानाभवभ्रमणद्वारेण यदि स्त्रीवेदस्योत्कृष्टमवस्थानं चिन्त्यतेतर्हि पल्योपमपृथकत्वमेव पूर्वकोटीपृथकत्वाभ्यधकं प्राप्यते न ततोऽधिकं, कथमेतदिति चेत् ?, उच्यते, नारीषु तिरश्चीषु वापूर्वकोट्यायुष्कासुमध्ये सप्त भवाननुभूयाष्टमभवे देवकुर्वादिषुत्रिपल्योपमस्थितिषु स्त्रीमध्ये स्त्रीत्वेन समुत्पद्यते, ततो मृत्वा सौधर्मे देवलोकेजघन्यस्थितिकासुदेवीषुमध्ये देवीत्वेनोपजायते, तदनन्तरं चावश्यं वेदान्तरमभिगच्छति इति, अमीषां पञ्चानामादेशानामन्यतमादेशसमीचीनतानिर्णयोऽतिशयज्ञानिभिःसर्वोत्कृष्टश्रुतलब्धिसम्पन्नैर्वाकर्तुशक्यते, तेचभगवदार्यश्यामप्रतिपत्ती नासीरन्, केवलं तत्कालापेक्षयायेपूर्वतमाः सूरयस्तत्कालभाविग्रन्थपौर्वापर्यपालोचनया यथास्वमतिस्त्रीवेदस्य स्थितिप्ररूपितवन्तस्तेषां सर्वेषामपिप्रावनिकसूरीणां मतानि भगवानार्यश्याम उपदिष्टवान्, तेऽपि च प्रावचनिकसूरयःस्वमतेन सूत्रं पठन्तो गौतमप्रश्नभगवनिर्वचनरूपतया पठन्ति, ततस्तदवस्थान्येव सूत्राणि लिखता गोतमा! इत्युक्तं, अन्यथा भगवति गौतमाय निर्देष्टरि नसंशयकथनमुपपद्यते, भगवतःसकलसंशयातीतत्वात,
__ पुरुषवेदसूत्रे जघन्यतोऽन्तर्मुहुर्त्तमिति, यदा कश्चिदन्यवेदेभ्यो जीवेभ्य उध्धृ त्य पुरुषवेदेषुत्पद्यतत्रचान्तर्मुहूर्तसर्वायुर्जीवित्वा गत्यन्तरेअन्यवेदेषुमध्ये समुत्पद्यते तदापुरुषवेदस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org